________________
रूपयोर्दुःखमयस्रोतस्सु च नैव मज्जिष्यति" ।
तस्य विषये बह्व्योऽद्भुता अश्रद्धेयाश्च वार्ता श्रूयन्ते स्म । यथा, स चमत्कारान् करोति स्म, समारं जितवान् आसीत्, देवैश्च सह सम्भाषणं कर्तुं शक्त आसीत् । किन्तु तस्य द्वेषिणो विरोधिनोऽश्रद्धालवश्च जनाः कथयन्ति स्म यत् "गौतमः प्रमादी धूर्तश्चाऽस्ति, स केवलं मधुरवचनैर्जनान् प्रतारयति, स्वयं तु महता वैभवेन विलासितया च दिनानि यापयति, यज्ञान् तिरस्करोति, तस्य न किमपि ज्ञानं विद्यते, तथा स नैव योगाभ्यासं नाऽपि च देहदमनं तपश्चरणं वा जानाति" ।
बुद्धविषयक वार्ताऽऽकर्षिक्यासीत्, किञ्चित् सम्मोहनमिवाऽऽसीत् तस्याम् । जगद् हि दुःखैर्व्यथितमासीत् जीवनं च प्रतिपदं विषमं दुर्गमं चाऽऽसीत् । एतादृशे काले एषा नूतनाऽऽशेव जागृता । एको हर्षदः सान्त्वनदायकः शान्तिकरः सुन्दराभिश्चाऽऽशंसाभिः परिपूर्णः सन्देशं समागत इव सर्वत्र बुद्ध एव चर्चागोचरो भवति स्म । सकलभरतखण्डस्य युवका एनं प्रवादं श्रुत्वा कुतूहलिनो आशंसिनश्च सञ्जाता आसन् । प्रत्येकं नगरेषु ग्रामेषु च महायशसः शाक्यमुनेः समाचारं कथयितारो यात्रिणोऽपरिचिता वैदेशिकाश्चाऽपि स्वागतार्हा जायन्ते स्म ।
शनैः शनैः समाचारा एते वने वसतां श्रमणानां कर्णगोचरत्वमपि प्राप्ताः । सिद्धार्थ - गोविन्दावपि तत्समाचारलेशं शङ्काभृतमाशंसापूर्णं चाऽपि श्रुतवन्तौ । श्रमणज्येष्ठाय प्रवादोऽयं न रोचते स्मेति तौ तद्विषयिक चर्चामतिविरलतयैव कुरुतः स्म । ज्येष्ठेन श्रुतचरमासीद् यद् – 'बुद्धोऽयं पुरा कश्चन वनवासी श्रमण आसीत्, किन्तु पश्चात् स सर्वं तत् त्यक्त्वा विलासमयं भौतिकसुखपूर्णं च जीवनं जीवति स्म । ईदृशे गौतमे तस्य आदरः कथं वा भवितुमर्हेत् ?
२३
—