________________
यदि कदाचित् कामस्वामी तत्पार्वे समागत्य स्वीयसमस्या वर्णयति स्म कस्यचिद् व्यवहारस्य कृते वोपालभते स्म तदा स सकर्णतया सावधानं च शृणोति स्म, तत्कथने विस्मयं प्रदर्शयति स्म, तद् बोद्धं प्रयतते स्म, यत्र चाऽऽवश्यकं तत्र किञ्चिद् अनुमनुते स्माऽपि, ततश्च प्रयोजनवशादागतेनाऽऽगन्तुकेन सह संलपितुमारभते स्म । ___बहवो जनास्तत्समीपमागच्छन्ति स्म, केचन वाणिज्यार्थं, केचन तं वञ्चयितुं, केचन तं श्रोतुं, केचन तस्य सहानुभूति प्राप्तुं, केचन च तस्य मार्गदर्शनं प्राप्तुम् । स मार्गदर्शनं करोति स्म, सहानुभूतिं दर्शयति स्म, उपायनानि प्रदत्ते स्म, किञ्चिद् वञ्चितोऽपि भवति स्म, तथाऽस्याः सर्वस्या अपि क्रीडाया विषये तत्क्रीडकानां च जनानां भावनाविषये स तयैव रीत्या विचारयति स्म यया रीत्या स पूर्वं देवानां ब्राह्मणानां च विषये विचारयन्नासीत् ।
कदाचित् तस्याऽन्तःकरणे एको मृदुः सौम्यो ध्वनिः श्रूयते स्म यस्तं निभृतं स्मारयति स्म निभृतमेव चाऽधिक्षिपति स्म, तथा निभृतं यथा स कष्टेन तं शृणोति स्म । ततः सहसैव सोऽपश्यत् यत् – सोऽपरिचितं जीवनं यापयति । बहूनि कार्याणि स क्रीडार्थमेव क्रीडारूपेणैव वा करोति, तथा यद्यपि स प्रसन्नोऽस्ति यथाकालं भौतिकसुखं चाऽप्यनुभवति, तथाऽपि सत्यजीवनं तु ततो वियुक्तमिवाऽस्पृशदिव प्रवहति । यथा कश्चन क्रीडकः स्वीयकन्दुकेन क्रीडति तथा स वाणिज्येन क्रीडन्नासीत्, तथैव च जनैः सह व्यवहरन्नासीत्। स तानवलोकयति स्म, तेषामाचरणाद् विनोदमपि प्राप्नोति स्म । एवंस्थितेऽपि तस्य हृदयं, तस्य मूलः स्वभावस्तत्र लीनो नाऽऽसीत् । तस्य मूलं स्वत्वं तु कुत्रचिदन्यत्रैव बम्भ्रम्यते स्माऽदृश्यतया, तस्य स्वत्वस्य तदीयजीवनेन सह न कोऽप्यनुबन्ध आसीत् ।