________________
सिद्धार्थस्तत्सान्निध्ये बहु शिक्षितवान् । सोऽधिकं शृणोति स्माऽल्पं च वदति स्म । कमलाया शब्दानामनुस्मरन् स कदाऽपि श्रेष्ठपुरतो भृत्यभावं न दर्शयति स्म, किन्तु तेन सदृशं कदाचित्तु ततोऽपि अधिकं स्वं गणयितुं तं बलात् प्रेरयति स्म ।
कामस्वामिगृहे वसन् स कतिचिद्दिनेष्वेव तद्वाणिज्यं शिक्षितुमारब्धः । यद्यपि, प्रतिदिनं स कमलयाऽऽमन्त्रितो नियतसमये उत्तमवस्त्रोपानहादीनि परिधाय प्राभृतानि च गृहीत्वा तस्या भवनमपि प्राप्नोति स्म । सुन्दर्याः कमलाया वैदग्ध्यपूर्णयो रक्तवर्णयोरोष्ठयोः सकाशात् स बहु शिक्षितवान् । तस्या मृदुकोमलौ हस्तावपि तं बहून् विषयान् शिक्षितवन्तौ । कामस्य विषये सोऽद्याऽपि बालक इवाऽऽसीत् । सोऽतृप्ततयाऽक्षिणी निमील्य तस्य गभीरतामवगाहितुमनाः कामशास्त्रानुसारेण कमलया शिक्षितो यद् – 'अत्र कोऽपि परस्मै सुखमदत्त्वा प्राप्तुं नैव शक्नोति । तथा प्रत्येकं हावभावस्य, प्रत्येकं परिरम्भस्य, प्रत्येकं स्पर्शस्य, प्रत्येकं दृष्टिपातस्य, शरीरस्य च प्रत्येकमङ्गस्य नैजमेव रहस्यं भवति, तच्चाऽवबुध्यमान एवाऽत्र सुखमानन्दं चाऽनुभवेत्' ।
सा तं बोधितवती यत् – 'प्रेमिजनाभ्यां रतिक्रीडानन्तरं परस्परं प्रशंसां कृत्वैव विश्लेष्टव्यम् । ताभ्यां विजयित्वं जितत्वं वा नाऽनुभवितव्यं येनाऽतितृप्तेरवसादस्य वा संवेदनं नोदियात् नाऽप्यसदुपयोगस्याऽनुचिततयोपयुक्तस्य वा हीनानुभूतिर्वा - ऽप्युद्गच्छेन्मनसि ।
एतत्सर्वं शिक्षमाणः स तया चतुरया सुन्दरया च वाराङ्गनया सह स्वं कालमद्भुततया गमितवान् । स तस्याः शिष्यः, तस्याः प्रियः, तस्याः सुहृच्च सञ्जातः स्वीयवर्तमानजीवनस्याऽर्थं, मूल्यं च कमलायाः सहवासे एव निहितमस्तीति सोनुभूतवान् न पुनः कामस्वामिनो वाणिज्ये ।
७०