________________
गच्छेयं, नवं व्रीहिराश्यादि क्रेतुं केनचिद् वाऽन्येन प्रयोजनेन, तदा तत्रत्या जनाः सौहार्दैन मामाकारयेयुर्मम स्वागतं च कुर्युः । तदैव चाऽहं कोपकरणमसमीक्ष्यकारित्वं च मया नैवाऽऽचरितमिति स्मृत्वा सुखीभविष्यामि। भवतु मित्र ! क्लेशकरणेन मा स्वं दुःखीकरोतु । यदा च भवताऽनुभूयेत यत् सिद्धार्थो मे हानि करोति तदा केवलं शब्दमेकं कथयतु, सिद्धार्थः सर्वं त्यक्त्वा स्वीयमार्गे गमिष्यति । तावत्पर्यन्तं किन्त्वावां प्रशस्तौ सुहृदावेव भवामः' ।
भवान् मम अर्थात् कामस्वामिनोऽन्नमेव खादित्वा जीवति'ति सिद्धार्थं प्रत्याययितुं श्रेष्ठिनः प्रयत्ना अपि विफला जाताः । यतः सिद्धार्थस्योत्तरमासीद्, यत् – ‘स स्वीयमेवाऽन्नं भुङ्क्ते । किञ्च, सर्वेऽपि जनाः परस्परमितरस्याऽन्नं भुञ्जन्त एव' । सिद्धार्थः कामस्वामिनः पीडाभिः सर्वथाऽलिप्तः सन् निश्चिन्त एवाऽवर्तत । कामस्वामिनस्तु बह्वयः पीडाः आसन् । यदा कश्चन व्यवहारो निष्फलो जायते स्म, यदा हि किञ्चन वस्तुलेखपत्रकं नश्यति स्म, यदा च कश्चनाऽधमर्ण ऋणं प्रत्यर्ययितुं न शक्नोति स्म । कामस्वामी सिद्धार्थं कदाऽपि खेदकरणार्थं कोपेनाऽपशब्दोच्चारणार्थं वोत्तेजयितुं तथा ललाटभङ्गकरणार्थं निद्रानाशार्थं वाऽपि प्रेरयितुं नैव समर्थ आसीत् । यदैकदा कामस्वामी सिद्धार्थमस्मारयत् यद् – भवान् सर्वमपि मत्पादेिव शिक्षितोऽस्तीति तदा सिद्धार्थेनोदितं – “एतादृशपरिहासेनाऽलम् । अहं भवतः सकाशात् - करण्डमितस्य वस्तुजातस्य कि मूल्यं स्यादिति, ऋणेन धनदाने कियती वृद्धिग्रहीतव्येति वाऽवश्यं शिक्षितवान्, यतस्तत्र भवदधिकारः । किन्तु मम प्रियमित्र ! कामस्वामिन् ! विचारः कथं कर्तव्य इति तु नाऽहं भवत्सकाशात् शिक्षितवान् । तत्तु भवानेव मम पार्श्वे शिक्षितुमर्हति !' ।