________________
परमब्रह्मणः शाश्वतचैतन्यस्य च भानं तस्याऽभवत् । यत् सर्वमपि दिव्यं स विस्मृतवानासीत् तत् सर्वमपि चेदानीं तस्य स्मृतिपथे पुनरवतीर्णम् ।
किन्त्वेतदपि भानं क्षणिकमेवाऽऽसीत् । यतोऽतीव परिश्रान्तः सिद्धार्थो नालिकेरवृक्षमवलम्ब्य तत्रैवोपविष्टः । तत ओङ्कारमेव जपन् स वृक्षमूले शीर्ष स्थापयित्वा गाढनिद्रया प्रसुप्तवान् ।
तस्य निद्रा गहना स्वप्नरहिता चाऽऽसीत् । दीर्घकालादेव स एवं नैव सुप्तवान् कदाचित् । यदा स जागृतस्तदा बहूनि वर्षाणि व्यतीतानीव प्रतिभातं तस्य । प्रवहतो जलस्य मृदुनिनादं स श्रुतवान्, किन्तु स न स्मृतवान् यत् कुत्र स इदानीमासीत्, नाऽपि, कथं सोऽत्राऽऽगतः - इति । स यदा उपरि दृष्टवान् तदा वृक्षान् नीलवर्णं चाऽऽकाशं दृष्ट्वा विस्मितोऽभवत् । ततश्च तेन स्मृतं यत् कुत्र सोऽस्ति कथं चाऽत्राऽऽगतः इति । अस्मिंश्च स्मरणे तस्य भूयान् समयो व्यतीतः ।।
तस्याऽतीतं जीवनमिदानीमत्यन्तं दूरवर्तीव घनावरणाच्छादितमिव सर्वथा महत्त्वशून्यमिव चाऽभासत। एतावदेव तस्य ज्ञातं यत् तत् पूर्वतनं जीवनं (यस्मिन् क्षणे स जागृतोऽभवत् तस्मिन् क्षणे तस्य पूर्वतनं जीवनं वर्तमानस्वत्वस्य बहुदूरवर्ति जन्म इवाऽभासत) समाप्तमिदानीं, यत् केवलं निर्वेदपूर्ण निकृष्टतमं चाऽऽसीत्, यच्च स विनाशयितुमेवेष्टवान्, किन्तु तदर्थमिह नद्यास्तीरे नालिकेरवृक्षस्याऽधस्तात् समागतः सोऽकस्मात् पवित्रं मन्त्राक्षरम् 'ओम्' इति उच्चारयन्नेव सर्वमपि विस्मृत्य गाढनिद्रायां सुप्तवान् । जागृतश्च सन् पुनर्जन्म प्राप्त इव जगदिदं नवागन्तुक इव वीक्षितवान् । पुनरपि स मृदुतया ओम् - इत्युच्चारितवान् । तस्य
९८