________________
मावाभ्यामास्वादितान्येव ! तथाऽप्यहं तं नूतनोपदेशं श्रोतुं सिद्धोऽस्मि ।
गोविन्दोऽवदत्- "भवन्तमत्राऽर्थे सम्मतं दृष्ट्वाऽतीव प्रमुदितोऽस्मि । किन्तु, गौतमस्योपदेशमश्रुत्वैवाऽऽवाभ्यां तस्य श्रेष्ठफलान्यास्वादितानीति भवान् कथं वदति ? कृपया बोधयतु माम्'' ।
सिद्धार्थ उक्तवान् – “एतस्य फलस्योपभोगं कुर्यावाग्रेनानि च फलानि प्रतीक्षेवहि । एतत्फलत्वं नाम श्रमणमार्गात् नौ प्रतिनिवर्तनं, तदर्थं त्वाऽऽवां गौतमस्य ऋणिनौ स्वः । अग्रे च यदीतोऽपि श्रेष्ठानि फलानि स्युस्तदा तानि शान्त्या प्रतीक्षेवहि" ।
अथ च तस्मिन्नेव दिने सिद्धार्थो ज्येष्ठाय श्रमणाय सङ्घत्यागार्थं निवेदितवान् । स यद्यपि शिष्यजनोचितेन विनयेन नम्रतया च स्वनिवेदनं कृतवान्, किन्तु तयोर्द्वयोः श्रामण्यत्यागनिर्णयं श्रुत्वा स श्रमणज्येष्ठोऽत्यन्तं क्रुद्धो जात उच्चैश्च तौ निर्भत्सितवान् ।
एतेन यद्यपि गोविन्दः स्तब्ध: किकर्तव्यविमूढश्च जात:, तथाऽपि सिद्धार्थस्तु स्वस्थतयैव गोविन्द - कर्णयोर्मन्दतयोपजपितवान् – “अधुनाऽहमस्य वृद्धजनस्य दर्शयामि यन्मयाऽपि तत्पार्श्वात् किञ्चित् शिक्षितमस्ति" इति ।
ततः स तस्य श्रमणज्येष्ठस्य समीपं गत्वैकाग्र्येण स्थितः । स स्थिरतया तस्य वृद्धस्य नयनयो: पश्यन् त्राटकं कृतवान्, संमोहनं कृत्वा च तं स्ववशं कृतवान्, नि:शब्दं कृतवान्, तत्सङ्कल्पशक्तिं स्वायत्तीकृतवान् । स्वेच्छानुसारं च वर्तितुं तमादिष्टवान् । वृद्धः श्रमणो मूको जातः, तद्दृष्टिर्जडीभूता, मनोबलं विकलं जातं, शरीरं च शक्तिहीनं जातम् । सिद्धार्थस्य संमोहनशक्तेः पुरतः स सर्वथा सामर्थ्यरहितोऽभवत् । सिद्धार्थस्य विचाराः श्रमणस्य विचारान् पराभूतवन्तः । सिद्धार्थेच्छानुसारमेव
२५