________________
मनुमति प्राप्तुं तं बलात्कारेण प्रेरितवानासीत्; हठाच्चाऽनुज्ञां प्राप्य कथङ्कारं स तद्गृहान्निर्गत आसीत् पुनश्च नैव कदाऽपि तत्र प्रतिनिवृत्त आसीत् । किं तस्य पिताऽपि तदेव दुःखं नाऽनुभूतवान् स्यात् यदिदानीं स स्वपुत्रस्य कृतेऽनुभवन्नासीत् ? किं तस्य पिता बहोः कालात् पूर्वमेव स्वपुत्रमदृष्ट्वैवैकाकितया मृतो नाऽऽसीत् खलु ? स्वपितुरिव किं तस्याऽपि एषैव नियतिर्नाऽऽसीत् किल? किमेतत् पुनरावर्तनं, नियत्या वर्तुले घटमान एष घटनाक्रमः किमेकं प्रहसनं, विचित्रं मौर्यपूर्णं च कार्यं वा नाऽऽसीत् खलु !।
नदी हसन्ती आसीत् । आम्, एतदेव तदासीत् । सर्वमपि यद् आऽन्तमसहित्वैव समापितं स्यात् तदवश्यं पुनरावर्तितं भवति स्म, तत्र च समानानि एव दुःखानि अनुभवितव्यानि भवन्ति ।
पितृविषयकं पुत्रविषयकं च चिन्तनं कुर्वाणः, नद्योपहस्यमानः, स्वेन सहैव विप्रतिपद्यमानः, नैराश्यासन्नं वर्तमानः, एवंसत्यपि च निजं प्रति जगतं प्रति चोच्चैर्हसितुमभिलषन् सिद्धार्थः पुनरपि नावमारूढः, नदी तीर्त्वा च गृहं प्रत्यागतः । तस्य दुःखशल्यमिदानीमपि तुदति स्म, नियतेः पुरतो विरोध कर्तुमितोऽपि तस्य मनः समुज्जृम्भते स्म । इदानीमपि तस्य पीडाया अभिभवो नैव जातस्ततश्च तस्य चित्ते प्रशान्तिरपि नाऽऽसीत् । एवंस्थितेऽपि स तदर्थमाशान्वित एवाऽऽसीत् । यदा स कुटीरं प्राप्तस्तदा तस्य मनसि वासुदेवस्याऽग्रे गत्वा सर्वमप्यात्मनिवेदनं कर्तुमदम्योऽभिलाषो जागृत आसीत् । स स्वमनसि स्थितं सर्वमपि श्रवणकलानिपुणाय वासुदेवाय कथयितुमुत्कण्ठते स्म ।।
वासुदेवः कुटीरे उपविश्य वंशकण्डोलं विरचयन्नासीत् । सोऽधुना नौकार्यं न करोति स्म, यतस्तस्याऽक्षिणी निस्तेजस्के
१४८