________________
कदाचिच्च स एतेभ्य एतादृग्भ्यश्च विचारेभ्यो भयमपि प्राप्नोति स्म । जनानां बालिशं दैनन्दिनं व्यवहारमहमपि समग्रतया जीवामीति स्पृहा तच्चित्ते जागर्ति स्म, तेषां जीवनेऽहं वास्तविकतया भागं गृह्णामि, तेषां जीवनमहमप्यास्वादयेयं जीवेयं `च, न पुनतस्य प्रेक्षक एव भवेयमिति चाऽपि स काङ्क्षति स्म । सुन्दर्याः कमलायाः पार्श्वे स प्रत्यहं गच्छति स्म । स ततः प्रेम्णः कलां तथा शिक्षितवान् यस्यामनन्यसदृशतयाऽऽदानं प्रदानं च तुल्यमेकं च भवति । स तया सह संलापानकरोत्, ततः सकाशात् शिक्षते स्म, तामुपदिशति स्म तस्याश्चोपदेशं शृणोति स्म । सैवेकाऽऽसीद् या तं समवबुध्यते स्म, गोविन्दतोऽप्यधिकं समवबुध्यते । सा हि सिद्धार्थसदृश्येवाऽऽसीत् ।
एकदा स तामुक्तवान् ‘भवती मत्सदृश्यस्ति, अन्यजनेभ्यो भिन्ना । भवती कमलैवाऽस्ति नाऽन्यत् किञ्चित् । भवत्या अन्तःकरणे मयीव निश्चलता स्वस्थता चाऽस्ति, एकं विश्रान्तिस्थानमस्ति यत्र भवती यदा कदाऽपि प्रतिनिवर्तितुं सहजा च भवितुं शक्नोति । केषांचिदेवेदृशी क्षमता भवेत् । यद्यपि सर्वोऽपि जन ईदृशो भवितुं शक्नुयात्' ।
-
'सर्वे जना न भवन्तीयन्तो दक्षाः ' कमला प्रोक्तवती । 'कमले ! दक्षत्वेन नाऽस्ति किञ्चित् कार्यम्' – सिद्धार्थः कथितवान्, ‘पश्यतु, कामस्वामी हि मत्सदृश एव दक्षस्तथाऽपि तस्य नाऽस्त्येषा क्षमता । अन्ये केऽपि बालसमाना धारयन्ति तादृशीं क्षमताम्। प्रायशो जना वृक्षपतितपर्णतुल्या भवन्ति ये वायुना प्रेर्यमाणा इतस्तत उत्क्षिप्यमाणाश्चाऽन्ते भूमौ पतन्ति । अल्पाः किन्तु जनास्तादृशा भवन्ति ये हि नक्षत्रवत् निश्चिते पथि प्रयान्ति, वायुस्तान् चालयितुं न शक्नोति तेषामन्तःकरणे एव मार्गदर्शको मार्गश्च विद्यते । यान् प्राज्ञपुरुषान् अहं जानामि
७६
―