________________
ऐसवीये १८७७ तमे संवति जर्मनीदेशे लब्धजन्मनोऽस्य विदुषः पिता जर्मनीय एव धर्मगुरुरासीत् माता च फ्रान्सदेशीयाऽऽसीद् । मातामहश्च धर्मगुरुरेवाऽऽसीत् भारतीयतत्त्वविद्योपासकश्चाऽपि, यतस्तेन भारतदेशे एव खैस्तधर्मगुरुतया वर्षाणि यावत् कार्यं कृतमासीत् । स प्राकृत - पाली - संस्कृत-मलयालमबङ्गादिकास्त्रिंशदधिका भाषा जानाति स्म पौर्वात्यदर्शनानां च विशदमवगाहनं कृतवानासीत् । अथ च, हरमानहेसस्य पित्रा मात्रा चाऽपि भारतदेशे धर्मप्रचारकत्वेन कार्यं कृतमासीत् । एतैः सर्वैः कारणैस्तस्य गृहे पाश्चात्यदर्शनानां खैस्तधर्मशास्त्राणां च यथा, तथैव पौर्वात्यदर्शनानां भारतीयधर्मशास्त्राणां चाऽपि परिशीलनं वरीवर्ति स्म । ततश्चाऽऽबाल्यादेव हरमान - - हेस: सर्वैरपि दर्शनैस्तत्त्वज्ञानेन च परिचितो जातः फलतश्च शान्तिप्रियो जातः, आध्यात्मिकता चाऽपि तस्योत्कटा जाता । १८९९तमाद् वर्षात् तस्य साहित्यसर्जनप्रवृत्तिः प्रारब्धा । १९१२तमे वर्षे स जर्मनीदेशं त्यक्त्वा स्विट्झर्लेन्डदेशं गतवान् मरणपर्यन्तं च तत्रैवोषितः । १९४६तमे वर्षे तस्य साहित्यविषयको नोबेलपुरस्कारः प्राप्तः । १९६२ तमे वर्षे च स मरणं प्राप्तवान् ।
तस्य साहित्यं विश्वविश्रुतं जातं, विश्वस्य बह्वीषु भाषासु तदनूदितमपि जातम् । तस्य कृते वैश्विक अध्यात्मविदो गौरवं धारयन्ति प्रशंसन्ति च । तस्य गौरवं कुर्वतैकेनाऽध्यात्मविदैवमपि कथितमस्ति यत् –
"अव्ययोऽपि सततं विनाशशीलोऽयं संसारोऽस्ति । तस्य च ग्रन्थिर्येन विमोचिता स यथार्थो वेदविद् अस्ति । सिद्धार्थस्य लेखको हरमान-हेस: अप्येतादृशो वेदविद् आसीत्" । (अश्विन महेता "छबि भीतरनी" इति पुस्तके) ।