________________
यदा नगरवीथिषु परिभ्राम्यति स्म तदा तं विलोकयन्तीनां ब्राह्मणकन्यानां हृदयानि स्नेहपर्याकुलानि भवन्ति स्म ।
तन्मित्रं गोविन्दस्तस्मिन् सर्वेभ्योऽप्यधिकतया स्निह्यति स्म । सिद्धार्थस्याऽनवद्या गतिर्मतिश्च तथा तस्य प्रत्येकं चेष्टानां सौन्दर्यं तन्मनः प्रीणयति स्म । सिद्धार्थस्य प्रत्येकं कर्म वचनं च तस्य तोषाय जायते स्म । परमेतेषां सर्वेषामप्युपरिष्टात् तस्मै सिद्धार्थस्य पारदर्शिनी प्रज्ञा, सूक्ष्मा उत्कटाश्च विचाराः, दृढं मनोबलं समुच्चश्च व्यवसायोऽतितमां रोचते स्म ।।
गोविन्दः सुतरां जानाति स्म यद् – 'नैषः सामान्यो ब्राह्मणोऽलसः पुरोहितो, धनलुब्धो ज्यौतिषिकोऽभिमानी गुणहीनश्चोपदेशको धूर्तो दुर्वृत्तश्चाऽर्चको वा भविता, अथवा विशाले मेषयूथे स एकः सुमूल् मेषोऽपि च नैव भविष्यति' । किञ्च गोविन्दः स्वयमपि तादृशो भवितुं नैवाऽभिलषति स्म नाऽपि च तादृशानां स्वजातीयानां सहस्रशो ब्राह्मणानामन्यतमो भवितुमिच्छति स्म ।
स स्ववल्लभं तेजस्विनं च सिद्धार्थमेवाऽनुसिसीर्षति स्म । तथा यदि परं कदाचित् सिद्धार्थो भगवद्भावं प्राप्नुयात् तेजोलोकं वा प्रविशेत् तदा गोविन्दोऽपि तन्मित्रतया, तत्सहयायितया, तत्सेवकतया, तदङ्गरक्षकतया, तद्ध्वजधारितया, तत्प्रतिच्छायतया वा तमनुसर्तुमिच्छति स्म ।
एवं च सर्वेऽपि सिद्धार्थे स्निह्यन्ति स्म, सोऽपि च सस्मितं सानन्दं च सर्वान् प्रीणयति स्म ।
अथ चैवं स्थितेऽपि सिद्धार्थः स्वयं सुखी नाऽऽसीत् । पाटलवर्णेषु अञ्जीरोद्योनेषु भ्राम्यन्, उपवनस्याऽऽनीलच्छायायामुपविश्य ध्यायन्, प्रत्यहं पवित्रस्नानेन स्वाङ्गानि क्षालयन्, गहनेषु