________________
कथमहं जीविष्यामीति' ।
'तथा च भवान् अन्येषामाधारेण जीवितः खलु !' । ‘सत्यम् । श्रेष्ठ्यपि ह्यन्येषामाधारेण जीवति ननु ! ' । 'युक्तमुक्तम् । किन्तु स एवमेवाऽन्येषां सकाशान्न किञ्चिद् गृह्णाति स वस्तूनि तद्विनियमेन ददाति' ।
'वस्तूना हीयमेव गतिरस्ति । प्रत्येकं जनो गृह्णाति, प्रत्येकं च ददाति । जीवनक्रमो ह्येष खलु !'
'सत्यं तत् । किन्तु यदि भवान् सर्वथा परिग्रहहीनस्तदा कथमन्येभ्यः किञ्चिद्दातुमर्हति ?'
‘प्रत्येकं जनः स्वपार्श्वे यत् स्यात् तद्ददाति । सैनिको बलं दत्ते, वाणिजो वस्तूनि ददाति, शिक्षको विद्यां ददाति, कृषको धान्यं, धीवरश्च मत्स्यान् दत्ते' ।
'बाढम् । अथो भवान् किं ददाति शिक्षितमर्जितं वा यदन्येभ्यो दातुं शक्यम् ? '
भवता तत् किं
'अहं विचारयितुं प्रतीक्षितुमुपवसितुं च समर्थः ' । ‘किमेतत् पर्याप्तं वा ?’
'पर्याप्तमेवेति प्रतिभाति मम' ।
‘परन्तु कुत्रोपयोगीनि तानि ? उदाहरणार्थं लाभो जनस्योपवासेन क्रियते खलु ?'
'उपवासस्याऽप्यस्ति महन्मूल्यं महोदय ! । यदा कस्यचित् पार्श्वेऽशनादि किञ्चिदपि न स्यात् तदोपवास एवैकं चातुर्यपूर्णं कार्यं, यत् स कर्तुं शक्नोति । यथा, यदि सिद्धार्थ उपवासं कर्तुं न जानाति तदाऽद्य तेन क्षुधापीडिततया तच्छमनार्थं यत्किञ्चिदपि कार्यं भवत्पार्श्वेऽन्यत्र वाऽन्विष्य कर्तव्यं स्यात्, यतः क्षुधैव तं तदर्थं प्रेरितवती स्यात् । किन्तु तथा न जातं यतः सिद्धार्थोऽव्याकुलतया प्रतीक्षितुं जानाति । सोऽधीरो नास्ति ।
T
६८
को वा