________________
किं सत्यमिदम् ?' _ 'स्यात् कदाचित्' – सिद्धार्थः क्लान्त्या प्रोक्तवान् । 'अहं भवादृश एवाऽस्मि । भवती अपि कमपि नैव प्रीणाति, अन्यथा कथं भवती प्रेम कलात्वेनाऽभ्यस्येत् ? अस्मादृशा जनाः स्नेहं कर्तुमसमर्थाः खलु ! सामान्यजनास्तत्र शक्ताः, तदेव तेषां रहस्यम्' ।