________________
तेषामन्यतमोऽत्र विषये सर्वथा परिपूर्णोऽस्ति । अहं तं न कदाऽपि विस्मर्तुं शक्तः । सोऽस्ति गौतमः - जगद्विश्रुतो भगवान् बुद्धः, यो वितरति तादृशं बोधम् । सहस्रशो युवकास्तस्योपदेशं प्रत्यहं शृण्वन्ति तस्याऽनुशासनं च प्रतिक्षणं पालयन्ति । किन्तु ते सर्वेऽपि हि सन्ति पतितपर्णतुल्याः, तेषामन्तःकरणे प्रज्ञायाः प्रकाशो नाऽस्ति नाऽपि चाऽऽन्तरो मार्गदर्शकः' ।
कमला तं विलोकयन्ती स्मितं कृतवती, 'भवान् पुनरपि तस्य विषये वदति' - सोक्तवती । 'भवान् पुनरपि श्रमणवद् विचारयन्नस्ति' ।
सिद्धार्थस्तूष्णीं भूतः । ततस्ताभ्यां प्रेमकेलिरादृता । कमलाः तस्याश्चत्वारिंशदधिकप्रकारेषु पारङ्गताऽऽसीत् । तेषामन्यतम एव प्रकारस्ताभ्यां समारब्धः । कमलायाः शरीरं चित्रकस्येव चपलं व्याधस्य धनुरिव च सुनम्यमासीत् । यः कोऽपि तत्सकाशात् प्रेमक्रीडां शिक्षेत स बहुविधानि सौख्यानि प्राप्तुं रहस्यानि चाऽवगन्तुं शक्नोति स्म । सा सिद्धार्थेन सह चिरायाऽक्रीडत्, सा तं निराकृतवती, अभिभूतवती, आक्रान्तवती, पराजितवती, स्वीयप्रभुत्वेन हृष्टा जाता च । प्रान्ते स तया वशीकृतः सन् श्रान्तो भूत्वा तत्पार्वे शयितवान् ।
कमला हि किञ्चिदवनम्य तस्य वदनं श्रान्ते च नयने निरीक्षितवती।
_ 'अद्ययावत् मया ये प्रेमिणः प्राप्तास्तेषु भवानेव श्रेष्ठः' - सा विचारयन्तीव कथितवती । 'भवान् अन्येभ्यो दृढतरोऽधिकचपलोऽधिकानुकूलश्च । भवता मम कला सुष्ठ शिक्षिताऽस्ति । सिद्धार्थ ! यदाऽहं वयस्का भविष्यामि तदा, विचारयामि यद् भवत्तोऽपत्यं प्राप्स्यामि । किन्त्वेतावताऽपि भवान् श्रमण एव । भवान् वस्तुतो मां नैव प्रीणाति - भवान् कमपि नैव प्रीणाति ।