________________
अथाऽन्यदा गोविन्दः स्वमित्रमुक्तवान् – “अद्यैकस्मिन् ग्रामे एकेन ब्राह्मणपुत्रेणाऽहं भिक्षार्थमामन्त्रितः । यदाऽहं तद्गृहं प्राप्तस्तदा तत्रैकोऽन्यो ब्राह्मणपुत्रो मगधेभ्य आगत आसीत् । स स्वनेत्राभ्यां प्रत्यक्षमेव बुद्धं दृष्ट्वा, तद्वाणी च साक्षाच्छ्रुत्वैवाऽऽगतः । तत्सकाशाद् बुद्धवर्णनं श्रुत्वा नूनमेवाऽहमुत्सुको जातोऽस्मि यत्, कदाऽऽवामुभावपि तस्य पूर्णपुरुषस्य मुखादुपदेशं श्रोष्यावः ? वयस्य ! किमावामपि इतस्तस्योपदेशं श्रोतुं गच्छेव वा ?"
सिद्धार्थोऽकथयत् - "मया तु चिन्तितमासीद् यद् गोविन्दस्तु श्रमणैः सहैव वत्स्यति, षष्टिं सप्ततिं वा वर्षाणि यावत् इहैव स्थित्वा श्रमणैः शिक्षिता विद्या अभ्यसनीया - इत्येव तस्य ध्येयमिति मे मतिरासीत् । किन्तु भवद्विषयेऽहमत्यल्पं जानामि गोविन्द ! । भवतो मनसि ईदृशो विचारोऽपि जागर्ति तन्नैव ज्ञातवानहम् । किं भवानपि ममेवेदानीं नूतने पथि सञ्चरितुं, बुद्धस्योपदेशं च श्रोतुमिच्छति वा !"
___ गोविन्देन कथितं - "मित्र ! भवान् ममोपहासं कृत्वाऽऽनन्दं प्राप्तुमर्हति । भवतु नाम । किन्तु सिद्धार्थ ! किं भवानपि तस्य पूर्णपुरुषस्योपदेशं श्रोतुमुत्सुकोऽस्ति न वा ? तथा भवतैवैकदा मे कथितमासीद् यद् - अहमचिरेणैव श्रामण्यं त्यक्ष्ये इति - तद् भवान् स्मरति न वा ?"
तन्निशम्य सिद्धार्थो हसितः । तद्धासध्वनौ शोकमिश्रितोपहासो द्योतते स्म । तेनोक्तं - "भवता सुष्ठुक्तं गोविन्द !, भवतः स्मृतिरपि प्रशंसाहा॑ । किन्तु तदा मया किञ्चिदन्यदपि कथितमासीत्, तदपि स्मर्तव्यं भवता, यन्ममोपदेशेषु पाण्डित्ये शिक्षणे च श्रद्धा नाऽस्ति, उपदेशकानां वचनानि नहिवदेव रोचन्ते मे । किन्तु, भवतु नाम, यद्यपि तस्योपदेशस्योत्तमानि फलानि तु निश्चित
२४