________________
इतः कामस्वामी तस्य महत्त्वयुतानि पत्राणि आदेशपत्राणि च लिखितुं सूचितवान्, ततश्च शनैः शनैः स तं सर्वेष्वप्यत्यावश्यककार्येषु योजितवान् । स शीघ्रमेव दृष्टवान् यत् - यद्यपि सिद्धार्थो व्रीहेरूर्णाया वा विषयेऽल्पमेवाऽवबुध्यते, पोतवाणिज्यमन्यव्यवसायं वा सोऽधिकं नाऽवगच्छति; तथाऽपि स कार्येषु भाग्यवानस्ति, अव्याकुलतायां स्वस्थचित्ततायां च स श्रेष्ठिनमप्यतिशेते, श्रवणकलायामपरिचितजनानपि प्रभावितान् कर्तुं च तस्य क्षमताऽनन्यसदृशी अस्ति ।
श्रेष्ठी स्वमित्रं कञ्चित् कथितवान् – 'अयं ब्राह्मणो सत्यवणिक् नास्ति नाऽपि च भविष्यति कदाऽपि, तस्य वाणिज्ये सर्वथाऽऽसक्तिर्नास्ति । किन्तु यान् साफल्यं स्वयमेवाऽऽगत्य वृणोति तादृशानामन्यतमः स किञ्चित् सफलतारहस्यं प्राप्तवानस्ति । तच्च रहस्यं शुभे मुहूर्ते तस्य जन्मभवनात्, योगप्रभावात्, श्रमणानां पार्वाद् वाऽधिगतं स्यात् । स सर्वदा वाणिज्येन क्रीडन् इव लक्ष्यते, वाणिज्यं कदाऽपि तन्मनसि स्थान प्राप्तुं न शक्तं, तं वा प्रभवितुं न शक्तम् । स कदाऽपि हाने व बिभेति, न कदाऽपि च तदर्थमुद्विग्नो वाऽपि भवति' ।
मित्रेणोक्तं – 'भवतः कृते स यद् वाणिज्यं कुर्यात् तत्र लाभे जाते तस्य तृतीयं भागं देयं कल्पतां, हानौ च जातायां भवता सह समानं भागं स निर्वहतु । एवंकृते स वाणिज्येऽधिकतयोत्साही भविष्यति' ।
कामस्वामी तद्वचनमनुसृत्य प्रवृत्तः । किन्तु सिद्धार्थस्तत्राऽप्यनासक्त एव स्थितः । यदा तस्य लाभो जातस्तदा स प्रशान्ततया तं स्वीकृतवान्, यदि च हानिः स्यात् तदा स हसित्वा कथयति स्म – 'अहो ! व्यवहारोऽयं ननु किञ्चिदिव निष्फलो जातः, परं न तत्र काऽपि चिन्ताऽस्ति' ।