________________
चाऽहं तत्र दारुणे जगति इयच्चिरायाऽवस्थित्यर्थं स्वमेव धिक्कृतवान् ? कथं वाऽहं स्वमेव प्रतिघ्नन्, विषाक्तं कुर्वन्, संपीडयंश्च स्वयमेव वृद्धः कुरूपश्चाऽभवम् ? इतः परमहं 'सिद्धार्थश्चतुरोऽस्ती'ति न कदाऽपि कल्पयिष्ये मंस्ये वा । अथाऽपि केवलमेकमेव वस्तु मे रोचते, मया तत् सुष्ठवेव कृतमिति, एतच्चाऽहं सर्वथा प्रशंसामि - यन्मया निजस्य घृणामयस्य मौर्यपूर्णस्य सर्वथा रिक्तस्य च जीवनस्याऽन्तः कृतः । भोः सिद्धार्थ ! भवता बहूनां वर्षाणां मौर्यस्याऽनन्तरं पुनरपि एकवारं किञ्चिच्छुभं चिन्तितं, किञ्चित् साधितं, स्वहृदयस्थितस्य पक्षणिो गानं श्रुतं समनुसृतं च !' ।
__ एवं चिन्तयित्वा स स्वमेव प्रशंसितवान्, स्वात्मनैव सन्तुष्टो जातः, उत्सुकतया च क्षुत्क्षामत्वेन नदन्तं स्वमुदरं श्रुतवान् । निराशां मृत्युं च प्रति यो नयेत् तादृशं शोकस्य दुःखस्य चांऽशं स पर्याप्ततयाऽऽस्वादितवानासीत् । तथाऽपि सर्वं शोभनमेवाऽऽसीत् । यदि किलैतन्नाऽभविष्यत्, सर्वथा हताशाया, विषादस्य, चिन्ताकुलतायाश्च चरमक्षणे यदि स स्वात्मघातार्थं जले पतितुं कृतसङ्कल्पो नाऽभविष्यत् तदा स कामस्वामिना सहैव चिरायाऽवत्स्यत्, धनार्जनं धनापव्ययं चाऽकरिष्यत्, आत्मानमुपेक्ष्य शरीरं चैवाऽपोषयिष्यत्, तथा चिराय तस्मिन् मृदुशय्यातुल्ये नरके न्यवत्स्यत् । तस्याऽन्तःकरणस्थितः पक्षी, उध्वीभवंश्च स्पष्टोऽन्तर्नादोऽद्याऽपि तस्मिन् सजीवन आसीत् । एतस्मात् कारणादेव स प्रसन्न आसीत्, हसन्नासीत्, पलिते च शिरसि सत्यपि तन्मुखं प्रोज्जवलमभासत ।
पुनः स चिन्तितवान् – 'जनेन हि स्वजीवने सर्वमपि सम्यगनुभवितव्यम् । बाल्ये मयाऽधीतं यज्जागतिकानि सुखसमृद्धयादीनि सर्वथाऽप्रशस्तानीति । एतज्ज्ञानं चिराय मय्यासीत्
१०७