________________
किन्तु तस्याऽनुभवो हि मयाऽधुना कृतः । इदानीमहं केवलं बुद्ध्या तन्न जानामि किन्तु नयनाभ्यां, हृदयेन, कुक्षिणा चाऽपि तज्जानाम्यनुभवामि च । एतज्ज्ञानं ह्यवश्यं प्रशस्यमेव' ।
एवं च स स्वस्मिन् जातस्य परिवर्तनस्य विषये चिराय चिन्तितवान् निजान्त:स्थितं च पक्षिणमानन्देन गायन्तं श्रुतवान् । किमयमन्त:स्थितः पक्षी मृत इति तेन नाऽनुभूतमासीत् ? नैव, किञ्चिदन्यदेव तस्याऽन्तः स्थितं मृतमासीत्, यस्य नाशस्तेन चिरादाकाङ्क्षित आसीत् । किं तत् तदेव नाऽऽसीद् यं नाशयितुं तेन संन्यस्तस्योत्साहपूर्णेषु वर्षेष्वेकदाऽऽकाङ्क्षितम् ? किं तत् तस्य स्वत्वं नाऽऽसीत् - लघु भीतभीतं चाऽपि गर्विष्ठं स्वत्वं
येन सह स वर्षाणि यावत् द्वन्द्वयुद्धं कृतवानासीत्, किन्तु यत् तं पौनःपुन्येन पराभूतवत्, यत् तस्य पुरतः पौनःपुन्येनाऽऽविर्भूतवत्, यच्च तस्य सुखं मोषित्वा तं भयेन पूरितवत् ? किं तदेतदेव नाऽऽसीत् यदन्ततो गत्वाऽद्य वनेऽस्या मनोरमाया नद्या उपकण्ठं विपन्नम् ? किमेतत् तस्य बाल्यं, विश्रम्भ-सुखपूर्णत्वं भयरहितत्वं च तद्विनाशेनैव नाऽवर्तत किल ?
सिद्धार्थोऽधुनैतदपि स्पष्टतया ज्ञातवान् यद् यदा स ब्राह्मणः श्रमणश्चाऽऽसीत् तदा तस्याऽनेन स्वत्वेन सङ्घर्षः किमर्थं विफलो भवति स्मेति । ज्ञानाधिक्येन, पवित्रमन्त्रोच्चारणाधिक्येन, यागादिकर्माधिक्येन, तपश्चर्याधिक्येन, एवं च सर्वत्राऽतिकरणेनाऽतिप्रवृत्त्या च स बद्धः प्रतिरुद्धश्च जात आसीत् । स हि सर्वदा चतुरतमः, सर्वदाऽन्येभ्यः पदमेकं वाऽप्यग्रे तिष्ठन्, सर्वथा सोत्साहः, सर्वदा ज्ञानी प्रज्ञावांश्च, सर्वदा च याजकः पण्डितश्च भवन्नत्यन्तं दर्पाध्मातो जात आसीत् । तस्य स्वत्वं तस्य याजकत्वे, दर्पे, ज्ञानोत्कर्षे चोपसर्पितमासीत् । ततश्च तपसा दुःखसहनेन च तस्य विनाशं चिन्तयति सिद्धार्थे तद् गाढतया स्थितं वृद्धिं च
१०८