________________
३८९
योगसारः ४/२६ मुनिः प्रशान्तो निरीहः सदानन्दश्च मूलम् - प्रशान्तस्य निरीहस्य, सदानन्दस्य योगिनः ।
इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः 'किमुतापरे ? ॥२६॥ अन्वयः - प्रशान्तस्य निरीहस्य सदानन्दस्य योगिनस्ते इन्द्रादयोऽपि रङ्कप्रायाः स्युः, अपरे किमुत ? ॥२६॥
पद्मीया वृत्तिः - प्रशान्तस्य - समताभाजः, निरीहस्य - स्पृहारहितस्य, सदानन्दस्य - सदा-नित्यमानन्दः-प्रमोदो यस्येति सदानन्दः, तस्य, योगिनः - योगसमाराधकस्य मुनेः, ते - लोकप्रसिद्धा उच्चैःपदं प्राप्ताः, इन्द्रादयः - इन्द्रः-देवाधिपतिरादौ येषां चक्रवर्ति-वासुदेवादीनामितीन्द्रादयः, अपिशब्दो अन्ये तु रङ्कप्राया एव, इन्द्रादयोऽपि रङ्कप्राया इति द्योतयति, रङ्कप्रायाः - द्रमकतुल्याः, स्युः - भवेयुः, अपरे – इन्द्रादिव्यतिरिक्ताः, किमुत - किं द्रमकतुल्या न स्युः, सुतरां स्युरित्यर्थः ।
मुनिः प्रशान्तो भवति । तस्य कषायाग्निनिर्वातः । परीषहोपसर्गापद्विघ्नेभ्य: स कषायाऽऽविष्टो न भवति । स सर्वप्रसङ्गेषु समीभूय प्रवर्तते । तस्य समता कदाचिदपि न विचलति । स प्रशमानन्दमग्नो भवति । मुनिनिःस्पृहो भवति । स्पृहाकरणेन नरो यावत्स्पृहाविषयो न प्राप्यते तावद्दुःखी भवति । तत्प्राप्त्यनन्तरमपि तस्य स्पृहा न निवर्त्तते, परन्तु वर्धते एव । ततः पुनः स स्पृहाविषयस्य प्राप्तिं यावद्दुःखी भवति । तत्प्राप्त्यनन्तरं पुनस्तस्य स्पृहा वर्धते । एवंक्रमेण स्पृहायाः कदाचिदपि निवृत्तिर्न भवति । ततः स्पृहाकुलो
શબ્દાર્થ - પ્રશાંત, ઇચ્છા વિનાના, સદા આનંદવાળા યોગીની આગળ તે ઈન્દ્ર વગેરે પણ રંક જેવા છે, તો બીજાનું શું કહેવું? (૨૬)
પવીયાવૃત્તિનો ભાવાનુવાદ - મુનિ પ્રશાંત હોય છે. તેનો કષાયાગ્નિ બુઝાઈ ગયો હોય છે. પરીષહ-ઉપસર્ગ-આપત્તિ-વિઘ્નોને લીધે તે કષાયવાળો થતો નથી. તે બધે સમાન થઈને પ્રવર્તે છે. તેની સમતા ક્યારેય ચલિત થતી નથી. તે પ્રશમના આનંદમાં ડૂબેલો હોય છે. તે સ્પૃહા વિનાનો હોય છે. સ્પૃહા કરવાથી જયાં સુધી સ્પૃહાનો વિષય ન મળે ત્યાં સુધી માણસ દુઃખી થાય છે. તે મળી જાય પછી ફરી તેની સ્પૃહા વધે છે. આમ ક્યારેય પણ સ્પૃહા અટકતી નથી. માટે સ્પૃહાવાળો
१. किमुताऽपराः - MI