________________
ऽऽत्मनः शरीरम् ! कामं च राक्षसा तच्छरीरं खण्डखण्डीकुर्वन्तु नाम !
ततो विकृतेन मुखभावेन स जले दृष्टिं प्रासारयत् । तत्र च स्वमुखं प्रतिबिम्बितं विलोक्य स थूत्कृतवान् । ततो हस्तेन गृहीतं वृक्षावलम्बनं त्यक्त्वा स किञ्चित् परावृत्तः, येन कूदित्वा जले आपादमस्तकं पतेत्, नदीतलं च प्राप्नुयात् । ततः कूदितुं स किञ्चिदवनतः, अक्षिणी निमीलितवान् - मरणमभिमुखमासीत् !!
अथ तावता, तस्याऽन्तःकरणस्य गहनतमप्रदेशात्, तस्य श्रान्तजीवनस्याऽतीतं भित्त्वा, स कञ्चन ध्वनि श्रुतवान् । केवलमेक एव शब्द आसीत्, अथवा केवलमेकमेवाऽक्षरमासीत्, यच्च स किमप्यविचिन्त्याऽस्पष्टतयोच्चारितवान् । तदासीत् सर्वेषामपि प्राचीनानां वेदमन्त्राणामादिरन्तश्च - ओम् - इति, यस्याऽर्थ आसीत् पूर्णः, पूर्णत्वं वा । यस्मिन् क्षणे ओम्-इति ध्वनिस्तस्य कर्णगोचरीभूतस्तस्मिन्नेव क्षणे तस्य प्रसुप्त आत्मा जागरित इवाऽभवत्, स च सहसा स्वचेष्टिते निहितं मौख्यं ज्ञातवान् ।
एतेन सोऽत्यन्तं सन्त्रस्तोऽभवत् । अहो ! एतदर्थं सोऽत्राऽऽगत आसीत् ! स तथा मूढो जात आसीत्, तावान् व्याकुलोऽभवत्, तावांश्च शून्यचित्तो जातो यथा मृत्युमेवाऽभिकाङ्क्षन् स इहाऽऽगत आसीत् खलु ! बालिशतापूर्णैषाऽऽकाङ्क्षा तस्य चित्ते तथा प्रबलाऽभवत् यथा स शरीरं नाशयित्वा शान्ति प्राप्तुमिष्टवान् । किन्तु यदा 'ओम्'कारस्तस्य चैतन्यं व्याप्नोत्, स स्वीयं क्षुद्रत्वं दोषं च ज्ञातवान् तदा तन्मनसि प्रकटितः सर्वोऽपि सन्तापः, सर्वोऽपि मोहः, सर्वाऽपि च निराशा निष्प्रभावा अभवन् ।
पुनरपि तेन हृदय एव ओङ्कारस्य नादः कृतः फलतः