Page #1
--------------------------------------------------------------------------
________________
शास्त्रविशारदजैनाचार्यश्रीविजयधर्ममूरिगुरुभ्यो नमः ।
॥ अहम् ।। श्रीयशोविजयजैनग्रन्थमाला [३०]
विशेषावश्यकभाष्यम् ।
( सप्तमो विभागः)
agorge610000000000000000000NORLS
राजधन्यपुरनिवासिना श्रेष्ठिवर्य-त्रिकमचन्द्रतनुजनुषा न्यायतीर्थ-पण्डितहरगोविन्ददासेन संशोधितम् ।
Published by Shah Harakhchand Bhurabhai, and Printed by Canga Prasad Gupta, at his Art Printing Works,
BENARES CITY.
वीरसंवत् २४४०।
N
Jan Education International
Focsand Private Use Only
www.janetbrary.org
Page #2
--------------------------------------------------------------------------
________________
Jan Education International
For Personal and Price Use Only
Page #3
--------------------------------------------------------------------------
________________
विशेषा०
॥१२०१॥
RRORG
तो कहमिहेव भणियं उवउत्ता दसणे य नाणे य? । समुदायवयणेमयं उभयनिसेहो य पत्तयं ॥३०९९॥
यदि न युगपदुपयोग इष्यते, तत आचार्य ! कथमिव भणितम् ?- तथाचेहैव भणिष्यतीत्यर्थः । किं तत् ? इत्याह- 'उवउत्ता दसणे य नाणे य त्ति' दर्शने ज्ञाने च युगपदुपयुक्ता इह किल भणिता इति परस्याभिप्रायः । अयं च मिथ्याभिमानापहृतसद्धोधकत्वात् कदभिप्राय एवेति दर्शयति- 'समुदायवयणमेयं ति' समुदायविषयमेवेदम्- न तु युगपदुपयोगपतिपादनपरमित्यर्थः । अनन्ता हि सिद्धाः, तत्समुदाये च 'केऽपि ज्ञान उपयुक्ताः, केचित्तु दर्शने' इत्ययमत्रार्थः। प्रत्येकविवक्षायां पुनः पत्तयावरणत्तं' इत्याद्यभिहितयुक्तयुगपभयोपयोगनिषेध एव मन्तव्य इति ।। ३०१९ ॥
पुनरपि प्रेर्य-परिहारौ माह
जमपज्जंताई केवलाई तेणोभओवओगो त्ति । भण्णइ नायं निअमो संतं तेणोवओगो त्ति ॥ ३१.०॥
साद्यपर्यवसितत्वाद् यस्मादपर्यन्ते अविनाशिनी सदावस्थिते केवलज्ञान-दर्शने, तेन तस्माद् युगपदुपयोग इष्यतेऽस्माभिः । इह हि यद् बोधस्वभावं सदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमंत्र, अन्यथोपलशकलकल्पत्वेन बोधस्वभावत्वानुपपत्तेः, सदोपयोगे च योर्युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः । आचार्य आह- भण्यतेऽत्रोत्तरम्- नायं नियमः, सर्वदा यल्लब्धिमाश्रित्य सद् विद्यमानं केवलज्ञानं केवलदर्शनं च, तेन तयोरुपयोगेनापि सर्वदा भवितव्यमिति ।। ३१०० ॥
कुतः पुनर्नायं नियमः ? इत्याहठिइकालं जह सेसदसण-नाणाणमणुओगे वि । दिट्ठमवत्थाणं तह न होइ कि केवलाणं पि ? ॥३१.१॥
यथा केवलज्ञान-दर्शनाभ्यां शेषाणि यानि ज्ञानानि दर्शनानि च तेषां निजनिजस्थितिकालं यावदनुपयोगेऽपि उपयोगाभावेऽपि सत्त्वस्यावस्थानं दृष्टम् , तथा केवलज्ञान-दर्शनयोरपि निजस्थितिकालं यावदनुपयोगेऽपि सत्त्वस्यावस्थानं किमिति न भवति ? । भवति चेत् , तर्हि 'सतो ज्ञानस्य दर्शनस्य चोपयोगेन भवितव्यम्' इत्यनैकान्तिकमेव । इयमत्र भावना-शेषज्ञान-दर्शनानां
॥१२०१५
, ततः कथमिहैव भणितमुपयुक्ता दर्शने च ज्ञाने च । समुदायवचनमेतदुभयनिषेधश्च प्रत्येकम् ॥ ३०९९ ॥ २ ज. 'मियं' ३ गाथा ३०९३ । ४ यदपर्यन्ते केवले तेनोभयोपयोग इति । भण्यते नायं नियमः सत् तेनोपयोग इति ॥ ३१.०॥
५ स्थितिकालं यथा शेषदर्शन-ज्ञानयोरनुपयोगेऽपि । दृष्टमवस्थानं तथा न भवति किं केवलयोरपि ॥21.1॥
Jan L
inea
For Personal and
Use Only
Page #4
--------------------------------------------------------------------------
________________
विशेषा०
॥१२०२॥
भज्ञापनायां कायस्थिती दीर्घस्थितिकाल उक्तः, तद्यथा- "मइनाणी णं, भंते ! मइनाणि ति कालओ केचिरं होइ ? । गोयमा ! जहन्नेणं अतोमुत्तेणं, उक्कोसेणं छावहि सागरोवमाइं साइरेगाई। एवं सुयनाणी वि । ओहीनाणी वि एवं चेव, नवरं जहन्नणं एक समयं । मणपज्जवनाणी जहन्नेणं एक समयं, उक्कोसेणं देणं पुब्बकोर्डि (यदा विभङ्गज्ञानं सम्यक्त्वलाभे समयमेकमवधिज्ञानं भूत्वा प्रतिपतति तदावधिज्ञानस्य जघन्यतः समयं स्थितिकालो मन्तव्यः, मनःपर्यायज्ञानस्य तूत्पत्त्यनन्तरं तदतो मरणादिति) चक्खुदंसणी जहन्नेणं अन्तोमुहुत्तं, उक्कोसेणं सागरोवमसहस्सं साइरेगं । अचक्खुदंसणी अणाइए वा सपज्जवसिए, अणाइए अपजवसिए वा । ओहिदसणी जहा ओहिनाणि ति" इति । तदेवमतेषां निजनिजस्थितिकालं यावत् सत्त्वमुक्तम् , उपयोगस्वान्तौहूर्तिकत्वाद् नैतावन्तं कालं भवति । अतः 'सतोऽवश्यमुपयोगेन भवितव्यम्' इति कथं नानैकान्तिकम् ? । अथ लब्धित एवैतान्येतावन्तं कालं भवन्ति, न तु बोधात्मनेति चेत् । तदिदं हन्त ! केवलज्ञान-दर्शनयोरपि समानम् , तयोरपि लब्धित एवापर्यन्तत्वात् । उपयोगतस्तु सामयिकत्वादिति ॥ ३१०१ ॥
पुनरप्यतिखाग्रहग्रस्तत्वात् परः प्राहनणु सनिहणत्तमेवं मिच्छावरणक्खओ त्ति व जिणस्स । इयरेयरावरणया अहवा निक्कारणावरणं ॥३१०२॥ एगयराणुव उत्ते तदसवन्नु-दरिसणत्तण न तं च । भण्णइ छ उमत्थस्स वि समाणमेगन्तरे सव्वं ॥३१०३॥
व्याख्या- ननु यद्यकस्मिन् समये केवलज्ञानोपयोगः, अन्यस्मिस्तु समये केवलदर्शनोपयोग इष्यते, तवं क्रमोपयोगत्वे केवलज्ञान-दर्शनयोः सनिधनत्वं प्रतिरूमय सान्तत्वं प्रामीति । तथा च सति तयोः समयोक्तमपर्यवासितत्वं हीयत । अथवा, यः कष्टशतानि कृत्वा ज्ञानावरणादिक्षयो विहितः स मिथ्या निरर्थको जिनस्य भगवतः प्रामाति, समयात् समयावं केवलज्ञान-दर्शनोपयोगयोः पुनरप्यभावात् । न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाशं प्रकाशयतः । अथवा, केवलज्ञान-दर्शनयो
मतिज्ञानी, भगवन् ! मतिज्ञानीति कालतः कियधिरं भवति ? । गौतम! जघन्येनान्तर्महर्तमुत्कर्षेण षष्टिं सागरोपमाणि सातिरेकाणि । एवं श्रुतज्ञाम्पपि । अवधिज्ञान्यप्येवमेव, नवरं जघन्यनै समयम् , उत्कर्षेण देशोनां पूर्वकोटिम् । चक्षुदर्शनी जघन्येनान्तर्मुहूर्तम् , उत्कर्षण सागरोपमसहस्रं सातिरेकम् । अचक्षुर्दर्शनोनादिको वा सपर्यवसितः, अनादिकोऽपर्यवसितो वा । अवधिदर्शनी यथाऽवधिज्ञानाति ।
२ ननु सनिधनत्वमेवं मिथ्यावरणक्षय इति वा जिनस्य । इतरेतरावरणताऽथवा निष्कारणावरणम् ॥ ३१०२ ॥ एकतरानुपयुक्त तदसर्वश-दर्शनत्वं न तच्च । भण्यते छद्मस्थस्यापि समानमेकान्तरे सर्वम् ॥ ३१०३ ॥
Recee
॥१२०२।।
For Personal and
Use Only
ROMww.jainelibrary.org
Page #5
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२०३॥
Jain Education Internati
