________________
दृष्टिनद्याः प्रवाहे पतिता, तेन विलोकितं च यन्नद्यपि सोल्लासं गायन्ती सातत्येन निम्नमेव प्रवहमानाऽऽसीत् । दृश्यमेतत् तमतिमात्रेणाऽतोषयत् । स सानन्दं नदी प्रति स्मितवान् । किमेषैव न सा नद्यासीत् यस्यां स एकदा निमज्जितुमिष्टवान् - वर्षशतेभ्यः पूर्वम् ? - अथवा तत् तेन स्वप्ने दृष्टमासीत् खलु ?
‘कीदृशं विचित्रं जीवनं मम जातं खलु ?' - सोऽचिन्तयत् । 'अहं ह्यज्ञातेषु पथिषु सञ्चरितवान् किल ! ! बाल्येऽहं देवताकार्येषु यागादिषु च निरत आसम् । तारुण्ये वैराग्यं धारयन्नहं चिन्तने ध्याने च निष्ठोऽभवम् । ततोऽहं ब्रह्मणोऽन्वेषणे उद्युक्तवान्, शाश्वतं च स्वात्मानमेवोपासितवान् । यौवने ह्यात्मविशुद्ध्यर्थं प्रयतितवानहम् । अरण्ये निवसन्नहं शीततापौ विसोढवान्, उपोषणमभ्यस्तवान्, स्वीयं देहं च जेतुं शिक्षितवान् । ततो महात्मनो बुद्धस्योपदेशमपि महता विस्मयेनाऽऽत्मसात् कृतवानहम् । विश्वैक्यं विश्वज्ञानं च मयि रक्तमिव प्रवहमानमनुभूयते स्म. । किन्तु तथाऽपि मयि बुद्धं तस्य भव्यं ज्ञानं च त्यक्तुमदम्या स्पृहा समुत्पन्ना । अहं ततो निर्गतवान् कमलायाः सकाशाच्च कामसुखं कथं प्राप्तव्यमिति शिक्षितवान्, वाणिज्यं च कामस्वामिनः सकाशात् । अहं धनस्य सङ्ग्रहमपि कृतवान् अपव्ययं चाऽपि । अहं श्रेष्ठं भोजनमास्वादितुं शिक्षितवान्, इन्द्रियाणि च विषयास्वादैरुत्तेजितवान् । एतत् सर्वं वर्षाणि यावत् कृतवानहं मम प्रज्ञां नाशितवान्, विश्वैक्यं विस्मृतवान्, चिन्तनशक्तिं चोच्छेदितवान् । किमेतन्न सत्यं यदहं शनैः शनैर्बहूंश्च भ्रंशाननुभूय प्रौढपुरुषात् पुनरपि बालकतया परावर्तितः खलु ? चिन्तकात् प्राकृतो जनोऽभवम् । तथा, एवं स्थितेऽपि चिन्तयामि यदयं मार्गः प्रशस्त एव, मम हृदये स्थितः पक्षी खल्वद्याऽपि न मृतः।
१०५