________________
४. नद्यास्तीरे
नगराद् दूरं गतः सिद्धार्थोऽटव्यामितस्ततो परिभ्रान्तवान् । स्वमनसि तेन निर्णीतमासीत् – इतः परं तस्य तत्र निवर्तनं न भविष्यतीति । यज्जीवनं तेन वर्षाणि यावद् नगरे यापितं यदास्वादश्च केवलं निर्वेद एव विपरिणत आसीत् तदधुनाऽतीते परावृत्तमासीत् - बाष्पीभूतमासीत् । गायकः पक्षी मृत आसीत् । यस्य पक्षिणो मरणं तेन स्वप्ने दृष्टमासीत् स तु तद्धृदय एव वसति स्म ।
संसारस्य कर्दमे स आकण्ठं निमग्नो जात आसीत् । सर्वतो जलशोषकस्य चूषक(sponge)स्येव तेन सर्वतो निर्वेदः खेदो मरणं चैव समाकृष्टान्यासन् । इदानीं स सर्वतोऽवसादेन, सर्वतो दुःखेन सर्वतश्च मृत्युनाऽऽक्रान्त आसीत् । जगति तादृशं किञ्चिदपि नाऽऽसीद् यत् किल तमाकृषेत्, सुखिनं कुर्यात्, आश्वासनं वा दद्यात् तस्मै ।
इदानीं स उत्कटतया विस्मृतिं वाञ्छति स्म, चिरविश्रान्तिमिच्छति स्म, मरणं चाऽभिलषति स्म। यदि कथञ्चित् तन्मस्तकोपरि विद्युदापतेत्, व्याघ्रो वा कुतश्चिदागत्य तं भक्षयेत्, अथवा किञ्चन मद्यं किञ्चिद् वा विषं स्यात् यत् तस्मै विस्मरणं दद्यात्, सर्वथा स्मृतिभ्रंशं कुर्यात् चिरनिद्रायां वा धारयेत् यतो न कदापि जागरणं स्यात् तादृशं किञ्चित् स इच्छति स्म ।
किं तादृशं किञ्चिद् दूषणमासीत् खलु येन स नाऽनुलिप्तो जातः ?, तादृशं पापं मूर्खत्वं वाऽऽसीत् यत् तेन नाऽऽचरितं स्यात्, तदात्मनि तादृशः कश्चन कलङ्क आसीत् यत्कृते स स्वयमेवोत्तरदायी न स्यात् ? । एवं स्थितेऽपि किं जीवितं धारयितुं शक्यमासीत् ? किं पुनः पुनः श्वसनमपि शक्यमासीत् खलु ?
९५