रितरेतरावरणता परस्परमावारकत्वं प्राप्नोति, कर्मावरणाभावेऽप्यन्यतरसद्भावेऽन्यतराभावादिति । अथेतरेतरावरणता नेष्यते, तर्ह्यन्यतरोपयोगकालेऽन्यतरस्य निष्कारणमेवावरणं स्यात् । तथा च सति 'नित्यं सचमसच्चं वा' इत्यादि प्रसज्यत इति । तथा, एकतरस्मिन् ज्ञाने दर्शने वानुपयुक्तस्तस्मिन्नेक तरानुपयुक्तं केवलिनीष्यमाणं ज्ञानानुपयोगकाले तस्य केवलिनोऽसर्वज्ञत्वं प्राप्नोति, दर्शनानुपयोगकाले त्वसर्वदर्शित्वं प्रसजति । अनुस्वारह लुप्तो द्रष्टव्यः । तच्च सर्वज्ञत्वम सर्वदर्शित्वं च नेष्टं जैनानाम्, सर्वदेव केव लिनि सर्वज्ञत्व सर्वदर्शित्वाभ्युपगमादिति । सूरिराह- भण्यतेऽत्रोत्तरम् - ननु च्छद्मस्थस्यापि दर्शन- ज्ञानयोरेकान्तर उपयोगे सर्वमिदं दोषजालं समानमेव । अत्रापि हि शक्यत एव वक्तुम् ज्ञानानुपयोगे तस्याज्ञानित्वम् दर्शनानुपयोगे पुनरदर्शनित्वम् ; तथा मिथ्यावरणक्षयः, इतरेतरावरणता वा, निष्कारणावरणत्वं वेत्यादि ।। ३१०२ ।। ३१०३ ॥
पुनरप्यनिर्विण्णस्य परस्याशङ्कामाह
Horaणावरण अह मन्नास केवली न छउमत्थो । उभओवओगविग्घो तो छउमत्थस्स न जिणस्स ॥ ३१०४ ॥ अथैवं मन्यसे सर्वक्षणावरणः क्षपितनिःशेषावरणः केवली, न तु च्छद्मस्थः, ततो युगपज्ज्ञान- दशनाभयवियोगविघ्नश्छद्मस्थ स्यैव भवति, सावरणत्वात् न तु जिनस्य केवलिनः सर्वथा निरावरणत्वादिति ।। ३१०४ ।।
अत्रोत्तरमाह
देसक्खए अजुत्तं जुगवं कसिणोभओवओगित्तं । देसोभओवओगो पुणाइ पडिसिजए किं सो ? ॥ ३१०५ ॥
इह यद्यपि च्छद्मस्थः क्षीणनिःशेषावरणो न भवति, तथापि देशतस्तस्याप्यवरणक्षयो लभ्यते । ततस्तस्यावरणक्षये सति युगपत् कृत्स्नोभयोपयोगित्वं युगपत् सर्ववस्तुविषयज्ञान- दर्शनो भयोपयोग भवनमयुक्तम्, इत्येतावन्मात्रं मन्यामहे वयम् । यस्तु देशतोऽसवस्तुविषयज्ञान-दर्शन भयोपयोगः स हन्त ! 'से' तस्य च्छद्मस्थस्य किं प्रतिषिध्यते ?- न तु युक्तस्तत्प्रतिषेध इत्यर्थः । न चास्य युगपदुभयोपयोगो भवति, ततोऽसौ केवलिनोऽपि न युक्त इतीह भावार्थ: ।। ३१०५ ॥
पुनरपि पराशङ्कां परिहारं चाह --
१ सर्वक्षीणावरणोऽथ मन्यसे केवली न च्छद्मस्थः । उभयोपयोगविघ्नस्ततइउग्रस्थस्य न जिनस्य ॥ ३१०४ ॥ २ देशयेयुक्तं युगपत् कृत्स्नोभयोपयोगित्वम् । देशोभयोपयोगः पुनः प्रतिषिध्यते किं सः १ ॥ ३१०५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
||१२०३॥
Page #6
--------------------------------------------------------------------------
________________
विशेषा०
। १२०४ ॥
Jain Educator Internal
अह जम्मि नोवउत्तो तं नत्थि तओ न दंसणाइतिगे । अत्थि जुगवावओगोत्ति होउ साहू कहं विगलो ? ॥ ३१०६ ॥
अथैवं मन्यसे - क्रमोपयोगित्वेऽभ्युपगम्यमाने केवली यस्मिञ्ज्ञाने दर्शने वोपयुक्तस्तदस्ति, यस्मिंस्तु नोपयुक्तस्तत् तदा नास्त्येव, अनुपलभ्यमानत्वात्, खरविषाणवत् । ततस्तर्हि दर्शनादित्रि के दर्शन - ज्ञान - चारित्रत्रये छद्मस्थस्य साधोंर्युगपदुपयोगो नास्ति, छद्मस्थस्य युगपदुपयोगाभावस्य त्वयाभ्युपगतत्वात् । ततो दर्शनादित्रिके यत्राप्यनुपयुक्तस्तदपि त्वदभिप्रायेण नास्ति । अतस्तद्विकल एकेनापि दर्शनादिना रहितः कथं साधुर्भवतु ? - न प्राप्नोत्येव साधुत्वं तस्य त्वदभिप्रायेणेति भावः । भण्यते चासौ समये लोके सर्वदैव साधुः । ततो नेदमपि क्रमोपयोगे दूषणमिति ।। ३१०६ ॥
'यत्रानुपयुक्तस्तदसत्' इत्यत्र दूषणान्तराण्यप्याह-
ठिकालविसंवाओ नाणाणं न विय ते चउन्नाणी । एवं सइ छउमत्थो अस्थि न य तिदंसणी समए ॥ ३१०७॥
इह ज्ञानानां दर्शनानां चोपयोग आन्तमौहूर्तिक एव समये प्रोक्तः । तस्माच्च परतस्त्वदभिप्रायेण किल ज्ञानं दर्शनं वा नास्ति । एवं सति ज्ञानानामुपयोगलक्षणत्वाद् दर्शनानां च यः सातिरेकषट्षष्टिसागरोपमादिको दीर्घः स्थितिकालः समये प्रोक्तस्तस्य विसंवादो विघटनं प्रति । यश्च चतुर्ज्ञानी केवलदर्शनवर्जदर्शनत्रययुक्तत्वात् त्रिदर्शनी च च्छद्मस्थो गौतमादिः प्रसिद्धः सोऽपि त्वदभिप्रायेण तद्रूपः सर्वदा न भवति, एकदैकोपयोगस्यैव संभवात्, अनुपयोगवतश्चासत्त्वादिति ।। ३१०७ ।।
अथ सिद्धान्तावष्टम्भेन पुनरपि पर: माह
आह भणियं न सुए केवलिणो केवलोवओगेण । पढम त्ति तेण गम्मइ सओवओगोभयं तेसिं ॥ ३१०८ ॥
आह- ननु भणितं भगवत्यामष्टादशशतक प्रथमोद्देश लक्षणे श्रुते- ""केवली णं भन्ते ! केवलोवओगेणं किं पढमा अपढमा ? | गोमा ! पढमा नो अपढम त्ति" इति । इह च यो येन भावेन पूर्व नासीत्, इदानीं च जातः, स तेन भावेन प्रथम उच्यते । ततश्च केवलिनः केवलोपयोगेन प्रथमाः । अयमर्थ:- केवलयोः केवलज्ञान- केवलदर्शनयोरुपयोगः केवलोपयोगस्तेन केवलिनः प्रथमाः, न त्वप्रथ
१ अथ यस्मिन् नोपयुक्तस्तद् नास्ति ततो न दर्शनादित्रिके । अस्ति युगपदुपयोग इति भवतु साधुः कथं विकलः ? ॥ ३१०६ ॥
२ स्थितिकालविसंघादो ज्ञानानां नापि च ते चतुर्ज्ञानः । एवं सति च्छद्मस्थोऽस्ति न च त्रिदर्शनः समये ॥ ३१०७ ॥
३ आह भणितं ननु ते केवलिनः केवलोपयोगेन । प्रथमा इति तेन गम्यते सदोपयोगोभयं तेषाम् ॥ ३१०८ ॥
४ केवलिनो भगवन् ! केवलोपयोरोन किं प्रथमा अप्रथमाः ? गौतम ! प्रथमाः, नो अप्रथमाः ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२०४॥
Page #7
--------------------------------------------------------------------------
________________
माः, तस्याप्राप्तपूर्वस्वात् , पाप्तस्य च पुनर्वसाभावात् । तेन तस्मात् गम्यते ज्ञायते सदैवोपयोगोभयं तेषां प्रवर्तते । यदि पुनः क्रमेणोविशेषा
पयोगः स्यात् , तदा भूत्वा भूत्वा विनाशात् , पुनः पुनरपि चोत्पादात् , केवलोपयोगेनापथमत्वमपि तेषां भवेदिति भावः ॥ ३१०८ ॥
मूरिराह।।१२०५॥
उवओगग्गहणाओ इह केवलनाण-दसणग्गहणं । जइ तदणत्थंतरया हवेज सुत्तम्मि को दोसो ? ॥३१.९॥
- यदि 'केवलोवओगणं' इत्यत्रोपयोगग्रहणात् 'केवलयोरुपयोगः केवलोपयोगः' इति समासाक्षिप्तयोः केवलज्ञान-केवलदर्श| नयोग्रहणमिष्यते, तर्हि तदनन्तरता, तयोः केवलज्ञान केवलदर्शनयोरेकस्मादुपयोगादव्यतिरिक्तत्वात् परस्परमनन्तरता- ज्ञानं च
दर्शनं चैकमेव वस्तु, एकरूपभावादिति । परः पाह- 'सुत्तम्मि को दोसो त्ति' भवतु तयोरनर्थान्तरता, को ह्येवं सति 'केवलोवओगेगं' IR इति सूत्रे दोषः स्यात् - न कश्चित् , अस्माकं सिद्धसाधनादिति ।। ३१०९॥
आचार्यः माह- यदि दोषपरिज्ञाने तव कुतूहलम् , तर्हि शृणु तम् , इत्याह
तेग्गहणे किमिह फलं नणु तदणत्थंतरोवएसत्थं । तह वत्थुविसेसत्थं सयसो सुत्ताइं समयम्मि ॥३११०॥
