________________
भवन्तं भवतः पितृगृहात्, ब्राह्मणविद्यालयात्, यज्ञेभ्यः, श्रमणानामन्तिके दीक्षाग्रहणकालात् तथा जेतवनविहारे महात्मबुद्धपार्वे भवतो भिक्षुकत्वाङ्गीकारकालाज्जानामि' ।
'अहो ! भवान् सिद्धार्थोऽस्ति खलु !' – गोविन्द उच्चैराराटीत् । 'इदानीमहं भवन्तं प्रत्यभिज्ञातवान् । एतत्तु नाऽवगच्छामि यत् किमर्थं मया भवान् झटित्येव नाऽभिज्ञातः । नमस्ते सिद्धार्थ ! पुनरपि भवन्तं दृष्ट्वा भृशं प्रमुदितोऽस्म्यहं किल' ।
____ 'अहमपि भवन्तं बहोः कालाद् दृष्ट्वा नितरां हृष्टोऽस्मि । अपि च, भवताऽहं निद्रायमाणो निरीक्षितोऽस्मि । एतदर्थं पुनरपि कृतज्ञोऽस्मि । यद्यपि मे रक्षणस्याऽऽवश्यकता नाऽऽसीत् । भवतु । परं मित्र ! भवान् कुत्र प्रस्थितोऽस्ति ?' ।
'अहो ! अहं कुत्राऽपि न प्रस्थितः । वयं साधवः सर्वदा यात्रारता एव वर्तामहे । केवलं प्रावृषि एकत्र तिष्ठामः । अन्यत्र काले तु स्थानात् स्थानं परिभ्रमणं कुर्मः, सङ्घशासनानुसारं जीवामः, जनानुपदिशामः, भिक्षया वृत्तिं कुर्मः पुनरपि च यात्रामनुवर्तामहे । एवं च सर्वदा वरीवति । किन्तु सिद्धार्थ ! भवान् कुत्र प्रस्थितोऽस्ति ?' ।
सिद्धार्थोऽचकथत् – 'ममाऽपि वृत्तं भवता तुल्यमेव मित्र ! । अहमपि न कुत्राऽपि प्रस्थितः । अहमपि यात्रारतः सन् परिभ्रमणे उद्यतोऽस्मि' ।।
गोविन्देनोक्तम् – “एवं वा? भवतु, यदि भवान् कथयति यदहं यात्रारतोऽस्मीति - तदहं विश्वसिमि। किन्तु क्षम्यतां सिद्धार्थ ! भवान् यात्रिको न दृश्यते । यतो भवता धनिकवन्महार्घाणि वस्त्राणि परिहितानि, भवत उपानही श्रेष्ठौ स्तः,
१०१