________________
तेन वर्तितव्यमभवत् । ततश्च स बहुशस्तावनमत्, ताभ्यामाशिषः प्रायच्छत्, प्रवासार्थं गद्गदतया शुभेच्छाः कृतवान् । तौ द्वावपि च तदर्थं तस्मै कार्तश्यमुपदर्शितवन्तौ, तं नत्वा च ततः प्रस्थितौ ।
मार्गे गोविन्द उक्तवान् – “सिद्धार्थ ! भवता श्रमणानां पार्वादियदधिकं शिक्षितमस्ति तन्मया नैव ज्ञातमासीत् । ईदृशस्य श्रमणज्येष्ठस्य संमोहनं वशीकरणं च नामाऽत्यन्तं दुष्करं कार्यम् । इदं सत्यं यद् यदि भवान् अत्रेतोऽप्यधिकमस्थास्यत् तदा शीघ्रमेव जलोपर्यपि चलितुं शक्तोऽभविष्यत्" ।
"मम नाऽस्ति काऽपि वाञ्छा जलोपरि चलनस्य' - सिद्धार्थोऽवदत्, “भवन्तु नाम श्रमणा एव तादृशीभिर्विद्याभिः सन्तुष्टाः" ।