नन्विह मूत्रे तयोः केवलयोग्रहणं तमिस्तद्ग्रहणे सति किं फलं सिध्यति- अनर्थान्तरत्वे सति किमर्थमुभयग्रहणम् ?, पुनरुक्तदोषप्रसङ्गादिति भावः। पर आह- तयोः केवलज्ञान-दर्शनयोः परस्परमनन्तरतोपदेशार्थमेवेदम् । तथा, वस्तुनः केवलस्य केवलज्ञान-केवलदर्शनपर्यायध्वनिभ्यां विशेषणार्थ चेदम् । एकमेव हि केवलवस्तु केवलज्ञान केवलदर्शनलक्षणपर्यायध्वनिद्वयेन विशेषितं । भवतीत्यर्थः । न केवलमिदं मयैवोच्यते, किन्त्वेकस्यैव वस्तुनोऽनेकपर्यायध्वनिभिर्विशेषणार्थं समये सिद्धान्तेऽपि सूत्राणि शतशोऽनेकशः सन्तीति ॥ ३११०॥
एतदेव पर उपदर्शयति
सिद्धो काइय-नोसंजयाइपज्जायओ स एवेगो । सुत्तेसु विसेसिज्जइ जहेह तह सव्ववत्थूाण ॥ ३१११ ॥
1 उपयोगग्रहणादिह केवलज्ञान-दर्शनग्रहणम् । यदि तदनर्धान्तरता भवत् सत्रे को दोषः ॥३१०९॥ २ तद्ग्रहणे किमिह फलं ननु तदनन्तरोपदेशार्थम् । तथा वस्तुविशेषार्थं शतशः सूत्राणि समये ॥३१॥ ३ सिद्धा-कायिक-नोसंयतादिपर्यायतः स एवैकः । सूत्रेषु विशेष्यते यथेह तथा सर्ववस्तूनि ॥ ३१॥
॥१२०५।
Jan Edo
Internal
For Personal and Price Use Only
Page #8
--------------------------------------------------------------------------
________________
विशेषा०
।।१२०६॥
Jain Education Internati
'सुत्तेसु विसेसिज्जइ जह त्ति' यथा तेषु तेषु सिद्धान्तसूत्रेषु स एवैको मुक्तात्मा सिद्धा ऽकायिक-नोसंयतादिपर्यायैर्विशेष्यते प्रतिपाद्यते । आदिशब्दाद् नोभव्य-नोबादर-नोपर्याप्त नोपरीत-नोसंज्ञि परिनिवृत्तादिपर्यायैरपि विशेष्य कचित् प्रतिपाद्यते । 'इह तह त्ति' तथेहापि क्षायिकज्ञानवस्त्वेकमेव केवलज्ञान- केवलदर्शनपर्यायध्वनिभ्यां विशेष्यते । एवमन्यान्यपि सर्वाणि पुरन्दर-पट-वृक्षादिवस्तूनि निजनिजपर्यायशब्दैः समये लोके च विशेष्यन्त एवेति क इह मद्वेषः १ इति ॥ ३१११ ।।
अथैवं सूरिः परं दुरभिनिवेशममुञ्चन्तमवलोक्य युगपदुपयोगद्वयपक्षं मूलत एवोन्मूलयितुं क्रमोपयोगसाधकं व्यक्तमेव सिद्धान्तोक्तमादर्शयन्नाह — भणियं पिय पन्नत्ती - पन्नवणाईसु जह जिणो समयं । जं जाणइ न वि पासइ तं अणु-रयणप्पभाईणि ॥ ३११२ ॥
ननुज्ञप्त्यां भगवत्याम्, प्रज्ञापनायां च स्फुटं भणितमेत्रोक्तमेव यथा- जिनः केवली परमाणु-रत्नप्रभादीनि वस्तूनि 'समयं जं जाणइ त्ति' यस्मिन् समये जानाति, 'न वि पासइ तं ति' तस्मिन् समये नैव पश्यति, किन्त्वन्यस्मिन् समये जानाति, अन्यस्मिंस्तु पश्यति । इयमत्र भावना - इह भगवत्यां तावदष्टादशशतस्याष्टमोदेशके स्फुटमेवोक्तम् ; तद्यथा- "छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं किं जाणइ न पास, उताहो न जाणइ न पासइ ? । गोयमा ! अत्थेगइए जाणइ, न पासइ; अत्थेगइए न जाणइ, न पास; एवं जाव असंखिज्जपएसिए खंधे (इद्द च्छद्मस्थो निरतिशय गृह्यते, तत्र श्रुतज्ञानी श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति श्रुते दर्शनाभावात्; अपरस्तु न जानाति न पश्यति) एवं ओहिए वि । परमोहिए णं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? | नो इण्डे समहे । से केण हेणं भंते ! एवं बुच्चइ ? । गोयमा ! सागारे से नाणं भवइ, अणगारे से दंसणे भवइ, तेण द्वेणं एवं बुच्चइ" इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते ? इति ।। ३११२ ।।
१ भणितमपि च प्रज्ञप्ति-प्रज्ञापनादिषु यथा जिनः समये । यस्मिन् जानाति न हि पश्यति तस्मिन्नणु-रखप्रभादीनि ॥ ३११२ ॥
२ छग्रस्थो भगवन् ! मनुष्यः परमाणुपुद्गलं जानाति न पश्यति उताहो न जानाति न पश्यति ? । गौतम ! अस्त्येको जानाति, न पश्यति अस्त्यैको न जानाति, न पश्यति एवं यावदसंख्येयप्रदेशिकान् स्कन्धान् । एवमवधावपि । परमावधिको भगवन्! मनुष्यः परमाणुपुद्गलं यस्मिन् समये जानाति तस्मिन् समये पश्यति यस्मिन् समये पश्यति तस्मिन् समये जानाति ? । नायमर्थः समर्थः । अथ केनार्थेन भगवन् ! एवमुच्यते ! । गौतम ! साकारं तस्य ज्ञानं भवति, अनाकारं तस्य दर्शनम् ; तेनार्थेनैवमुध्यते ॥
For Personal and Private Use Only
बृहद्वातिः ।
॥१२०६॥
Page #9
--------------------------------------------------------------------------
________________
विशेषा. ॥१२०७॥
बृहद्वत्तिः ।
तदेवं बुभुक्षिता जरगयीय बुशगृहे प्रविशन्ती निविडयुक्तिलगुडादिघातैर्निवार्यमाणापि परस्य दुराग्रहबुद्धिन निवर्तते । ततश्चक्षुषी निमील्य धृष्टतया पुनरप्याह
इवसद्द-मतुप्पच्चयलोवा तं केइ बिति छउमत्थो । अन्ने पुण परतित्थियवत्तवमिणं ति जति ॥३११३||
यस्य केवलिनो भगवत्यां युगपदुपयोगो निषिद्धस्तं केचित् 'छद्मस्थोऽसौ' इति त्रुवते । कथं पुनः केवली छद्मस्थो भण्यते ? इत्याह-'केवली इव केवली' इति वाक्ये इवशब्दलोपात् । अथवा 'केवली शास्ताऽस्येति केवलिमान्' इति वाक्ये मतुप्रत्ययस्य लोपाच्छद्मस्थोऽसौ न तु केवली, तस्य च युगपदुपयोगनिषेधो मयापीष्यत एवेति परस्याभिप्रायः । पर एवाह- अन्ये तु केचित परतीर्थिकवक्तव्यताविषयमिदं केवलिनो युगपदुपयोगनिषेधसूत्र भगवत्यां केनापि प्रसङ्गेन लिखितमिति नास्माकं तत् प्रमाणमिति जल्पन्ति. अतो न केवलिनः क्रमोपयोग इति ॥ ३११३ ॥
अथ परस्य विभ्रमापहरणार्थ समस्तभूतग्रामानुग्रहशीलः पुनरपि मूरिराहजे छ उमत्थो-होहिय-परमावहिणो विसेसिउं कमसो। निद्दिसइ केवलिं तो एयरस छउमत्थिया नत्थि ॥३११४॥
यस्माद् भगवत्यामष्टादशशताष्टमोदेशके छद्मस्थमाधोवधिकं परमावधिक चेत्येतान त्रीनपि क्रमशः प्रथम विशेष्य विशेषतो निदिश्य ततः पर्यन्ते केवलिन निर्दिशति । तेन तस्मात् तस्य केवलिनः स्वजल्पितबद्धमिध्यावष्टम्भन युक्तिविकलधाष्टर्घसामर्यादिव-मतु. प्रत्ययलोपात् त्वयोपनीयमाना छमस्थता नास्ति किन्तु निरुपचरितकेवल्येवासौ। यदि पुनरय छद्मस्थोऽभिप्रेतः स्यात् तदा किमनेन व्याजनिर्देशेन ? यत् किमपि च्छद्मस्थस्य भणनीयं तत् प्रथम छमस्थोपन्यासकाल एव सर्वमुक्तं स्यादिति ॥ ३११४ ॥
किञ्च, नै य पासइ अणुमन्नो छउमत्थो मोत्तुमोहिसंपन्नं । तत्थ वि जो परमावहिनाणी तत्तो य किंचूणो ? ॥३११५॥ ते दो वि विसेसेउं अन्नो छउमत्थकेवली को सो। जो पासइ परमाणुगहणमिणं जस्स होजाहि ॥३११६॥
१ इवशब्द-मनुप्रत्ययलोपात् तं केचिद्वन्ति च्छमस्थः । अन्ये पुनः परतीथिकवक्तव्यमिदमिति जल्पन्ति ॥३३॥ २ यच्छमस्था-उधोवधिक-परमावधीन् विशेष्य क्रमशः । निर्दिशति केवालनं तत एतस्य च्छद्यस्थता नास्ति ॥ ३॥१४॥ ३ न च पश्यत्यणुमन्यश्छमस्थो मुक्त्वावधिसंपन्नम् । तत्रापि यः परमावधिज्ञानी ततश्च किञ्चिदूनः ॥ ३११५ ॥ तौ द्वावपि विशेष्याम्यश्छमस्थः केवली कः सः । यः पश्यति परमाणुग्रहणमिदं यस्य भवेत् ॥ ३१६॥
१२०७।
Page #10
--------------------------------------------------------------------------
________________
विशेषा.
