________________
तस्य काऽप्यपेक्षा नास्ति । स क्षुधं चिराय निरोद्धमपहसितुं च समर्थः । अतो महोदय ! उपवासः सर्वथोपयोग्येव' ।
'साधूक्तं भवता भोः श्रमण ! । किञ्चित् प्रतीक्षतामेषोऽहमागच्छामि' ।
कामस्वामी बहिर्गत्वा किञ्चन पत्रं गृहीत्वा प्रत्यागतः, तच्च सोऽतिथिकरेऽर्पयित्वा पृष्टवान् – 'किं भवानेतत् पठितुं शक्तो वा ?'
सिद्धार्थस्तत् पत्रं दृष्टवान् । तत्रैको विक्रयलेखो लिखित आसीत् । तं पठित्वा सिद्धार्थः श्रेष्ठिने श्रावितवान् ।
___ 'बाढं' – कामस्वाम्युक्तवान् । 'अथ चाऽस्मिन् पत्रके मदर्थं किञ्चिल्लिखित्वा दास्यति भवान् ?'
___ कामस्वामी तस्मै एकं पत्रकं लेखनी चाऽदात् । सिद्धार्थोऽपि तत्र किञ्चिद् लिखित्वा तस्मै प्रत्यार्पयत् तत् ।
कामस्वामी तत् पठितवान् – 'लेखनं शोभनं, किन्तु चिन्तनं श्रेष्ठम् । चातुर्यं प्रशस्यं, धैर्यं तु ततोऽपि श्रेष्ठम्' ।
'सुन्दरं लिखति खलु भवान्' – श्रेष्ठीतं प्रशंसितवान् । 'आवाभ्यामितोऽपि बहु चर्चयितव्यं, किन्त्वद्याऽहं भवते मम प्राघूर्णकीभवितुं मद्गृहे च निवसितुमामन्त्रयामि' ।
सिद्धार्थस्तदर्थमाभारं मत्वा तदामन्त्रणं स्वीकृतवान् । इदानीं स श्रेष्ठिगृहे एव निवासं कृतवान् । नूतनवस्त्राण्युपानहौ च तदर्थमानायितानि । एकः सेवकः प्रत्यहं तस्य कृते स्नानादिसामग्री प्रगुणीकरोति स्म। प्रतिदिनं वारद्वयं तस्य पुरतो भोजनमपि परिवेष्यते स्म । किन्तु सिद्धार्थः सकृदेव भुनक्ति स्म । स मांसं मदिरां वा सर्वथा न स्पृशति स्म ।
कामस्वामी तेन सह वाणिज्यवार्ता करोति स्म, तस्य पण्यसामग्री पण्यशालां गणनपत्राणि च दर्शयति स्म ।