________________
१. ब्राह्मणस्य पुत्रः
गृहस्य शीतलच्छायायां, नावां पार्श्वस्थे सरित्तटीये सूर्यप्रकाशे, पाण्डुरवनस्याऽञ्जीरवृक्षस्य च च्छायासु सुरूपो ब्राह्मणपुत्रः सिद्धार्थः स्वीयवयस्येन गोविन्देन सह संवर्धितः । पवित्रे सान्ध्यस्नानविधौ शुचौ च हविर्दानविधौ नित्यं नदीतटे स्नानं कुर्वतस्तस्य स्कन्धौ सूर्यातपवशात् ताम्रवर्णो बभूवतुः । मधुरं गायन्त्यां तन्मातरि, विद्वद्भिश्चर्चयति च तत्पितरि सहकारवाटिकासु क्रीडतस्तस्य दिनानि व्यक्रामन्ति स्म ।।
आ बहोः कालात् सिद्धार्थो विद्वज्जनचर्चासु भागं वहति स्म, गोविन्देन सह विविधान् विषयान् विचारयति स्म, तेनैव च सह भावनाया ध्यानस्य चाऽभ्यासमपि करोति स्म । नादब्रह्मण ॐकारस्य श्वासग्रहणेन सहाऽन्तरुच्चारणं स नितरां जानाति स्म । तेनौवोच्चारणेन सह यदा स सर्वात्मना निःश्वसिति स्म तदा तदीयं ललाटं शुद्धेनाऽऽत्मतेजसा देदीप्यते स्म । निजास्तित्वस्याऽन्तस्तले विद्यमानस्य विश्वात्मना चैकत्वं धारयतोऽविनाशिनो निजात्मनोऽनुसन्धानमुज्जागरणं च कर्तुं स सुतरां जानाति स्म ।
निजपुत्रोऽतीव प्रज्ञावान् जिज्ञासुश्चेति विलोक्य तत्पितुश्चित्तं प्रसन्नमासीत् । स तं - 'प्रकाण्डविद्वत्तया सत्पुरोहिततया ब्राह्मणश्रेष्ठतया च वर्धमानोऽस्त्यय'मिति विलोकयति स्म । तथैवोर्जस्वलस्य सुरूपस्य मृदुगात्रस्य पूर्णविनयेन व्यवहरतश्चतस्य स्फूर्तिमत् चलनोपवेशनोत्थानादिकं निभाल्य तन्मातुर्हृदयं गर्वेण विकाशं प्राप्नोति स्म ।
अथ चोन्नतभूविशालनेत्रो ललितदेहयष्टिश्च युवा सिद्धार्थो
३