बृहदत्तिः ।
॥१२०८॥
व्याख्या-"केवळी गं भंते ! परमाणुपोग्गलं जं समयं जाणइ" इत्यादि भगवत्यामुक्तम् , तं च परमाणुमवधिज्ञानिनं मुक्त्वाअन्यश्छद्मस्थो न पश्यति । तत्रापि सर्वोऽव्यवधिज्ञानी न तं पश्यति, किन्तु यः परमावधिज्ञानी, तस्माच्च परमावधेयः किञ्चिन्यूनाबधिराधोवधिकः स एव तं पश्यति । तौ चाधोवधिक-परमावधिज्ञानिनी द्वावपि केवलिनः प्रथममेव निर्दिष्टौ, ततस्तयोयोरपि विशेषतो निर्धार्य निर्दिष्टत्वात् कोऽन्यो हन्त ! छमस्थः केवली योऽसौ परमाणुपुद्गलं पश्यति, यस्य च्छमस्थस्य केवलिन इदं त्वत्कल्पनया भगवत्यो ग्रहणं भवेत् । इति ॥ ३११५ ॥ ३११६ ॥
अपिच, आगमे स्थानान्तरेऽपि च्छद्मस्थादिभ्य उपरि च्छमातीत एवं केवली निर्दिष्टः, न विवादिलोपकल्पनया छद्मस्थ इति दर्शयन्नाह
श्तेसिं चिय छउमत्थाइयाण मग्गिज्जए जहिं सुत्ते । केवलसंवर-संजम-बंभाईएहिं निव्वाणं ॥ ३११७ ॥ तिन्नि वि पडिसेहेउं तीसु वि कालेसु केवली तत्थ। सिीझंसु सिज्झइत्ति य सिज्झिस्सइ वा विनिदिह्रो॥३११८॥
व्याख्या- तेषामेव च्छद्मस्थादीनामादिशब्दादाधोवधिक-परमावधि केवलज्ञानिनां यत्र भगवतीप्रथमशतचतुर्थोदेशकसूत्रे केवलसंवर-संयम-ब्रह्मचर्यादिभिर्निर्वाणं मोक्षो मृग्य ते चिन्त्यते । तत्रापि सूत्रे त्रीनपि च्छद्मस्था-ऽऽधोवधिक-परमावधिज्ञानिनः प्रतिषेध्य तदुपरि केवली भूत-भवद्-भविष्यल्लक्षणेषु त्रिष्वपि कालेवसिध्यत् , सिध्यति, सेत्स्यतीति निर्दिष्टः । यदि पुनरयमपि त्वत्कल्पनया छद्मस्थो भवेत् , तदाऽस्यापि प्रथमनिर्दिष्टच्छद्मस्थस्येव केवलसंवरादिभिः सिद्धिर्न भवेदिति । किं पुनस्तत् सूत्रम् ? उच्यते- "छ१पृ. १२०६। २ तेषामेव छन्नस्थादिकानां मृग्यते यत्र सूत्रे । केवलसंवर-संयम ब्रह्मादिभिर्निर्वाणम् ॥ ३११७॥
श्रीनपि प्रतिषिध्य विष्वपि कालेषु केवल्ही तन । असिध्यत् सिध्यति च सेत्स्यति वा विनिर्दिष्टः ॥ ३.१८॥
छद्मस्थो भगवन् ! मनुष्योऽतीतमनन्तं शाश्वतं समयं केवलेन संवरेण, केवलेन संयमेन, केवलेन ब्रह्मचर्यवासेन, केवलाभिः प्रवचनमातृभिरसिध्यकी दबुध्यत यावत् सर्वदुःखानामन्तमकार्षीत् । गौतम ! नायमर्थः समर्थः । अथ केनाथन भगवन् ! एवमुच्यते, तदेव बावदन्तमकार्षीत् । गौतम ! ये केऽप्यन्तकरा
वा, अन्तिमशरीरका वा, सर्वदुःखानामन्तमकाघुर्वा, कुर्वन्ति वा, करिष्यन्ति वा, सर्वे त उत्पनजाम-दर्शनधरा अईम्तो जिनाः कवलिनो भूत्वा ततः पश्चात् सिध्यन्ति, | बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तमकार्युर्वा, कुर्वन्ति वा, करिष्यन्ति बा; तेनान गौतम ! यावत् सर्वदुःखानामन्तमकार्षः। प्रत्युत्पन्ना अप्येव व नवरं | 'सिध्यन्ति' भणितव्यम् । अनागता अप्येवमेव, नवरं 'सेत्स्यन्ति' भणितव्यम् । यथा छद्मस्थस्तथाऽऽधोवधिकः, परमावधिकोऽपि, इति अय आलापका भणितव्याः । केवलिनो भगवन् ! मनुष्या अतीतमनन्तं शाश्वतं समयं यावदन्तमकार्षुः । इन्त ! असिध्यन् , यावदन्तमकार्षुः । एते अप आलापका भणितव्याश्छमस्थो यथा, नवर 'असिध्यन् ' "सिध्यन्ति' 'सेत्स्यन्ति' इति ।
।१२०८॥
For Personal and
Use Only
www.jansbrary.oro
Page #11
--------------------------------------------------------------------------
________________
विशेषा० ।। १२०९ ॥
Jain Education Internation
उमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संवरणं, केवलेणं संजमेणं, केवलेणं वंभचेरवासेणं, केवलाहिं पवयणमायाहिं सिज्झि, बुज्झितु, जाव सव्वदुक्खाणमंतं करिंसु ? । गोयमा ! नो इणट्ठे समहे । से केणणं भंते ! एवं बुच्चइ तं चैव जाव अंतं करिंसु ? । गोयमा ! जे के वि अंतकरावा, अंतिमसरीरया वा, सव्वदुक्खाणमंतं करेंसु वा करेंति वा, करिस्संति वा, सब्वे ते उपन्ननाण- दंसणधरा अरहा जिणा केवली भवित्ता तओ पच्छा सिज्यंति, बुज्झंति, मुच्चंति, परिनिव्वायंति, सब्वदुक्खाणमंतं करेंसुवा, करेति वा, करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सबदुक्खाणमंतं करिंसु । पड़प्पने वि एवं चेव, नवरं 'सिज्यंति' भाणियन्वं । अणागए वि एवं चेव, नवरं 'सिज्झिस्संति' भाणियव्वं । जह छउमत्थो तहा अहोहिओ परमोहिओवि, ति तिन्नि आलावगा भाणि वा । केवली णं भंते! मणूसे तीयमणंतं सासयं समयं जाव अंतं करिंसु । हंता ! सिज्झिसु, जाव अंतं करिंसु । एए तिमि आलावगा भाणियव्वा छडमत्थे जहा, नवरं 'सिज्झिसु' 'सिज्यंति' 'सिज्झिस्संति' ति । तस्मादियमेव रीतिः सिद्धान्ते छद्मस्थादिभ्य उपरि यः 'केवली' इति भण्यते स निरुपचरित एव न पुनरिवादिलोपकल्पनया च्छद्मस्थोऽसौ; अन्यथाऽनन्तरसूत्रोक्त सिद्धिगमनानुपपत्तेरिति ।। ३११७ ।। ३११८ ॥
अथ यदुक्तम्- 'अने पुण परतित्थियवत्तन्वं' इत्यादि, तेनासमञ्जसभाषितेनोद्वेजितः परानुकम्पया सखेदं सूरिराहएवं विसेसियम विपरमयमेगंतरोवओगो त्ति । न पुणरुभओवओगो परवचव्वं ति का बुद्धी ? ॥ ३११९॥ उवओगो एयरो पणुवीसइमे सए सिणायस्स । भणिओ वियडत्थो च्चिय छट्ठद्देसे विसेसेउं ॥ ३१२०॥
एवं फुडविडम्म वि सुते सव्वन्नुभासिए सव्वे । कह तीरइ परतित्थियवतव्वमिणं ति वोत्तुं जे १ ॥ ३१२१॥ व्याख्या - एवमुक्तप्रकारेण विशेषितेऽपि व्यक्तेऽपि क्रमोपयोगसाधके सिद्धान्तसूत्रे सति योऽयमेकान्तरोपयोगः स परमतम्, युगपदुभयोपयोगसूत्रं तु यदसदपि भवता किमपि कल्प्यते, तत्र 'परतीर्थिक वक्तव्यता' इति स्ववचसि पक्षपातं परित्यज्य चिन्त्यताम् 'केयं विपर्यासबुद्धिः ?" इति । किश्व, भगवत्यां पञ्चविंशतितमे शते पष्ठोदेशके “सिणाए णं भंते । किं सागरोवउत्ते होज्जा, अण
१ गाथा ३११३ । २ एवं विशेषितेऽपि परमतमेकान्तरोपयोग इति । न पुनरुभयोपयोगः परवतव्यमिति का बुद्धिः १ ॥ ३११९ ॥
उपयोग एकतरः पञ्चविंशतितमे शते स्नातकस्य । भणितो विकटार्थ एव षष्ठोद्देशे विशिष्य ॥ ३१२० ॥
एवं स्फुटविकटेऽपि सूत्रे सर्वज्ञभाषिते सर्वस्मिन् । कथं शक्यते परतीर्थिकवक्तव्यमिदमिति वक्तुम् ? ॥ ३१२१ ॥
३ जातको भगवन् ! किं साकारोपयुक्तो भवेदनाका रोपयुक्तो भवेत् ? गौतम ! साकारोपयुक्तोऽपि भवेत्, अनाकारोपयुक्तोऽपि भवेत् ।
१५२
For Personal and Private Use Only
बृहद्वृत्तिः ।
१२०९॥
Page #12
--------------------------------------------------------------------------
________________
विशेषा.
