________________
आसीत् ।
'अहं निद्रायमाण आसम् । किन्तु भवानत्र कथमागतः ?' - सिद्धार्थोऽप्राक्षीत् ।
गोविन्द उत्तरितवान् – 'भवान् निद्रालीन आसीत् । किन्त्वरण्येऽस्मिन् श्वापदसर्पाद्याकुले एवं निद्रातुं नैवोचितम् । अहं हि महात्मनः शाक्यमुने!तमबुद्धस्य शिष्याणामन्यतमोऽस्मि सङ्घन च सह यात्रार्थं प्रस्थितोऽस्मि । यदाऽहं भवन्तं भयाकुलेऽत्र स्थले शयानं वीक्षितवान् तदा भवन्तं जागरयितुमिष्टवान् । किन्तु भवान् गाढनिद्रामग्न आसीत्, अतोऽहं सहयात्रिणो विहायाऽत्रैवाऽवस्थितो भवत्पार्वे च रक्षार्थमुपविष्टः । किन्तु योऽहं भवद्रक्षार्थमत्र स्थित आसम्, सोऽहमेव निद्रावशगोऽभवम् । ततश्च भवत्यवधानं दातुं न शक्तोऽभवम् । तथाऽपि, अधुना तु भवान् जागृतोऽस्ति, अतो मया गन्तव्यं मम सहयात्रिणश्चाऽऽसादनीयाः'।
'श्रमण ! मम निद्राकाले मां रक्षितुं यद् भवानुपविष्टस्तदर्थमहं भवत उपकारं मन्ये । महात्मनो बुद्धस्याऽनुयायिनो हि स इव करुणापूर्णहृदया एव भवन्ति । किन्त्वधुना भवान् स्वयात्रामनुवर्तितुमर्हति' – सिद्धार्थो मृदुतयोक्तवान् ।
'अहं गच्छामि किल । भवान् स्वं निभालयतु' । 'उपकतोऽस्मि भोः श्रमण !' । किञ्चिदवनम्य गोविन्दोऽवदत् - 'पुनर्मिलनाय' - इति ।
तदा सिद्धार्थोऽपि – 'पुनर्मिलनाय गोविन्द !' - इत्यवदत् ।
एतच्छ्रुत्वा गोविन्दः स्तब्धोऽभवत् । 'क्षम्यतां भोः !, किन्तु भवान् मम नाम कथं जानाति ?' 'सिद्धार्थो हसित्वा कथितवान् – 'भोः गोविन्द ! अहं
१००