________________
सा शल्यवेदना चिराय सिद्धार्थहदि पर्यस्पन्दत । सिद्धार्थो हि बहून् सापत्यान् यात्रिकान् नदीपारं प्रापयत्, किन्तु प्रत्येकं वारं तस्य तेषां यात्रिकानामीणूं भवति स्म । स चिन्तयति स्म यद् - 'एतावन्तो जनाः पुत्रसुखेन सुखिताः सन्ति, केवलमहमेव किमर्थं तत्सुखाद् रहितोऽस्मि ? किञ्च, दुरात्मानश्चौराः लुण्टाकाश्चाऽपि सन्तानानि धारयन्ति, प्रेम्णा पालयन्ति, तेषां स्नेहमपि च प्राप्नुवन्ति, नवरं मया विना' । एवं चाऽत्यन्तं बालिशतयाऽतार्किकतया वितर्कान् कुर्वन् सोऽधुना प्राकृत-जनवदाचरति स्म।
स इदानीं जनैः सहाऽन्ययैव विधया व्यवहरति स्म । नाऽत्यन्तं चातुर्येण, नाऽपि गर्वेण, परन्तु सर्वथोष्मपूर्णेन कुतूहलपूर्णेन सहानुभूतिपूर्णेन च व्यवहारेण व्यवहरति स्म । इदानीं, यदा स सामान्यान् वणिक्-सैनिक-महिलादीन् यात्रिकान् नदीपारं नयति स्म तदा ते तस्य पूर्ववत् परे अपरिचिता वा नैव भासन्ते । यद्यपि स तेषां विचारान् अभिप्रायान् वा नैवाऽवबुध्यन्ते स्म तथाऽपि तैः सह जीवनस्योद्देशान् मनोरथांश्चाऽधिकृत्य संवादं करोति स्म । यद्यपि स स्वात्मसंयमस्योच्चावस्थां समासादितवानासीत् स्वीयमन्तिमं व्रणमपि च सुतरां सहित्वा पक्वो जात आसीत्, तथाऽपि स इदानीमेतान् सामान्यजनानपि स्वजनत्वेनैव पश्यति स्म । तेषां मिथ्याभिमानस्तृष्णास्तुच्छतादयश्चेदानीं तस्याऽसङ्गता न प्रतिभान्ति स्म, प्रत्युत ते जनास्तस्य सद्भावयोग्याः प्रेम्ण आदरस्याऽश्चि प्रतिभाताः । तेषु जनेषु कस्यचन स्वापत्यं प्रति मोहान्ध्यं, कस्यचित् तु स्वस्यैकमात्रं पुत्रमधिकृत्य मौर्यपूर्णो गर्वः, कस्याश्चन च यौवनोद्धताया युवत्या अलङ्काराद्यर्थं
१४५