ना
॥१२१०॥
| गारोवउत्ते होज्जा ? । गोयमा ! सागरोवउत्ते वि होज्जा, अणगारोवउत्ते वि होजा" इत्यनेन सूत्रेण विशिष्य नामग्राइं स्नातकस्य
केवलिनो विकटायें: प्रकटाथे एव भणितः प्रतिपादित एकस्मिन् समय एकतरः साकारोऽनाकारी वोपयोग इति । एवं स्फुटे सूत्रतः, | विकटे प्रकटे चार्थतः, सर्वज्ञभापिते सूत्रे सिद्ध कथं सकर्णविज्ञानः 'परतीर्थिकवक्तव्यतेयम्' इति तीर्यते शक्यते वक्तुम् । 'जे' इति | वाक्यालङ्कारार्थ इति ।। ३११९ ॥३१२० ।। ३१२१॥
अपि च, सेव्वत्थ सुत्तमत्थि य फुडमेगयरोवउत्तसत्ताणं । उभओवउत्तसत्ता वुत्ता सुत्ते न कत्थइ वि ॥ ३१२२ ॥
कस्सइ वि नाम कत्थइ काले जइ होज दो वि उवओगा। उभओवउत्तसत्ताण सुत्तमेगं पि तो होजा ॥३१२३॥
व्याख्या- एकतरोपयोगोपयुक्तानां सत्चानां प्रतिपादक सूत्रं सर्वत्र सिद्धान्ते स्फुटमस्ति, तच्च किश्चिद् दर्शितम् , दर्शयिष्यते च । युगपदुभयोपयोगोपपुक्तसत्त्वास्तु सूत्रे काचिदप्युक्ताः प्रतिपादिता न दृश्यन्त इति । यदि नाम कस्यापि भवस्थकेवलिनः सिद्धकेवलिनो वा कचिदपि काले युगपद् द्वावुपयोगौ भवेताम् , ततस्तर्हि युगपदुभयोपयोगोपयुक्तसत्त्वानां प्रतिपादकमेकमपि सूत्रं कचिदपि भवेत् , न तु कापि तत् पश्यामः, इत्यतो निरालम्बनाग्रहमात्रभ्रमित एव भ्राम्यति भवानिति ॥३१२२ ॥ ३१२३ ॥
अपि च, दुविहाणं पि यजीवाण भणियमप्पाबहुं च समयम्मि । सागारणगाराण य न भणिय उभओवउत्ताणं ॥३१२४॥ जइ केवलीण जुगवं उवओगाहोज, होज तो एवं । सागार-ऽणगारय-मीसाण य तिण्हमप्पबहुं ॥ ३१२५ ॥ व्याख्या- साकारोपयोगवतामनाकारोपयोगवतां च द्विविधानामेव जीवानामल्पबहुत्वं समये सिद्धान्ते प्रज्ञापनाल्पबहुत्वपदे
RTISTASTER
| १ घ. ज. विशेष्य' । २ सर्वत्र सूत्रमस्ति च स्फुटमेकतरोपयुक्तसत्वानाम् । उभयोपयुक्तसत्त्वा टक्ताः सूत्रे न क्वचिदपि ॥ ३१२२ ।।
कस्यापि नाम कचित् काले यदि भवेतां द्वावष्युपयोगी । उभयोपयुक्तसत्वाना सूत्रमेकमपि ततो भवेत् ॥ ३१२३ ।। ३ द्विविधानामपि च जीवानां भणितमल्पबहुत्वं च समये । साकारा-ऽनाकाराणां च, न भणितमुभयोपयुक्तानाम् ॥ ३१२४ ॥
यदि केवकिना युगपदुपयोगी भवेता, भवेत् तत एवम् । साकाराऽनाकारक-मिश्राणां च प्रयाणामल्पबहुत्वम् ॥ ३१२५ ॥
AC॥१२१०॥
कारवाहDATTATRASEE
Jain Educationa.Intern
For Personal and Price Use Only
Page #13
--------------------------------------------------------------------------
________________
विशेषा० ।। १२११ ॥
Jain Education Internat
भणितम् ; तद्यथा - "एएसि णं भंते जीवाणं सागारोवउत्ताणं अणगारोवउत्ताणं य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुला वा, विसेसाहिया वा ? । गोयमा ! सव्वत्थोवा जीवा अणगारोवउत्ता, सागारोवउत्ता संखिज्जगुणा" । युगपदुभयोपयोगोपयुक्तानां तु मिश्राणां तृतीयानामिहाल्पबहुत्वं न भणितम् । यदि पुनः केवलिनां युगपदुपयोगद्वयं भवेत्, तदैवं सति साकारा अनाकार मिश्रोयोगवतां त्रयाणामेव पदानामल्पबहुत्वं भवेत्, न द्वयोरिति ।। ३१२४ ॥ ३१२५ ।।
अत्र परशङ्कां परिहारं वाह
अह मई छउमत्थे पडुच्च सुत्तमिणं तो न केवलिणो । तं पिन जुज्जइ जं सव्वसत्तसंखाहिगारोऽयं ॥ ३१२६ ॥ सुगमा, नवरं व्याप्त्या सर्वजीवसंख्याधिकारे निर्दिष्टत्वाद् नेदं सूत्रं छद्मस्थविषयं वक्तुं युज्यत इति ।। ३१२६ ॥ अथ सर्वजीवाधिकारोऽयं न भवति, तत्राह
काउं सिद्धग्गहणं बहुवत्तव्वयपदेसु सव्र्व्वसु । इह केवलमग्गहणं जइ तो तं कारणं वच्चं ? ॥३१२७ ॥
यदि सर्वजीवाधिकारोऽयं न भवति, तर्हि 'गइ इंदिए य काए जोए वेए कसाय-लेसासु' इत्यादिष्वन्येष्वल्पबहुवक्तव्यताविचारविषयभूतेषु पदेषु सिद्धिगतिकान् इन्द्रिय-काय योग-कषाय- लेश्या-नोसंयत-नोपरीतादिपदैः पृथक् सिद्धग्रहणं कृत्वा केवल मिहैवोपयोगपदे पृथक् तदग्रहणं करोति, ततस्तत्र कारणं वाच्यम् । यदि हि च्छद्मस्थाधिकारत्वादिह तदग्रहणमित्युच्यते, तर्हि शेषपदेषु सिद्ध-केवलिग्रहणमयुक्तं स्यात् । तस्मात् सर्वजीवाधिकार एवायम्, केवलमाहारकाऽनाहारकऽभाषकाभाषकादिपदद्वयेनेवानेन साकाराSनाकारोपयोग पदद्वयेन सिद्ध केवलिनां गृहीतत्वादिह पृथक् तदग्रहणमिति ।। ३१२७ ॥
आगमान्तरतोऽप्यत्र च्छद्मस्थाधिकारशङ्कां निवर्तयन्नाह -
अहवा विसेसियं चिय जीवाभिगमम्मि एयमप्पबहुं । दुविह त्ति सव्वजीवा सिद्धासिद्धाइआ जत्थ ॥३१२८॥
१ एतेषां भगवन् ! जीवानां साकारोपयुक्तानामनाकारोपयुक्तानां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? । गौतम ! सर्वस्तोका जीवा अनाकारोपयुक्ताः, साकारोपयुक्ताः संख्येयगुणाः ।
२ अथवा मतिरछद्मस्थान् प्रतीत्य सूत्रमिदं ततो न केवलिनः । तदपि न युज्यते यत् सर्वसत्वसंख्याधिकारोऽयम् ॥ ३१२६ ॥
३ कृत्वा सिद्धग्रहणं बहुवक्तव्यतापदेषु सर्वेषु । इह केवलमग्रहणं यदि ततस्तत् कारणं वाच्यम् ? ॥ ३१२७ ॥
४ अथवा विशेषितमेव जीवाभिगम एतदल्पबहुत्वम् । द्विविधा इति सर्वजीवाः सिद्धा ऽसिद्धादिका यत्र ॥ ३१२८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
॥१२११॥
Page #14
--------------------------------------------------------------------------
________________
अथवा छग्रस्थाधिकारशङ्कानिवर्तकत्वाद् विशेषितमेवैतत् साकारा-ऽनाकारोपयोगयोः पदद्वयस्याल्पबहुत्वं जीवाभिगमे 'प्रोविशेषा०क्तम्' इति शेषः । क सूत्रे ? इत्याह- सिद्धा-ऽसिद्धादिभेदेन द्विविधा एव सर्वे जीवा यत्र सूत्रे प्रतिपाद्यन्त इति ॥ ३१२८ ॥
तदेव सूत्रं गाथयोपनिबध्य दर्शयन्नाद॥१२१२॥
सिद्ध सइंदियकाए जोए वेए कसाय लेसा य । नाणुवओगाहारय-भासय-ससरीर-चरिमे य ॥ ३१२९॥
सिद्धा असिद्धाश्च, सेन्द्रिया अनिन्द्रियाश्च, सकाया अकायाश्चेत्यादिभेदेन सर्वे जीवाः संगृह यत्र सूत्रे जीवाभिगमे प्रतिपा| धन्ते तत्र सूत्रे विशेषितमेवेदमल्पबहुत्वं प्रतिपादितमिति ॥ ३१२९॥
युक्त्यन्तरेणापि युगपदुपयोगद्वयप निराचिकीर्षुराह
अंतोमुहुत्तमेव य कालो भणिओ तहोवओगस्स । साई अपज्जवसिउ त्ति नत्थि कत्थइ विणिट्ठिो ॥३१३०॥
तथा, ज्ञाना-ज्ञान-दर्शनानामुपयोगस्यागमे सर्वत्रान्तर्मुहूर्तमेव कालो मणितः, साद्यपर्यवसितस्तूपयोगकालः कापि नास्ति विनिर्दिष्टः । यदि हि साकारा-ऽनाकारोपयोगरूपो मिश्रः सिद्धानामुपयोगः स्यात् तदा तेषामिव तस्यापि साधपर्यवसतित्वं स्यात् ।। न चैतत् सिद्धान्ते कापि भणितं दृश्यते । तस्माद् नास्ति युगपदुपयोगद्वयमिति ॥ ३१३० ॥
एतदेवाह
जह सिद्धाइयाणं भणियं साईअपज्जवसियत्तं । तह जइ उवओगाणं हवेज तो होज ते जुगवं ॥३१३१॥
