________________
गतमिदानीं तेनाऽवबुद्धं, इदमपि च यन्न कोऽपि गुरुस्तं निर्वाणं प्रापयितुं मुक्तं वा कर्तुं समर्थः इति कथयन्तः स्थितो ध्वनिः सर्वथाऽवितथोऽस्तीति ।
एतदर्थमेव – तस्य हृदये हठात् प्रविष्टो याजकः श्रमणश्च म्रियेत – इत्येतदर्थमेव तस्य संसारे गमनं, तत्राऽपि चैश्वर्ये स्त्रियां धने च स्वविलोपनं, वाणिज्यकरणं, द्यूतखेलनं, मद्यपानं, परिग्रहकरणं च समभवत् । तथैतदर्थमेव हि च तेनैतावन्ति दुःखजनकानि वर्षाणि यापितानि, निर्वेदः सोढः, शून्यस्य भङ्गुरस्य च जीवनस्य मौर्य्यपूर्णतायाः पाठोऽवसानं यावत्, कटुकनैराश्यावाप्तिं यावच्च तेन शिक्षितो येन सुखगवेषकः परिग्रही च सिद्धार्थो नाशं प्राप्नुयात्, मृतो भवेत् ।
ऽन्य
इदानीं स मृत आसीत् तत्स्थाने च गाढनिद्रातो जागृतोऽन एव सिद्धार्थं उद्भूत आसीत् । सोऽपि वृद्धो भूत्वा मरिष्यति । यतः सिद्धार्थो नश्वर आसीत्, सर्वाण्यपि स्वरूपाणि नश्वराणि आसन् । एवं सत्यपि अद्य स तारुण्येऽथवा बाल्ये वर्तमानो नूतन: सिद्धार्थ आसीत्, सर्वथा च सन्तुष्टः ।
एतादृशा विचारास्तस्य मस्तिष्के व्याप्ता आसन् । ततः स्मयमान स स्वोदरध्वनिं श्रुतवान्, सकार्तज्ञ्यं च मधुमक्षिकाणां गुञ्जनं श्रुतवान् । तत: ससन्तोषं स प्रवहन्तीं नदीं विलोकितवान् । न कयाऽपि नद्या स तथाऽऽकृष्टोऽभवत् यथाऽनया । तथा न कदाऽपि प्रवहतो नीरस्य कलकलनादः स्वरूपं च तस्यैतादृशं मनोज्ञमभासत । नदी हि तस्य विशिष्टं किञ्चित् कथयन्तीव प्रतिभाता, तादृशं किञ्चित् यत् स नैव जानाति, यच्च तमद्याऽपि प्रतीक्षते । सिद्धार्थो हि नद्यामस्यां निमज्ज्य मर्तुमैच्छत् । अथ च स वृद्धः श्रान्तो हताशश्च सिद्धार्थोऽद्याऽस्यां नद्यां पतित्वा निमग्न आसीत् । नूतनः सिद्धार्थस्तु प्रवहमानमेनं नीरं प्रति
१०९