Book Title: Yogsar Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ग्रन्थप्रकाशकप्रशस्तिः
(वसन्ततिलका)
तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ॥७॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः ।
पन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८॥ सर्वाधिकश्रमणसार्थपतिर्मतीशः पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' यशसा जयतीह चोच्चैः ॥९॥ सद्बुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः
,
६६५
-
॥१०॥
कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव - श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधनाट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430