यथा सिद्धादीनाम् , आदिशब्दादनिन्द्रिया-ऽकायादीनां साद्यपर्यवसितत्वं भणितम् , तथा यापयोगानामपि तद् भणितं भवेत् , o ततस्तौ साकारा-ऽनाकारोपयोगौ युगपद् भवेताम् , न चैवम् । तस्माद् न युगपदुपयोगद्वयमिति ॥ ३१३१॥
तदेवं सूरिः परस्याभिनिवेशं निराकृत्यात्मनि तदाशङ्को निराकर्तुमाह
करतफर कर
PARASIMHAR
सिद्धाः सेन्द्रियकाया योगे वेदे कषाये लेश्यायां च । ज्ञानोपयोगा-हारक-भाषक-सारीर-चरमाश्च ॥ ३१२९ ॥ २ अन्तर्मुहूर्तमेव च कालो भणितस्तथोपयोगस्य । सादिरपर्यवसित इति नास्ति कचिद् विनिर्दिष्टः ॥ ३१३०॥ ३ यथा सिद्धादिकानां भणितं साथ पर्यवसितत्वम् । तथा यशुपयोगानां भवेत् , ततो भवेता तो युगपत् ॥ ३
॥१२१२॥
॥
Jan Education Intema
For Personal and Price Use Only
Page #15
--------------------------------------------------------------------------
________________
विशेषा०
।।१२१३॥
Jain Educationa Interna
केस व नाणुमयमिणं जिणस्स जइ हुज्ज दो वि उवओगा। नूनं न हुंति जुगवं जओ निसिद्धा सुए बहुसो ॥३१३२ ॥ नव अभिनिवेसबुद्धी अम्हं एगतरोवओगम्मि । तह वि भणिमो न तीरइ जं जिणमयमन्नहा काउं ॥ ३१३३ ॥ पाठसिद्धे एव ।। ३१३२ ॥ ३१३३ ॥
अथ परपृच्छामुत्तरं चाह
जैइ नन्नुन्नावरणं नाकारणया कहं तदावरणं । एगंतरोवओगे जिणस्स तं भण्णइ सहावो ॥ ३१३४ ॥
ननु यदि 'नैणु सनिहणत्तमेवं' इत्यादिगाथायां यद् मया 'इयरेयरावरण्या अहवा निकारणावरणं' इत्यादि दूषणमुक्तम्, तद् यदि प्रागुक्तेनैव प्रकारेण त्वया नेष्यते, तर्हि कथं जिनस्य केवलिन एकान्तरोपयोगेऽभ्युपगम्यमाने तस्यायुगपदुपयोगवृत्तेरावरणं तदावरणमिति कथ्यताम् । सूरिराह-- भण्यतेऽत्रोत्तरम् - तदावरणमिह स्वभावो द्रष्टव्यः ईदृश एव जीवस्य स्वभावो येन क्रमेणैवोपयोगः प्रवर्तते, न युगपत् । न च स्वभावः पर्यनुयोगमईति, 'अग्निर्दहति नाकाशम्' इत्यादिष्वपि तत्प्रसङ्गादिति ॥ ३१३४ ॥
एतदेव समर्थयति—
पॅरिणामियभावाओ जीवत्तं पिव सहाव एवायं । एगंतरोवओगो जीवाणमणण्णहेउ ति ॥ ३१३५ ॥
यथा जीवस्य जीवत्वमनन्य हेतुकस्, पारिणामिकभावत्वात् एवमेकान्तरोपयोगोऽपि पारिणामिकत्वात् तस्य स्वभाव एव । ततो नास्यान्यो हेतुरन्वेषणीय इति ॥
तदेवमवसितं प्रासङ्गिकवादस्थानकम् । तदवसाने च व्याख्याता 'देंड कवाडे' इत्यादिगाथा । इयं च गाथा 'जई उल्ला साडीया' इत्यादिगाथायाः पूर्व पठितापि पश्चाद् व्याख्याता, 'भोसाजोग निरोहे सेलेसी सिज्झणा चेव, इत्यस्योत्तरप्रन्थेन सह संबधानुकूल्यादिति || ३१३५ ।।
१ कस्य वा नानुमतमिदं जिनस्य यदि भवेतां द्वावप्युपयोगी। नूनं न भवतो युगपद् यतो निषिद्धौ श्रुते बहुशः || ३१३२ ॥ नान्यभिनिवेश बुद्धिरस्माकमेकान्तरोपयोगे । तथापि भणामो न शक्यते यज्जिनमतमन्यथा कर्तुम् ॥ ३१३३ ॥
२ यदि नान्योम्यावरणं नाकारणता कथं तदावरणम् । एकान्तरोपयोगे जिनस्य यद् भण्यते स्वभावः ॥ ३१३४ ॥
३ गाथा ३१०३ ।
* पारिणामिकभावाज्जीवत्वमिव स्वभाव एवायम्। एकान्तरोपयोगी जीवानामनन्यहेतुरिति ॥ ३३५ ॥ ५ गाथा ३०३१।६ गाथा ३०३२ ।
For Personal and Private Use Onty
बृहद्वृत्तिः ।
॥॥१२१३ ॥
Page #16
--------------------------------------------------------------------------
________________
विशेषा०
।। १२१४।।
Jain Educators Interna
अथ 'लोउ य' इत्यादिवक्ष्यमाणगाथायाः प्रस्तावनां रचयन्नाह
गतूण सिज्झइ ति य भणिए सुत्तम्मि कहमकम्मरस । आह गमणं ति, भण्णइ सकम्मगमणे व को हेऊ ? ॥ ३१३६|| बृहद्वृत्तिः ।
'सिज्झणा चेव' इत्यनन्तरगाथायामुक्तम्, वक्ष्यमाणसूत्रे च " तत्थ गंतून सिज्झइ " इति वक्ष्यति । एतस्मिंश्च भणिते प्रेरकः प्राह- कथमकर्मणः क्षपितकर्मकस्य देशोनसप्तरज्जुर्यावत् सिद्धिगमनं संभवति ?, पूर्व संसारे सकर्मकस्यैव गमनादिक्रियादर्शनादिति भावः । सूरिराह - भण्यतेऽत्रोत्तरम् - ननु सकर्मकस्यापि गमने को हेतुः । इति वक्तव्यम् ।। ३१३६ ॥
कर्मैवेति चेत्, तत्राह —
कैम्म पुग्गलमइयं निज्जीवं तस्स नयणसामत्थे । को हेऊ पडिवण्णो जइव सहावो इह स एव ॥ ३१३७॥ ननु कर्म तावत् पुद्गलमयम्, तन्मयत्वाच्च निर्जीवम्, निर्जीवस्य च तस्य जीवस्य सिद्धिं यावद् नयने को हेतुस्त्वया प्रतिपन्नः ? | यदि च स्वभावस्तत्र हेतुरित्युच्यते, नन्विहापि निष्कर्मकजीवगमने स एव स्वभावो हेतुः केन वार्यते ? इति ।। ३१३७ ।। पुनरप्याक्षेप- परिहारावाह
सैक्किरियं किमरूवं भण्णइ भुवि चेयणं च किमरूवं ? । जह से विसेसधम्मो चेयण्णं तह मया किरिया ||३१३८|| जं वेह जेण किरियाकारणमब्भुवगयं तहिं एसो । तुल्लोवालंभो चिय जं न सहावो सरणमिको || ३१३९ ॥
व्याख्या-- ननु जीवद्रव्यमरूपममूर्तम्, तत् किं केन कारणेन सक्रियं सिद्धिगमन क्रियावदिष्यते ?, अरूपस्याकाशस्त्र क्रियानुपपत्तेरिति भावः । सूरिराह- भण्यतेऽत्रोत्तरम् - ननु पर ! त्वमपि प्रष्टव्योऽसि, अरूपममूर्त जीवद्रव्यं चेतनमपि किं कस्माद्धेतोरिष्यते, अमूर्तस्याकाशस्येव चेतनत्वस्याप्यघटनात् । अथामूर्तस्यापि जीवद्रव्यस्य स्वभावादेव चैतन्यमाकाशापेक्षया विशेषधर्म इष्यते, तर्हि यथाऽस्यायं स्वभावादिष्यते तथा क्रियापि गमनलक्षणा विशेषधर्मोऽस्य मता परमगुरूणामिति । यद्वा, स्वभा
१ गाथा ३१४१ ।
२ गत्वा सिध्यतीति च भणिते सूत्रे कथमकर्मणः । आह गमनमिति, भण्यते सकर्मगमने वा को हेतुः ? ॥ ३१३६ ।। ३ कर्म पुत्रलमयं निर्जीवं तस्य नयनसामर्थ्यं को हेतुः प्रतिपन्नो यदिवा स्वभाव इह स एव ॥ ३१३७ ॥
४ सक्रियं किमरूपं भण्यते भुवि चेतनं च किमरूपम् ? यथा तस्य विशेषधर्मत्रैतन्यं तथा मता क्रिया ॥ ३१३८ ॥
द्वे येन क्रियाकारणमभ्युपगतं तपः । तुल्य उपालम्भ एव यद् न स्वभावः शरणमेकः ॥ ३१३९ ॥
For Personal and Private Use Only
।। १२१४ ॥
Page #17
--------------------------------------------------------------------------
________________
विशेषा
बृद्ध त्तिः ।
॥१२१५॥
वादन्यदिहादृष्टमीश्वरादिकं येन वादिना जीवस्य गमनादिक्रियाकारणमभ्युपगतम् , तत्रापीश्वरादिकारण एप जीवस्य सिद्धिगमनक्रियाविषय उपालम्भस्तुल्य एव; तथाहि-तत्रापि शक्यत एवं वक्तुम्-ईश्वरादिरपि कथं तत्क्रियायां प्रवर्तयति ? । अथ तस्याप्यन्यत् कारणम् , पुनस्तस्याप्यपरमित्यनवस्था । ततः पर्यन्ते यदि स्वभाव एवैकः शरणं नेष्यते, तर्हि नेयं निवर्तते । इष्यते चेत् , तर्हि स एव जीवस्य सिद्धिगमनक्रियायां कारणमिष्यताम् , किमन्येन ? इति ॥ ३१३८ ।। ३१३९ ॥
किश्च, कारणमपि गतिक्रियायां किश्चिदुच्यते--
