________________
३३१
योगसारः ४/९
द्विविधः कामः
- अन्वयः - चित्तनिग्रहकारिणं च कञ्चित् मुनिवीरं विना जगत्त्रयैकमल्लः कामः केन विजीयते ? ॥९॥
पद्मीया वृत्ति: - चित्तनिग्रहकारिणम् - चित्तस्य- मनसों निग्रहः - नियन्त्रणं कर्तुं शीलमस्येति चित्तनिग्रहकारी, तम्, चशब्दः पूर्वश्लोकापेक्षया समुच्चये, कञ्चित् विरलम्, मुनिवीरम् - मुनिषु साधुषु वीरः - पराक्रमीति मुनिवीरः, तम्, विना ऋते, जगत्त्रयैकमल्लः - जगताम् ऊर्ध्वाधस्तिर्यग्लोकानां त्रयम्-त्रयाणां समूह इति जगत्त्रयम्, तस्मिन्नेकः-अद्वितीयो मल्लः- योध इति जगत्त्रयैकमल्लः, कामः मन्मथः, केन सात्त्विकमुनिव्यतिरिक्तेन, विजीयते पराभूयते ? न केनचिदपीत्यर्थः।
-
-
कामो द्विविधः, तद्यथा - असम्प्राप्तः सम्प्राप्तश्च । तत्र असम्प्राप्तः कामः कामिनां विरहसम्भवः । स दशविधः । सम्प्राप्तः कामः कामिनां परस्परसङ्गसम्भवः । स चतुर्दशविधः । उक्तञ्च श्रीप्रवचनसारोद्धारे तद्वृत्तौ च "कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो । चउदसहा संपत्तो दसहा पुण होअसंपत्तो ॥ १०६२ ॥ तत्थ असंपत्ते त्था १ चिंता २ तह सद्ध ३ संभरण ४ मेव | विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ तब्भावो ९ ॥१०६३॥ मरणं च होइ दसमे १० संपत्तंपि य समासओ वोच्छं । दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥ १०६४॥ हसिय ४ ललिओ ५ वगूहिय ६ दंत ७ नहनिवाय ८ चुंबणं ९ चेव । आलिंगण १० मादाणं ११ कर १२ सेवण १३ ऽणंगकीडा १४ य ॥ १०६५ ॥ वृत्तिः - कामश्चतुर्विंशतिविधःचतुर्विंशतिभेदो भवति, तत्र प्रथमं तावत्सामान्येन द्विधा - सम्प्राप्तः - कामिनामन्योऽन्यं सङ्गमसमुत्थ:, तथा असम्प्राप्तश्च विप्रलम्भस्वरूपः, तत्र सम्प्राप्तश्चतुर्दशधा
શબ્દાર્થ - અને ચિત્તનો નિગ્રહ કરનારા કોઈક વીર મુનિ વિના ત્રણ જગતમાં એકમાત્ર મલ્લ એવો કામ કોના વડે જિતાય છે ? (૯)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - કામ બે પ્રકારના છે. તે આ પ્રમાણે - અસંપ્રાપ્ત અને સંપ્રાપ્ત. અસંપ્રાપ્ત કામ કામીઓને વિરહથી થાય છે. તે દશ પ્રકારનો છે. સંપ્રાપ્ત કામ કામીઓને એકબીજાના સંગથી થાય છે. તે ચૌદ પ્રકારનો છે. શ્રીપ્રવચનસારોદ્ધારમાં અને તેની ટીકામાં કહ્યું છે - ‘કામના ૨૪ પ્રકાર છે. તે સામાન્યથી બે પ્રકારે છે – (૧) સંપ્રાપ્ત અને (૨) અસંપ્રાપ્ત. એમાં કામીઓના પરસ્પર મેળાપથી જે કામ થાય તે સંપ્રાપ્તકામ, વિયોગરૂપ અસંપ્રાપ્તકામ. સંપ્રાપ્તકામ ૧૪ પ્રકારનો
-