________________
वस्तुतस्तु स वाणिज्ये किञ्चिदिवाऽदत्तावधान एवाऽऽसीत् । एकदा स कुत्रचिद् ग्रामे महान्तं व्रीहिराशिं क्रेतुं गतवान् । यदा स तत्र प्राप्तस्तदा पूर्वमेव तत्रत्यैर्जनैः स राशिरन्यस्मै वणिजे विक्रीत आसीदिति तेन ज्ञातम् । तथाऽपि स सर्वथाऽनुद्विग्नः कानिचन दिनानि तत्रैवोषितवान्, कृषकैः सह मनोरञ्जनं कृतवान्, धनं च बालकेभ्यो विभज्य दत्तवान्, तत्र च प्रवृत्ते कस्मिंश्चिद् विवाहे भागं गृहीत्वा पूर्णतया तृप्तः सन् नगरं प्रतिनिवृत्तवान् । यदा च कामस्वामी शीघ्रमनागमनार्थं समयस्य धनस्य च व्ययार्थं तमुपालब्धवान् तदा सिद्धार्थस्तमुक्तवान् – 'माऽऽक्रोशीद् भवान्, मम प्रियमित्र !। आक्रोशनेन कदाऽपि किमपि नैवाऽधिगतमस्ति । यदि हानिर्जाता तर्हि जायतां नाम, अहमेव तां वोढा । अहं ह्यनेन पर्यटनेन सर्वथा तुष्टोऽस्मि यतस्तेन बहूनां जनानां परिचयो मे जातः, ब्राह्मणेनैकेन सह मैत्री जाता, बालकाः समागत्य ममोत्सङ्गे उपविष्टाः, कृषकैश्च मे निजक्षेत्राणि दर्शितानि । तथा न केनाऽप्यहं वणिक्त्वेन परिगणितः' । ___तत्तु सर्वमपि शोभनमेव' – कामस्वामी विमनस्कतया स्वीकृतवान्, 'किन्तु वस्तुतो भवान् वणिगेव । यदि वा किं भवताऽऽनन्दप्राप्त्यर्थमेव पर्यटनं कृतं ननु ?'
'नूनमहं निजानन्दार्थमेव प्रवासं कृतवान्' – सिद्धार्थो हसित्वा कथितवान् । 'किमर्थं न ? अहं बहुभिर्जनैतनप्रदेशैश्च परिचितो जातः । मया मित्रताया विस्रम्भस्य च सौख्यमनुभूतम् । यद्यहं कामस्वाम्यभविष्यं तदा क्रयणं कर्तुमक्षमोऽहं व्यथितो भूत्वा प्रतिन्यवतिष्यम्, तथा मम समयो धनं च नष्टावैव स्याताम् । किन्तु मया बहूनि सुदिनानि यापितानि, बहु शिक्षितं, भूयानानन्दोऽनुभूतः, तथा कोपेनाऽसमीक्ष्यकारितया वा मया स्वस्याऽन्येषां वा क्लेशो नोत्पादितः । यद्यहं पुनरपि कदाचित् तत्र
७२