अविय असंगत्तणओ बंधच्छय परिणामभावाओं। पुज्वप्पओगउ च्चिय तस्स गई तत्थ दिद्वंता ॥३१४०॥ लाउ य एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गई पुव्वपओगेणं एवं सिद्धाण वि गई ओ॥ ३१४१ ॥
व्याख्या- अपि च, यथाऽलाबुकस्य तुम्बकस्य दर्भान्तरितशुष्काऽष्टमूल्लेपलिप्तस्य नद्यादिजले प्रक्षिप्तस्य मृल्लेपसङ्गापगमात् स्वभावत एवोज़ गतिः प्रवर्तते, न तिर्यग् , नापि जलोपरिमतलादपि परतः, तथा तस्यापि सिद्धस्य कर्मसंयोगाभावार्ध्वमेव गतिः प्रवर्तते, नान्यप्रकारेण, नापि लोकोपरिमभागादपि परतः । यथा वा, एरण्डफलस्यैरण्डमिञ्जिकायां बन्धनच्छेदेनातपशुष्ककोशकविगमनेन तथाविधस्वभावादूर्ध्वमेव गतिः, एवं विगतकर्मबन्धनस्य जीवस्यापीति । यथा वा, अग्नेधूमस्य वा 'परिणामभावाउ ति' तथाविधपरिणामभावादूर्ध्वमेव गतिः प्रवर्तते तथा मुक्तजीवस्यापि । यथा वा, धनुषा पुरुषप्रयत्नप्रेरितस्येषोर्गतिकारणविगमेऽपि पूर्व| प्रयोगाद् गतिः प्रवर्तते, एवं तस्यापि सिद्धस्य । तत्र चालाबुप्रभृतयो दृष्टान्ताः, यथाऽलाबुप्रभृतीनामसङ्गत्वादिभिर्गतयः प्रवर्तन्ते, एवं सिद्धानामपीति ॥ ३१४० ॥ ३१४१ ॥
इयं च नियुक्तिगाथा, ततोऽस्या व्याख्यानमाहजह मिल्लेवावगमादलाबुणोऽवस्समेव गइभावो । उद्धं च नियमओ नण्णहा नवा जलतलादुद्धं ॥३१४२॥ तह कम्मलेवविगमे गइभावोऽवस्समेव सिद्धस्स । उद्धं च नियमओ नण्णहा नवा लोगपरउ ति॥३१४३॥
१ अपिचासकरवतो बन्धच्छेदात् परिणामभावात् । पूर्वप्रयोगत एव तस्य गतिस्तत्र दृष्टान्ताः ॥ ३१४०॥ ___ अलावु चैरण्डफलमग्निघूमश्वेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणैवं सिद्धानामपि गतिस्तु ।। ३१४१॥ २ यथा मृलेपापगमादलाबुनोऽवश्यमेव गतिभावः । ऊर्वं च नियमतो नान्यथा नवा जलतलादूर्ध्वम् ॥ ३१४२॥ तथा कर्मलेपविगमे गतिभावोऽवश्यमेव सिद्धस्य । अध्वं च नियमतो नान्यथा नवा कोकपरत इति ॥ ३१४३ ॥
॥१२१५॥
Jain Educationa.Inter
For Personal and Price Use Only
Page #18
--------------------------------------------------------------------------
________________
विशेषा० ॥१२१६॥
ऐरंडाइफलं जह बंधच्छेएरियं दुयं जाइ । तह कम्मबंधणच्छेयजेरिओ जाइ सिद्धो वि ॥ ३१४४ ॥ उड्ढंगइपरिणामो जह जलणस्स जह वेह धूमस्स । उड्ढंगइपरिणामो सहावओ तह विमुक्कस्स ॥३१४५॥ जह तेसलाभकाले चेव तहा गइसभावयामिति । परिणमइ तग्गइं वा. लेवावगमे जहाला_ ॥३१४६॥ तह तग्गइपरिणामं परिणमइ सरूवलाभ एवेह । सिद्धो सिद्धत्तं पिव सकम्मपरिणामनिरवेकक्ख ॥३१४७॥ जह धणुपुरिसपयत्तेरिएसुणो भिण्णदेसगमणं तु । गइकारणविगमम्मिवि सिद्धं पुव्वप्पओगाओ ॥३१४८॥ बंधच्छेयणकिरियाविरमे वि तहा विमुच्चमाणस्स । तस्सा लोगताओ गमणं पुवप्पओगाओ ॥३१४९॥
जहवा कुलालचक्कं किरियाहेउविरमे वि सक्किरियं । पुव्वप्पओगओ च्चिय तह किरिया मुच्चमाणस्स॥३१५०॥
गतार्था एव, नवरं 'जह ते सकाभकाले ति यथा तावग्नि-धूमौ स्वस्यात्मनो लाभः स्वलाभः, स्वकाल एवोर्ध्वगतिपरिणामस्वभावमुपगतौ यथा वा, लेपापगमानन्तरं तथो दिगतिपरिणाममापद्यतेऽलाबु, 'तह तग्गइपरिणामं ति' तथा तस्य सिद्धस्योप्रगतिगमनपरिणतिलक्षणो गतिपरिणामस्तद्गतिपरिणामम् । 'सिद्धत्तं पिव ति यथा सिद्धत्वं स्वहेतुभूतकर्मपरिणामनिरपेक्षं कर्मक्षयानन्तरमेव सिद्धः स्वभावत एव पामोति, तथा तद्गतिपरिणाममप्यसौ स्वभावत एव परिणमतीति ॥३१४२॥३१४३॥३१४४॥ ॥३१४५॥३१४६॥३१४७॥३१४८॥३१४९॥३१५०॥
__ अत्राक्षेप-परिहारौ प्राह
, एरण्डादिफकं यथा बन्धछेदेरितं दुतं पाति । तथा कर्मवन्धनच्छेदेरितो याति सिद्धोऽपि ॥ ३१४४॥
अवंगतिपरिणामो यथा ज्वलनस्य यथा वेह धूमस्य । अर्ध्वगतिपरिणामः स्वभावतस्तथा विमुक्तस्य ॥ ३१४५॥ यथा तो स्वलाभकाल एव तथा गतिस्वभावतां यन्ति । परिणमते तद्गतिं वा छेपापगमे यथाऽलादु ॥ ३१ ॥ तथा तद्गतिपरिणामं परिणमते स्वरूपलाभ एवेह । सिद्धः सिद्धत्वमिव स्वकर्मपरिणामनिरपेक्षम् ॥ ३१४७ ॥ यथा धनुःपुरुषप्रयत्ने रितेपोर्मिनदेशगमनं तु । गतिकारणविगमेऽपि सिद्धं पूर्वप्रयोगात् ॥ ३१४८॥ बन्धच्छेदनक्रियाविरमेऽपि तथा विमुच्यमानस्य । तस्याऽऽलोकान्ताद् गमनं पूर्वप्रयोगात् ॥ ३४९ ॥ यथावा कुलाळचक्र क्रियादेवपिरमेऽपि सक्रियम् । पूर्वप्रयोगत एव तथा क्रिया मुख्यमानस्य ॥१॥५०॥
॥१२१६॥
For Personal and
Page #19
--------------------------------------------------------------------------
________________
विशेषा ॥१२१७॥
नालाबुगादिसाहम्ममत्थि सिद्धस्स मुत्तिमत्ताओ। तन्नो तग्गइपरिणामदेससाहम्मओ तेसिं ॥३१५१॥
जइव न देसोवणओ दिलुतो तो न सव्वहा सिद्धो । जं नत्थि वत्थुणो वत्थुणा जए सव्वसाहम्मं ॥३१५२॥
अलाबुकादिभिः सार्धं सिद्धस्य साधर्म्य नास्ति, तेषां मूर्तत्वात् , सिद्धस्य चामूर्तत्वात्। तत् कथं ते दृष्टान्तत्वेनोच्यन्ते ?, इति परस्याभिप्रायः। मूरिराह- तदेतद् न, तस्य सिद्धस्योर्ध्वगमनलक्षणो गतिपरिणामस्तद्गतिपरिणामस्तन्मात्रेण देशसाधर्म्य तद्गतिपरिणामदेशसाधर्म्य तस्मात् तेषामलाबुकादीनां दृष्टान्तत्वं युज्यत इति । यदि पुनर्देशत उपनयो नेष्यते किन्तु सर्वत एव, ततस्तर्हि सर्वथा सर्वैरपि प्रकारैः समानधर्मदृष्टान्तः कोऽपि कचिदपि सिद्धो नास्ति, अतस्तदभाव एव प्रामोति, यस्मात् कस्यापि वस्तुनः केनापि वस्त्वन्तरेण सार्धं जगति सर्वसाधर्म्यं नास्ति, वस्त्वन्तरत्वाभावमसङ्गादिति ॥ ३१५१ ॥ ३१५२ ।।
तस्मात् किं स्थितम् ? इत्याहउड्ढगइहेउउ च्चिय नाहो-तिरियगमणं नवाचलया। सविसेसपच्चयाभावओ य सव्वन्नुमयओ य ॥३१५३॥
मुक्तात्मनो नास्तिर्यग् वा गमनम् , नाप्यत्रैवाचलता, किन्तूर्ध्वमेवासौ गच्छति । कुतः ? इत्याह- ऊर्ध्वगतिहेतुत्वात् तत्स्वभावस्य । सह विशेषेण वर्तत इति सविशेषः, स चासौ प्रत्ययश्च तस्याभावाचोर्ध्वमेव गच्छति । इदमुक्तं भवति-पूर्व हि संसारे भ्राम्यतस्तस्यास्तिर्यग् वा गमनमभूत् , सविशेषप्रत्ययस्य नरकानुपूर्व्यादिकर्मणः सद्भावात् । इदानीं त्वसौ नास्ति, ततश्चोर्ध्वमेव गच्छति सर्वज्ञवचनप्रामाण्याचेति ॥ ३१५३ ॥
पुनरपि प्रकारान्तरेणाक्षेप-परिहारौ पाह
गैइमत्तओ विणासी केसी गच्चागमी य मणुउ व्य । होइ गइपज्जयाओ नासी न उ सव्वहाणु व्व ॥३१५४॥ केसनिमित्तं कम्मं न गई तदभावओ तओ कत्तो। अह गइ एव निमित्तं किमजीवाणं तओ नत्थि ?॥३१५५॥
