________________
२. प्राकृतजनमध्ये
सिद्धार्थः श्रेष्ठिनं कामस्वामिनं मिलितुं तस्य गृहं प्राप्तः । सुसमृद्धे हर्म्ये सेवकैः महार्घास्तरणानतिक्रामन् स मुख्यापवरकं प्रापितो यत्र गृहस्वामिनं प्रतीक्षमाणः स उपविष्टः ।
स्तोकवेलानन्तरं कामस्वामी तत्राऽऽगतः । स कोमलप्रकृतिकोऽपि आनन्दी जन आसीत् । तस्य केशेषु पलिता जायमाना आसन्, नेत्रे च चतुरे सावधाने चाऽऽस्तां, मुखं च विलासितां द्योतयति स्म । तौ द्वावपि मैत्रीभावेन परस्परमभिवादनं कृतवन्तौ । श्रेष्ठी कथितवान् – ‘मया ज्ञातं यद् भवान् ब्राह्मणोऽस्ति, विद्वान् अस्ति, वृत्तिं च मार्गयमाणोऽस्ति - इति । तत् किं भवान् व्यसनपतितो, येन वृत्तिं मृगयते ? '
'नैव', सिद्धार्थः कथितवान् 'अहं व्यसनग्रस्तो नाऽस्मि । वस्तुतस्तु मम जीवने कदाऽपि व्यसनं नाऽऽगतम् । अहं हि वनादागतो यत्र श्रमणैः सह चिरायोषितवानहम्' ।
'यदि भवान् श्रमणानां सकाशादागतस्तत् कथं व्यसनग्रस्तो वृत्तेरपेक्षावान् वा नाऽस्ति किल ? श्रमणास्तु सर्वथा परिग्रहरहिताः सन्तीति श्रुतं खलु मया !' |
'अहमपि परिग्रहरहित एवाऽस्मि ' - सिद्धार्थ उक्तवान्, ‘यदि भवन्मनसीदमभिप्रेतं स्यात् । अहं सर्वथा परिग्रहं नैव धारयामि, किन्तु तद् मदिच्छयैव । अत एवाऽहं व्यसनग्रस्तो नाऽस्मि ।
—
'किन्तु कथं भवान् परिग्रहहीनो जीविष्यति ?' 'मयैतद्विषये न कदाऽपि चिन्तितं महोदय ! । अहं वर्षत्रयात् परिग्रहरहित एवाऽस्मि, तथाऽपि मया नैव चिन्तितं कदाऽपि यत्
६७