________________
अथवाऽयं स्वयमेव देवोऽस्ति, शाश्वततत्त्वं वाऽस्ति । यथा यथा च सिद्धार्थः स्वविषयकात् स्वीयशल्यविषयकाच्च चिन्तनात् निवृत्तो जातस्तथा तथा वासुदेवस्य परिवर्तनविषयकेण बोधेन स आक्रान्तो जातः । यथा यथा च स इमामनुभूतिमात्मसात् कृतवान् तथा तथा तद्विषयिकी अपरिचितता तस्याऽल्पत्वं प्राप्ता, तथा सोऽनुभूतवानपि यत् सर्वमपि स्वाभाविकं सुस्थं चाऽस्तीति । तथा वासुदेवोऽपि चिरादेव, प्रायः सर्वदाऽपि एतादृश एवाऽऽसीत् कथमपि भिन्नो नाऽऽसीत् । सोऽनुभूतवान् यद् यथा जना देवान् पूजयन्ति स्म तथैव सोऽपि वासुदेवं पूजयितुमारब्ध आसीत्, एतच्च चिराय नैव स्थास्यतीति च, यतोऽभ्यन्तरे तु स वासुदेवाद् वियोक्तुमारब्ध आसीत् । एतावता तस्य कथनं त्वनुवर्तमानमासीत् ।
यदा तस्य कथनं समाप्तं वासुदेवेन स्वीया किञ्चिद् विकला दृष्टिस्तस्योपरि निवेशिता । स किञ्चिदपि नैवाऽभाषत, परन्तु तस्य प्रशान्तवदनाद् वात्सल्यस्य प्रसन्नतायाश्च प्रभा प्रसरति स्म, सद्भावस्य प्रज्ञायाश्च छाया विलसति स्म । स सिद्धार्थहस्तं स्वहस्तेन गृहीत्वा तं नदीतीरेऽनयत् । ततस्तस्य पुरत उपविश्य नदी प्रति दृष्ट्वाऽस्मयत् । स्नेहेनाऽकथयच्च - 'भवता नद्याः हासः श्रुतः, किन्तु ततोऽप्यधिकं बहु श्रोतव्यमस्ति। आवां शृणुयाव तावत्' । सर्वमपि शुभमशुभं च - एतेषां सर्वेषामपि सम्मीलनं नामैव जगदासीदिदं खलु । एतेषां सर्वेषामपि मीलनमेवाऽऽसीद् घटनाप्रवाहो नाम, जीवनसङ्गीतं नाम !
यदा सिद्धार्थ ऐकाग्रयेण नदीमश्रौषीत्, सहस्रशः शब्दानां गानमश्रौषीत्, यदा च स शोकमयं हास्यमयं वा शब्दं नैव श्रुतवान्, यदा स स्वं केनचित् विशेषेण ध्वनिना नैवाऽबध्नात्, नाऽपि च तं ध्वनिमात्मसात् कृतवान्, किन्तु सर्वानपि श्रुतवान्, यदा च स सर्वमपि सामग्रयेणाऽद्वैतेन च श्रुतवान्, तदा सहस्रशो
१५०