________________
५५०
धर्मादृते सर्वे विघटन्ते योगसारः ५/२९ निययावि निययकज्जे, विसंवयंतम्मि हुति खरफरुसा । जह रामसुभूमकओ, बंभक्खत्तस्स आसि खओ ॥१५१॥ (छाया - माता पिता च भ्राता, भार्या पुत्राः सुहृदश्च निजकाश्च । इहैव बहुविधानि, कुर्वन्ति भयवैमनस्यानि ॥१४४॥ माता निजकमतिकल्पिते अर्थे अपूर्यमाणे । पुत्रस्य करोति व्यसनं, चुलनी यथा ब्रह्मदत्तस्य ॥१४५।। सर्वाङ्गोपाङ्गविकतनाः कदर्थनविहेठनाश्च । अकार्षीत् च राज्यतृषितः, पुत्राणां पिता कनककेतुः ॥१४६॥ विषयसुखरागवशकः, घोरो भ्राताऽपि भ्रातरं हन्ति । आधावितो वधार्थं, यथा बाहुबलेर्भरतपतिः ॥१४७॥ भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा स प्रदेशिराजः, सूर्यकान्तया तथा वधितः ॥१४८॥ शाश्वतसौख्यतरस्वी, निजकाङ्गसमुद्भवेन प्रियपुत्रः । यथा स श्रेणिकराजः, कोणिकराजेन क्षयं नीतः ॥१४९।। लुब्धाः स्वकार्यत्वरिताः, सुहृदोऽपि विसंवदन्ति कृतकार्याः । यथा चन्द्रगुप्तगुरुणा, पर्वतको घातितो राजा ॥१५०॥ निजका अपि निजककार्ये, विसंवदति भवन्ति खरपरुषाः । यथा रामसुभूमकृतो, ब्रह्मक्षत्रस्य आसीत् क्षयः ॥१५१॥) जीवः स्वजनान् स्वकीयान्मन्यते । स पापव्यापारान्कृत्वा तान्पोषयति । स्वार्थे निष्ठिते त एव स्वजनाः परकीया भवन्ति । उक्तञ्च वैराग्यशतके - 'विहडंति सुआ विहडंति, बंधवा वल्लहा य विहडंति । इक्को कहवि न विहडइ, धम्मो रे जीव ! जिणभणिओ ॥१२॥' (छाया - विघटन्ते सुता विघटन्ते, बन्धवा वल्लभाश्च विघटन्ते । एकः कथञ्चिदपि न विघटते, धर्मः रे जीव ! जिनभणितः ॥१२॥) यथा सन्ध्यासमये वृक्षे पक्षिणो मीलन्ति यथा च मार्गे पान्था मीलन्ति तथाऽस्मिञ्जगति जीवानां परस्परं सम्बन्धा जायन्ते । उक्तञ्च-वैराग्यशतके - 'जह संझाए सउणाण, संगमो जह पहे य पहियाणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! સ્વજનો પણ કર્કશ થઈ જાય છે, જેમ પરશુરામ અને સુભૂમને લીધે બ્રાહ્મણો અને ક્ષત્રિયોનો ક્ષય થયો તેમ.” (૧૪૪-૧૫૧) જીવ સ્વજનોને પોતાનાં માને છે. તે પાપો કરીને તેમને પોષે છે. સ્વાર્થ સરતાં તે જ સ્વજનો પારકા થઈ જાય છે. વૈરાગ્યશતકમાં કહ્યું છે કે – “દીકરાઓ દૂર થાય છે, ભાઈઓ દૂર થાય છે અને પ્રિયજનો દૂર થાય છે. હે જીવ ! જિનેશ્વર ભગવાને કહેલ ધર્મ એક જ ક્યારેય દૂર થતો નથી. જેમ સાંજે વૃક્ષ ઉપર પંખીઓ ભેગા થાય છે અને જેમ માર્ગમાં મુસાફરો ભેગા થાય છે, તેમ આ જગતમાં જીવોના એકબીજા સાથે સંબંધો થાય છે. વૈરાગ્યશતકમાં કહ્યું છે કે - “હે જીવ! જેમ સંધ્યાએ પક્ષીઓનો અને જેમ માર્ગમાં મુસાફરોનો ક્ષણભંગુર