________________
जानामि । आभासानां चक्रं त्वरितं भ्राम्यति, गोविन्द ! | अद्य ब्राह्मणः सिद्धार्थः कुत्राऽस्ति, श्रमणः सिद्धार्थः कुत्राऽस्ति, ऐश्वर्यवान् सिद्धार्थश्च कुत्राऽस्ति ? क्षणिका भावाः सततं सत्वरं च परावर्तमाना भवन्ति । एतत्तु गोविन्द ! भवान् जानात्येव खलु !' ।
एतन्निशम्य गोविन्दश्चिराय साशङ्कं स्वयौवनकालीनं मित्रं निरीक्षितवान् । तत उच्चपदस्थितं यथा कश्चन नमति तथा स सिद्धार्थं प्रणम्य स्वपथे प्रवृत्तोऽभवत् ।
सस्मितं सिद्धार्थस्तं गच्छन्तं निरीक्षितवान् । सोऽद्याऽपि तं, विश्रब्धमुत्सुकं च स्वमित्रं प्रीणाति स्म । तथाऽस्मिन् प्रशस्ये क्षणे, तादृशाद्भुतनिद्रानन्तरं सर्वथौङ्कारेणाऽऽप्लावितः स सर्वं सर्वांश्चाऽप्रीणन् कथं स्थातुं शक्नुयात् ? एष चमत्कारश्च तस्या अद्भुतनिद्राया मध्ये, ओङ्कारस्य च प्रभावेण सञ्जातो यत्कारणात् स सर्वमपि प्रीणाति स्म । यदपि तस्य दृष्टिपथे समायाति तत् सर्वं प्रति तस्य स्नेहोऽकारणमेवोल्लसतीति सोऽनुभवति स्म । तेनैतदपि लक्षितं यत् पूर्वं स कञ्चिदपि किञ्चिदपि च नैव प्रीणाति स्मेत्येतदर्थमेव सोऽस्वस्थो भवति स्मेति ।
सस्मितं सिद्धार्थो गच्छन्तं भिक्षं विलोकितवान् । यद्यपि गाढनिद्रावशात् स प्रफुल्लितो जात आसीत् तथाऽपि द्विनद्वयाद् बुभुक्षित्वात् महती क्षुत् तं बाधते स्म, क्षुन्निरोधस्य तस्य सामर्थ्यं तु भूतकालविषयीभूतमासीत् । यद्यपि तस्यैतद् विचार्य दुःखमभवत् तथाऽपि सहासं स तं दिनं स्मृतवान् यदा स कमलायाः पुरतः स्वात्मश्लाघां कुर्वन् स्वस्य त्रीणि सामर्थ्यानि विकत्थितवानासीत्
त्रीण्यपि तानि विशिष्टानि दुरासदानि च नैपुण्यान्यासन् उपवासः, प्रतीक्षा, विचारश्च । एतानि त्रीण्यपि तस्य वित्तमासीत्, तस्य बलं सत्त्वं दृढश्चाऽऽधारोऽपि । स्वीये परिश्रमपूर्णे व्यवसाय
I
१०३