________________
ध्वनीनां महागानं केवलमेकशब्दात्मकमेव जातम् ओम् पूर्णइति ।
'किं भवान् श्रुतवान् ?' पुनरपि वासुदेवो दृष्टिक्षेपेण पृष्टवान् । तस्य स्मितमुज्ज्वलमासीत्, यथा ओम् नद्या: सर्वेष्वपि ध्वनिषु सर्वतः प्रसृतस्तथा तस्य स्मितस्य कान्तिरपि तस्य मुखस्य सर्वास्वपि वलिषु सर्वतः प्रसृता । यथा स स्वमित्रमुखमवलोकितवांस्तथा तस्य स्मितं प्रोज्ज्वलं जातम् । ततश्च सिद्धार्थस्य मुखेऽपि तदेव स्मितं प्रकटितम् । तस्य व्रणमुपशान्तं जायमानमासीत्, तस्य पीडाऽपस्त्रियमाणाऽऽसीत्, तस्याऽऽत्मा चैक्ये विलीयमान आसीत् ।
ततः क्षणादेव सिद्धार्थो नियतिं विरुध्य युद्धकरणात् निवृत्तो जात: । तस्य वदनोपरि; इच्छानां सङ्घर्षाद् यो निवृत्तोऽस्ति, यो मुक्तिं प्राप्तोऽस्ति, यो घटनाप्रवाहेण सह जीवनप्रवाहेण च सह संवादितां भजति, यस्य चित्तं सहानुभूत्या करुणया च पूर्णमस्ति, यः प्रवाहे एव समर्पितोऽस्ति सर्वेषामपि चैक्येन संस्थितोऽस्ति, तस्य वदने या ज्ञानानन्दस्य प्रभा विलसेत् सा, प्रभा विलसमानाऽऽसीत् ।
वासुदेवो नद्यास्तटादुत्थितः । यदा स सिद्धार्थस्य नेत्रयोर्निरीक्षितवान् तत्र च ज्ञानानन्दं प्रकाशमानं विलोकितवान्, स स्वीयेन सहृदय-सौम्यव्यवहारेण मृदुतया तस्य भुजं स्पृष्ट्वाऽकथयत् – 'मित्र ! अस्यैव क्षणस्य चिरप्रतीक्षा मया कृताऽऽसीत्, अधुना स क्षण उपस्थितोऽस्ति । इदानीमहं गमिष्यामि । अहं वासुदेवो नाविकतया चिरायाऽभवम् । अधुनैतत् समाप्तं जातमस्ति । स्वस्ति कुटीराय, स्वस्ति नौ, स्वस्ति च सिद्धार्थाय ।
सिद्धार्थोऽपि गच्छतस्तस्याऽग्रे सविनयं प्राणमत् कथित
१५१