________________
जायमाने आस्तां हस्तौ पादौ च दुर्बले अभवतां, किन्त्वेवं सत्यपि तस्य वदने सैवाऽपरावर्तिता समुज्ज्वला च प्रसन्नता प्रशान्तिश्च विलसमानाऽऽसीत् ।
सिद्धार्थस्तस्य वृद्धजनस्य पुरत उपविष्टः शनै: शनैश्च कथयितुमारब्धः । स तस्य यत् कदाऽपि नैव निर्दिष्टवानासीत् तत् सर्वं कथितवान्, यथा कथं स तदा नगरं गतवानासीत्, कथं च पुत्रवियोगशल्यं तन्मनस्तुदति स्म, कथं च स सुखिनो जनकान् दृष्ट्वाऽसूयते स्म एतादृशां च भावानां मौर्यस्य विषये तस्य बोधः, तथा स्वात्मना सह नैराश्यपूर्ण: सङ्घर्ष: इत्येतत् सर्वमप्यधिकृत्य स कथितवान् । स तस्य पुरतो यत् किमपि – सर्वथा दुःखमयमपि विषयं कथयितुं सङ्कोचं नैव कृतवान् । स स्वीयं शल्यं तदग्रे प्रकाशितवान्, तस्मिन् दिने नगरं प्रति गमनार्थं कथं स कुटीरान्निर्गत्य नावा नदीं तीर्णवान्, कथं च नदीतं प्रति परिहसितवती - इत्येतत् सर्वमपि तस्याऽग्रे निवेदितवांश्च ।
—
यथा यथा स स्वकथनमनुवर्तितवान् यथा च वासुदेवः प्रसन्नया मुद्रया तत् श्रुतवान्, तथा तथा सिद्धार्थेनाऽत्यन्तं सूक्ष्मता सावधानतया च वासुदेवस्य पूर्णाऽनन्यवृत्तिरनुभूता । तस्य सर्वा अपि व्यथाः चिन्ता दुराशाश्च यथा वासुदेवं प्रति प्रवहिता: पुनरपि च तं प्राप्ताः सन्तीति सोऽनुभूतवान् । स्वीयशल्यस्य तदग्रे निवेदनं नाम सर्वथां शीतलीभवनं यावन्नद्यां स्नानं, प्रान्ते च नद्यैक्यमेव ! यथा यथा स कथितवान् आत्मनिवेदनं च कृतवांस्तथा तथा तेनाऽनुभूतं यदयं नास्ति सम्प्रति वासुदेवः, नास्ति चाऽयमितः परं कश्चन श्रवणनिरतो मनुष्यः, प्रत्युत सोऽनुभूतवान् यदेष निश्चलः श्रोता, तस्याऽऽत्मनिवेदनं, वृक्षो वर्षाजलमिव, प्रतिलवं निपिबन्नस्ति, यदयं निःस्पन्दो जनः स्वयमेव नद्यस्ति ननु !,
१४९