________________
युवजनाकर्षणार्थं च क्रियमाणा औत्सुक्यपूर्णाः प्रयत्ना आसन् । एते सर्वेऽपि क्षुल्लकाः सामान्याः मूर्खतापूर्णाश्चाऽप्यत्यन्तं बलवन्त उत्कटाः सचेतनाश्चाऽऽवेगा मनोरथाश्चेदानीं सिद्धार्थस्य तुच्छतया न प्रतिभान्ति स्म । एतेषामावेगानां मनोरथानां च पूरणार्थं जना जीवन्ति, अतिमहतः प्रयत्नान् कुर्वन्ति, प्रवसन्ति, युध्यन्ते, अतिमात्रेण सहन्ते तितिक्षन्ते चेति निरीक्षितवान् स एतदर्थं तान् प्रीणाति स्म, यतः स तेषां मनोरथेष्वावश्यकतासु च जीवनं, चैतन्यमविनश्वरं च ब्रह्म पश्यति स्म । सोऽचिन्तयद् यदेते जना हि तेषामन्धानुरागवत्त्वाद् अन्धपराक्रमाद् आग्रहवत्त्वाच्चाऽपि प्रेमपात्राणि प्रशंसास्पदानि च सन्ति । कस्यचित् तत्त्वविदश्चिन्तकस्य वा सकाशे यत् स्यात् तत् सर्वमपि केवलमेकं लघुमपवादं विहायैतेषां पार्वेऽप्यासीदेव। तच्चाऽऽसीत् सर्वेषामपि जीवानामैक्यबोधः । किन्तु, बहुशः सिद्धार्थोऽचिन्तयद् यत् - 'किमेतादृशो बोधो विचारो वा बहु मूल्यमर्हति खलु ? किमेतच्चिन्तनं चिन्तकानां बालिशाऽऽत्मप्रशंसा नाऽऽसीत् खलु, ये किल केवलं विचारयन्तो बालका एव सन्ति ? सामान्या जना हि सर्वेष्वप्यन्येषु विषयेषु एतेषां चिन्तकानां तुल्या एवाऽऽसन्, कदाचिच्चैतेभ्यः श्रेष्ठा अपि; यथा हि पशवः कदाचित् आवश्यकतायां सत्यां तेषां दृढास्वविचलितासु क्रियासु मनुष्येभ्योऽपि श्रेष्ठाः दृश्यन्ते, तथा !।
सिद्धार्थहृदये – काऽस्ति वा शुद्धा प्रज्ञा ? किमस्ति च मम सुदीर्घान्वेषणस्य ध्येयम् ? - इत्यधिकृत्य ज्ञानं शनैः शनैः प्रवर्धमानं क्रमशः परिपक्वं जातम् । तेनाऽनुभूतं यदेतद्धि केवलं सर्वेष्वपि जीवेषु प्रतिक्षणमात्मौपम्यस्याऽनुभवनं श्वसनं साक्षात्करणं तदर्थं च स्वस्य प्रगुणीकरणं सामर्थ्यप्रापणं चाऽस्ति । एतच्चिन्तनं तस्मिन् शनैः शनैः परिणतं जातम् । एतस्य च
१४६