________________
तत्परे च तारुण्ये स एतान्येव त्रीणि नैपुण्यानि समभ्यस्तवानासीत् । किन्त्वधुना स तानि सर्वाण्यपि विनाशितवानासीत् । त्रयाणामेकतमदपि तस्य स्वाम्ये नाऽऽसीत् - नोपोषणं, न धैर्य, नाऽपि च विचारणम् । सोऽन्येषां क्षणिकानां तुच्छानां चेन्द्रियसुखवैभवशालिजीवन-धनार्जनादिवस्तूनां कृते त्रयाणामप्येतेषां विनिमयं कृतवानासीत् । कस्मिंश्चिदसङ्गतेन मार्गेण स प्रस्थितवान्, साम्प्रतं च, प्रतिभाति यत् स खलु कश्चन प्राकृतजनः संवृत्तोऽस्ति ।
स स्वीयां परिस्थिति विमर्शितुमिष्टवान् । किन्तु विचारणं तस्याऽत्यन्तं कठिनं प्रतिभाति स्म । तस्य मनो विचारणे नैव युज्यते स्म, तथाऽपि स बलात् स्वं विचारणे प्रेरितवान् ।
स चिन्तितवान् – अद्यैतानि सर्वाण्यपि क्षणिकानि वस्तूनि मे हस्तच्युतान्यभवन् । यथा बाल्यकाले तथाऽद्याऽप्यहमेकल एव सूर्यस्य विशालस्य च नभसोऽधस्तात् स्थितोऽस्मि । किञ्चिदपि मदीयं नास्ति, अहं किञ्चिदपि नैव जानामि, कुत्राऽपि मम स्वाम्यं नास्ति, किञ्चिदपि च खलु नैव शिक्षितं मया । ननु कियद् विचित्रमेतत् – इदानीं, यदाऽहं वार्धक्यपथे सञ्चरितोऽस्मि, मम केशाः शीघ्रं पलिता जायमानाः सन्ति, सामर्थ्यं च क्षीयमाणमस्ति, तदा पुनरप्यहं बालकवदारम्भं कुर्वन्नस्मि ।
स पुनरपि स्मितं कृतवान् । आम, तस्य नियतिर्हि विचित्राऽऽसीत् । स प्रतीपं गच्छन्नासीत् । स पुनरपि रिक्त इव, विवसन इव, बोधरहित इव जगति स्थित आसीत् । किन्त्वेतदर्थं तस्य शोको नाऽऽसीत्, प्रत्युत तन्मनस्युच्चैर्हसितुमिच्छा जाता स्वं प्रत्येव हसितुं तथा मूर्खस्यैतज्जगतः प्रति हसितुमिच्छा जाता।
'भोः ! सर्वाण्यपि वस्तूनि तव कृते निम्नमेव गच्छन्ति सन्ति' - स स्वगतमेवोक्तवान् हसितवांश्च । उक्तमात्र एव तस्य
१०४