________________
३९४
यावदैश्वर्यं नार्थ्यते तावत्सम्मुखमायाति योगसारः ४/२८,२९ अवतरणिका - मूढबुद्धिर्मुनिः स्वं चारित्रैश्वर्यसम्पन्नं न जानाति । ततः स यथा चेष्टते तत् श्लोकद्वयेनाह - मूलम् - नार्थ्यते यावदैश्वर्यं, तावदायाति सम्मुखम् ।
यावदभ्यर्थ्यते तावत् - पुनर्याति पराङ्मुखम् ॥२८॥ अधैर्यादविचार्येद-मिच्छाव्याकुलमानसः । हा हा हेति तदर्थं 'स, धावन्धावन्न खिद्यते ॥२९॥
॥ युग्मम् ॥ अन्वयः - यावदैश्वर्यं नार्थ्यते तावत्सम्मुखमायाति, पुनर्यावदभ्यर्थ्यते तावत्पराङ्मुखं याति-इदमधैर्यादविचार्येच्छाव्याकुलमानसस्तदर्थं हा हा हेति धावन् धावन्स न खिद्यते ॥२८॥ ॥२९॥
पद्मीया वृत्तिः - यावत् - यावन्तं कालं यावत्प्रमाणं वा, ऐश्वर्यम् - विभूतिः, नशब्दो निषेधे, अर्थ्यते - अभिलष्यते, तावत् - तावन्तं कालं तावत्प्रमाणं वा, सम्मुखम् - अभिमुखम्, आयाति - आगच्छति, पुनःशब्दः किञ्चार्थे, यावत् - यावन्तं कालं यावत्प्रमाणं वा, अभ्यर्थ्यते - इष्यते, तावत् - तावन्तं कालं तावत्प्रमाणं वा, पराङ्मुखम् - दूरं, याति - गच्छति, इदं - ऐश्वर्यप्रार्थयितुरैश्वर्यस्य दूरीभवनमैश्वर्यत्यक्तुश्चैश्वर्यस्य सम्मुखीभवनमिति नियमद्वयम्, अधैर्यात् - सम्भ्रमात्, अविचार्य - अविचिन्त्य, इच्छाव्याकुलमानसः - इच्छया-स्पृहया व्याकुलं-व्यग्रं मानसम्-मनो यस्येतीच्छाव्याकुलमानसः, तदर्थम् - ऐश्वर्यार्थम्, हा हा हेति - अतिशयेन, धावन्धावन् - पुनः पुनः
અવતરણિકા - મૂઢબુદ્ધિવાળો મુનિ પોતાના ચારિત્રરૂપી ઐશ્વર્યને જાણતો નથી. તેથી તે જે રીતે ચેષ્ટા કરે છે, તે બે શ્લોકમાં બતાવે છે –
શબ્દાર્થ - જ્યાં સુધી કે જેટલા ઐશ્વર્યની પ્રાર્થના કરાતી નથી ત્યાં સુધી કે તેટલા તે સામે આવે છે, વળી જ્યાં સુધી કે જેટલા તેની પ્રાર્થના કરાય છે ત્યાં સુધી કે તેટલા તે પાછા જાય છે – આ વાતને અધિરાઈથી વિચાર્યા વિના ઇચ્છાથી વ્યાકુળ भनवाणो मुनि तेनी (मैश्वर्यन) भाटे पूरा होउतi ५९ थातो नथ. (२८,२८) १. सन्मुखम् - C, F। २. च - CI