________________
अस्यां परिस्थितौ उच्छ्वसनं, निःश्वसनं, क्षुदनुभवनं, तच्छमनं, शयनं, स्त्रीसेवनं - किमेतद् दुश्चक्रं पुनः पुनरावर्त्तयितुं शक्यमासीत् ? एतत् सर्वमपि तत्कृते क्षीणं समाप्तं वाऽऽसीत् ।
सर्वथा हताशः सिद्धार्थो गहनेऽरण्ये भ्राम्यन् तस्या एव दीर्घाया नद्यास्तीरं प्राप्तो यस्यामेकदा यौवने गौतमबुद्धसकाशान्निर्गतः स नाविकेनैकेनोत्तारित आसीत् । स तत्राऽऽगत्य साशङ्क इव स्थितः । अवसादेन क्षुधा च स सर्वथा क्लान्त आसीत् । इतोऽप्यग्रे तेन किमर्थं गन्तव्यं ? कुत्र वा ? केन वा प्रयोजनेन ? नैव, तस्य दुःखदस्य स्वप्नस्य निर्धूननादन्यत्, तस्याः पर्युषिताया मदिराया वमनादन्यत्, कटुकस्य व्यथापूर्णस्य जीवनस्योत्सर्जनाच्चाऽन्यत् तस्य मनसि न किमपि प्रयोजनं महेच्छा वाऽऽसीत् ।
नद्यास्तटे एको नालिकेरवृक्ष आसीत् । तस्य स्कन्धं हस्तेनाऽवलम्ब्य स तत्रैवोपविष्टः । तस्य दृष्टिः पुरतः प्रवहमाने हरितवर्णे नदीनीरे आसीत् । अनिमेषनयनाभ्यां तद् विलोकमानस्य तस्य मनः पूर्णतया केवलमेकेनैवाऽभिलाषेण पूरितमासीत् - नद्यां कूदित्वा जले निमज्जनेन स्वात्मनो विलयस्य ! । स्वात्मनि अनुभूयमाना दारुणा शून्यता किलेदानीं नदीजलस्य शीतलशून्यतायां प्रतिबिम्बते स्म तस्य । आम् ! अधुना स पर्यवसाने आगत्य स्थित आसीत् । तस्य कृते इदानीं स्वात्मन एवोन्मूलनम्, अकृतार्थसंरचनस्य स्वजीवनस्य विनाशनं, प्रक्षेपणं च विनाऽन्यत् किमपि नाऽवशिष्टमासीत् । तेनाऽनुभूतं यद् देवा अपि तमुपहसन्ति स्माऽधुनेति । अतः स्वात्मनो विनाश एव तस्य गतिरस्तीति चिन्तयति स्म सः । कामं मत्स्या मकरा अन्ये जलचराश्च तस्य शरीरं भक्षयन्तु नाम, सिद्धार्थनामकस्य शुनः शरीरं, एतस्योन्मत्तस्य, भ्रष्टस्य दुष्टस्य च शरीरं, एतस्य प्रमादिनोऽपव्ययिनश्चा
९६