________________
प्रथमोऽनुकूलतर्कः
योगसार: ४/३२
मूलम् - एवमेव सुखेनैव, सिध्यन्ति यदि 'कौलिकाः । तद्गृहस्थादयोऽप्येते, किं न सिध्यन्ति कथ्यताम् ॥३२॥
४०२
अन्वयः यदि एवमेव सुखेनैव कौलिकाः सिध्यन्ति तदेते गृहस्थादयोऽपि किं न सिध्यन्ति (इति) कथ्यताम् ||३२||
-
पद्मीया वृत्तिः - यदि - सम्भावने, एवमेव सत्त्वं विनैव, सुखेन - अनायासेन, एवशब्द आयासेन मुक्तिप्राप्तिं व्यवच्छिनत्ति, कौलिका:- हीनसत्त्वा मुनयः सिध्यन्ति मुक्ति प्राप्नुवन्ति, तद् - तर्हि, एते - बुद्धौ प्रत्यक्षेण भासमानाः, गृहस्थादयः गृहस्था:-अगारिण आदौ येषां दीनानाथ - द्रमक - पश्वादीनामिति गृहस्थादयः, अपिशब्दः कौलिकास्तु सिध्येयुः, गृहस्थादयोऽपि सिध्येयुरिति द्योतयति, किम् - कथम्, नशब्दः निषेधे, सिध्यन्ति - मुक्तिपुरीं यान्ति, 'इति' इत्यत्राध्याहार्यम्, कथ्यताम् - ब्रूयताम् ।
सात्त्विका एव मुक्ति प्राप्नुवन्ति । हीनसत्त्वास्तु मुक्त्यर्थं न प्रयतन्ते । ते मुनिवेषेण सर्वा अप्यैहिकानुकूलताः पूरयन्ति । ततस्ते सिद्धिं न प्राप्नुवन्ति । यदि तेऽपि साधनां विना मुक्ति प्राप्नुयुस्तर्हि मुक्तिगमनाय सत्त्वमावश्यकं न स्यात्, मुक्तिगमनाय साधनाऽप्यावश्यकी न स्यात् । इत्थं यदि सत्त्वं साधनां च विनाऽपि मोक्षः स्यात्तर्हि सर्वेऽपि जीवा मोक्षं प्राप्नुयुः, यतो जीवाः प्रायशः सत्त्वहीनाः सुखप्रियाश्च सन्ति । ते साधनाया नाम्नाऽपि त्रस्यन्ति । तेऽनुकूलतामेवाभिलषन्ति । ततस्ते सर्वेऽपि मोक्षं
શબ્દાર્થ - જો એમને એમ જ સુખેથી અલ્પસત્ત્વવાળા મુનિઓ સિદ્ધ થાય તો आा गृहस्थो पए। प्रेम सिद्ध न थाय ? से हो. ( 32 )
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - સાત્ત્વિક જીવો જ મોક્ષ પામે છે. અલ્પસત્ત્વવાળા તો મોક્ષ માટે પ્રયત્ન કરતાં નથી. તેઓ સાધુના વેષથી બધી ય આલોક સંબંધી અનુકૂળતાઓ પૂરે છે. તેથી તેઓ મોક્ષ પામતાં નથી. જો તેઓ પણ સાધના વિના મોક્ષ પામે તો મોક્ષે જવા માટે સત્ત્વ જરૂરી ન રહે, મોક્ષે જવા માટે સાધના પણ આવશ્યક ન રહે. આમ જો સત્ત્વ અને સાધના વિના પણ મોક્ષ થાય તો બધા ય જીવો મોક્ષ પામે, કેમકે મોટા ભાગના જીવો અલ્પસત્ત્વવાળા અને સુખપ્રિય છે. તેઓ સાધનાના નામથી પણ ડરે છે. તેઓ માત્ર અનુકૂળતાને જ ઝંખે છે. તેથી તે १. कोलिका A, CI