________________
प्रतिबिम्बं वृद्धस्य वासुदेवस्य बालतुल्ये वदने संवादितारूपेण, जगतः शाश्वततया सम्पूर्णत्वरूपेण ऐक्यरूपेण च प्रतिफलितम् ।
किन्तु, एतावताऽपि पुत्रगमनस्य दुःखमितोऽपि मनस्तुदति स्म । सिद्धार्थः स्वपुत्रविषये स्निग्धतयाऽऽत्यन्तिकतया च चिन्तयति स्म, तदर्थं स्वहृदये प्रेम्णो वात्सल्यस्य च भावं पोषयति स्म, तद्गमनस्य पीडया व्यथितो भवति स्म, आसक्त इव सर्वामपि मूर्खतां समाचरति स्म च । एवं च दुःखाग्नेालां निर्वापयितुमवकाशं नैव कल्पयति स्म ।
एकदा, दुःखशल्येऽत्यन्तं व्यथयति सति स पुत्रमिलनस्याऽऽत्यन्तिकेच्छया व्याप्तचित्तः सन् 'नगरं गत्वा तदन्वेषणं करोम्येवे'ति विचिन्त्य नावा नदीं तीर्णवान् । ततो यावद् नौकातो बहिः पादं स्थापयति स्म तावत् तस्य दृष्टिर्नदीप्रवाहे पतिता । नदी मृदुतया मन्दमन्दं प्रवहमानाऽऽसीत् । ग्रीष्मकालस्य सन्निहितत्वात् यद्यपि जलमनल्पं नाऽऽसीत् तथाऽपि तस्याः कलकलध्वनिस्तु स्पष्टतया श्रूयते स्म । सिद्धार्थस्य प्रतिभातं यत् साऽद्य किञ्चित् विलक्षणं भाषमाणाऽस्तीति । तेनैकाग्रीभूय यावन्निरीक्षितं तावत्, सा तं प्रति हसति, व्यक्तमेव हसतीति लक्षितम् । वृद्धनाविकं दृष्ट्वा सा परिहासं कुर्वत्यासीत् । एतदभिलक्ष्य सिद्धार्थस्तत्रैव स्थिरीभूय स्पष्टतया श्रवणार्थं किञ्चिन्नतो जातः । एवंकरणेन च तस्य मुखं शान्ततया प्रवहमाने जले प्रतिबिम्बितम् । तत्र च प्रतिबिम्बे तादृशं किञ्चिदासीत् यत् तस्य विस्मृतं किञ्चिद् वस्त्वस्मारयत् । यदा च स सम्यगालोचनं कृतवांस्तदा स तत् सम्यक्तया स्मृतवान् । तस्य वदनं कस्यचनाऽन्यजनस्य वदनमनुहरति स्म यं स एकदा सम्यग् ज्ञातवान्, तद्विषये च प्रेम भयं चाऽप्यनुभूतवानासीत् । स जन आसीत् तस्य ब्राह्मणः पिता । स स्मृतवान् यत् कथं स श्रामण्यग्रहणार्थ
१४७