________________
प्रतिभातं यत् समग्रेऽपि निद्राकाले ओम्-जपस्तन्मनसि वरीवर्तित एव, ओङ्कारस्यैव विचारः, नाम-रूपरहिते दिव्ये ओङ्कार एव निमज्जनं व्यापनं चाऽपि ।
कीदृशमद्भुतं स्वपनं तद् आसीत् । कदाऽपीदृशी निद्रा तेन नाऽनुभूता यया एतावानाह्लाद एतावन्नवजीवनं एतावच्चाऽऽप्यायनं प्राप्तं स्यात् । किं स वस्तुतो नद्यां निमज्ज्य मृत्यु प्राप्तः, पुनश्च नवावतारेणाऽत्रोपस्थित आसीद् वा ? नैव, स स्वं प्रत्यभिज्ञातवान्, स स्वीयं हस्त-पादं प्रत्यभिज्ञातवान्, स तत्स्थलमपि प्रत्यभिज्ञातवान् यत्र स शयित आसीत् तथा स स्वहृदयस्थं सिद्धार्थं - स्वैरिणं विलक्षणं सिद्धार्थं चाऽपि प्रत्यभिज्ञातवान् । किन्त्वयं - प्रस्तुतः सिद्धार्थस्तु किञ्चिदिव परावृत्तः पुननवीभूतश्चाऽऽसीत् । नूनं सोऽद्भुततया शयितवान्, ततश्च विशेषतो जागृतः प्रसन्नो विस्मयमुग्धश्चाऽऽसीत् ।
यदा सिद्धार्थ उत्थितस्तदैव तस्य दृष्टिः पुरत उपविष्टे काषायवस्त्रधारिणि मुण्डितशिरसि साधौ पतिता, यः किल विचारमग्न आसीत् । केश-श्मवादिरहितं तं वीक्ष्याऽचिरमेव स प्रत्यभिज्ञातवान् यदयं मे बाल्यकालीनः सुहृद् गोविन्दोऽस्ति यो हि महात्मनो बुद्धस्य सङ्के भिक्षुत्वं स्वीकृतवानासीत् । यद्यपि सोऽपि वयस्को जात एव तथाऽपि तस्य वदने पुरा विलसन्ति लक्षणानि साम्प्रतमपि विलोक्यन्ते स्मैव, यथा - औत्सुक्यं, निष्ठा, जिज्ञासा, व्यग्रता च ।
किन्तु यदा गोविन्दस्तस्य दृष्टिपातमनुभूय स्वनेत्रे उन्मीलितवान् तं च दृष्टवान् तदा सिद्धार्थेनाऽवगतं यद् गोविन्दस्तं नैव प्रत्यभिज्ञातवान् - इति । गोविन्दस्तु तं जागृतं दृष्ट्वा प्रसन्नोऽभवत् । यद्यपि स तं नैवाऽभिज्ञातवान् तथाऽपि एतत्तु स्पष्टमासीत् यत् स तस्य जागरणमेव प्रतीक्षमाणश्चिरादुपविष्ट