नालायुकादिसाधम्यमस्ति सिद्धस्य मूर्तिमत्वात् । तद् नो तद्गतिपरिणामदेशसाधर्म्यतस्तेषाम् ॥ ३१५ ॥ यदिवा न देशोपनयो दृष्टान्तस्ततो न सर्वथा सिद्धः । यद् नास्ति वस्तुनो वस्तुना जगति सर्वसाधयम् ॥ ३१५२ ॥ २ ऊध्वंगतिहेतुत एवं नाधस्तिर्यग्गमनं नवाऽचलता। सविशेषप्रत्ययाभावतश्च सर्वज्ञमततश्च ॥३१५३॥ ३ गतिमत्त्वतो विनाशी क्लेशी गल्यागमी च मनुज इव । भवति गतिपर्ययाद् नाशी न तु सर्वथाऽणुरिव ॥ ३१५४॥ क्लेशानिमित्तं कर्म न गतिस्तदभावतः सकः कुतः । अथ गतिरेव निमित्तं किमजीवानां सको नास्ति' ॥३१५५ ॥
PLAPRICORSalaiane
१२१७॥
Page #20
--------------------------------------------------------------------------
________________
विशेषा० ॥१२१८॥
पतयेत् कर्मामामपि कर्मनिमित्तधर्मा भवस्थस्य
'केसो त्ति जीवधम्मो होज मई होउ कहमजीवस्स। कह वा भवत्थधम्मो होउ भवाओ विमुक्करस ? ॥३१५६॥
व्याख्या-- नन्वेवं तर्हि गतिमत्त्वाद् मुक्तात्मा विनाशी, क्लेशी, गत्यागमी च प्रामोति, मनुष्यवदिति दृष्टान्तः । सूरिराह-- गतिपर्यायाद् गतिपर्यायमाश्रित्य भवतु मुक्तात्मा विनाशी, न नः काचित् क्षतिः, पर्यायरूपतया सर्ववस्तुविनाशित्वस्याभ्युपगतत्वात् । सर्वथा तु विनाशी गतिमत्त्वे सत्यपि न भवत्यसौ, परमाणुवदिति । क्लेशी तु न भवत्येवासौ, यतः क्लेशानां निमित्तं कर्मैव, न तु गतिः, ततस्तदभावात् कर्माभावात् तको रागादिक्लेशः कुतः। अथ गतिरेच क्लेशनिमित्तमिष्यते, तर्हि किमजीवानां परमाण्वादीनां गतिमत्त्वे सत्यपि तकः क्लेशो न भवति । तस्मादनकान्तिकोऽयं हेतुरिति । अथ परस्य मतिर्भवेत्- जीवस्यैव धर्मः क्लेशः स कथमजीवस्य परमाण्वादेर्भवेत् ?, तर्हि हन्त ! गतिमत्त्वे सति यः क्लेशित्वधर्मो भवस्थस्य मनुष्यादेदृष्टः स कथं भवात् संसाराद् विमुक्तस्य भवेत् ?- न भवत्येवेत्यर्थः। एवं गत्यागमित्वमपि कर्मनिमित्तमेव, ततस्तदपि कर्मविमुक्तस्य गतिमत्त्वे सत्यपि न भवतीति स्वयमेव द्रष्टव्यम् । समयमेकं च गतिर्यत् कर्माभावेऽपि भवति, तत्र 'लाउ य' इत्यादिना कारणमुक्तम् , इत्यलं बहुभाषितेनेति । । ॥ ३१५४ ॥३१५५ ॥ ३१५६॥
अथ वक्ष्यमाणस्य प्रस्तावनामाह--
जै गइमओ विघाओऽवस्सं तत्कारणं च जदवस्सं । विहियस्सावत्थाणं जओ य गमणं तओ पुच्छा ॥३१५७||
यद् यस्माद् गतिमतोऽवश्यं कचिदपि गतेर्विघातो भवति, तस्य च गतिविघातस्यावश्यमेव कारणं किमपि यद् यस्माद् भवति, न तु निर्हेतुकोऽसौ जायते, अतिप्रसङ्गात् । विहितस्य च निषिद्धगतेश्च तस्य नियमेनावस्थानं भवति । यत्र चावस्थानं तत्र यतो यस्मात् स्थानात् तस्य गमनं भवति तदवश्यं वक्तव्यम्' इति शेषः । ततस्तस्मात् पृच्छा विधीयते ॥ इति सप्ततिगाथार्थः ।३१५७
केयं पुनः पृच्छा इत्याह-- कहिं पडिहया सिद्धा कहिं सिद्धा पइट्ठिया । कहिं बोंदि चइत्ताणं कत्थ गंतूण सिज्झइ ? ॥ ३१५८ ॥
, क्लेश इति जीवधर्मों भवेद् मतिर्भवतु कथमजीवस्य । कथं वा भवस्थधर्मों भवतु भवाद् विमुक्तस्य ? ॥ ३१५६ ॥ २ गाथा ३१४१ । ॥१२१८॥ ३ यद् गतिमतो विधातोऽवश्यं तत्कारणं च यदवश्यम् । विहितस्यावस्थानं यतश्च गमनं ततः पृच्छा ।। ३१५७ ॥ ४ कुत्र प्रतिहताः सिद्धाः कुन सिद्धाः प्रतिष्ठिताः । कुत्र शरीरं त्यक्त्वा कुन गत्वा सिध्येयुः ॥ ३१५८ ॥
मामालनी
Jain Educationa.Intern
For Personal and Price Use Only
Page #21
--------------------------------------------------------------------------
________________
विशेषा
॥१२१९॥
अत्रोत्तरमाह
अलोए पडिहया सिद्धा लोयग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ ॥ ३१५९ ॥ एतद् नियुक्तिश्लोकद्वयं सुबोधम् , तथापि नयविचारं किञ्चिद् भाष्यकारः पाहजैमिहं बोदिच्चाओ तदेव सिद्धत्तणं च जं चेहं । तस्साहणं ति तो पुव्वभावनयओ इदं सिद्धी ॥३१६०॥
जेण उ न बोंदिकाले सिहो चायसमए य जं गमणं । पच्चुप्पण्णनयमयं सिज्झइ गंतूण तेणेह ॥३१६१॥
व्याख्या-- यस्मादिह मनुष्यक्षेत्रे बोन्द्याः शरीरस्य त्यागस्तदेव च सिद्धत्वं यः शरीरत्यागः, यस्माच्चेहैव तस्य सिद्धत्वस्य साधनं कारणं सम्यक्त्वप्रतिपत्त्यादि शैलेशीपर्यवसानं तत्साधनमस्ति, ततस्तस्माद् यः सिद्धिगमनसमयात् पूर्वमेव भावं मन्यते स | पूर्वभावनयो व्यवहारनयविशेषः कश्चित् । ततः पूर्वभावनयतः पूर्वभावनयमतेने हैव सिद्धिरिति । येन यस्मात् पुनर्बोन्दिकाल उपान्त्यसमये न नैव सिद्धः, यस्माच्च त्यागसमये गमनम् , य एव बोन्द्यास्त्यागसमयः 'परभवपढमे साडणं' इत्यादिवचनात् , स एव सिद्धिगमनसमय इत्यर्थः, तेन तस्मात् कारणात् प्रत्युत्पन्ननयमतमृजुसूत्रादिनिश्चयनयमतमाश्रित्य सिद्धिक्षेत्रं गत्वा सिध्यति, | बोन्दित्यागसमयसिद्धिगमनसमययोरेतन्मतेनैकत्वात् । अत एव तन्मतेनैवे होक्तम्-- 'तत्थ गंतूण सिज्झइ' इति ॥ ३१६०॥३६११ ॥
अथ 'किं सिद्धालयपरओ' इत्याद्याः भवओ सिद्धो ति मई' इति पर्यन्ताः सप्तदश गाथा: पूर्व षष्ठगणधरे लिखिताः, व्याख्याताश्चः इति नेह लिख्यन्त इति ॥
किं पुनस्तत् स्थानं यत्र गत्वा सिध्यति ? इत्याह--
अत्थीसीयज्झारोवलक्खियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धिक्खेत्तं जिणक्खायं ॥३१६२॥ प्रकटार्था ॥ ३१६२॥
१ अलोके प्रतिहताः सिद्धा लोकाग्ने च प्रतिष्ठिताः । इह शरीर त्यक्त्वा तत्र गत्वा सिध्येयुः ॥ ३१५९॥ २ यदिह शरीरत्यागस्तदेव सिद्धत्वं च यच्चेह । तत्साधनमिति ततः पूर्वभावनयत इह सिद्धिः ॥ ३१६० ॥
येन तु न शरीरकाले सिद्धस्त्यागसमये च यद् गमनम् । प्रत्युत्पन्ननयमतं सिध्यति गत्वा तेनेह ॥ ३१ ॥ ३ अस्त्यृष्यध्यारोपलक्षितं मनुजलोकपरिमाणम् । कोकामनभोभागः सिद्धिक्षेत्रं जिनाख्यातम् ॥ ३१६२ ॥
SSOolataka
॥१२१९॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #22
--------------------------------------------------------------------------
________________
मावरम
बृहद्वतिः ।।
एतदेवाहविशेषा०
'ईसी' इत्यादिका 'ओगाहणाई सिद्धे' इत्यादिगाथापर्यन्ताः पञ्चदश पायो नियुक्तिगाथाः सुगमाः, मूलावश्यकटीकातच ॥१२२०॥
बोद्धव्या इति ॥
किमित्यवगाहनया सिद्धा भगवन्तोऽवगाहनायास्त्रिभागन्यूना भवन्ति ? इत्याह'देहत्तिभागो सुसिरं तप्पूरणओ तिभागहीणो त्ति । सो जोगनिरोहे च्चिय जाओ सिद्धो वि तदवत्थो॥३१६३॥
देहस्य हृदयोदरायन्तः सच्छिद्रत्वात् तत्रिभागः शुषिरो वर्तते, जीवपदेशैस्तत्पूरणाच्च निबिडताऽऽपादनात् सिद्धो भगवान् अवगाहनातस्त्रिभागेम न्यूनो भवति । स च पूर्व योगनिरोधकाल एवेत्थंभूतो जातः, ततः सिद्धोऽपि तदवस्थ एवेति ॥३१६३॥
अथ प्रेर्य परिहारं चाह
संहारसंभवाओ पएसमेत्तम्मि किं न संठाइ ? । सामत्थाभावाओ सकम्मयाओ सहावाओ॥ ३१६४ ॥
ननु यद्यसौ स्वपदेशान् संहृत्य घनीभवति, तीत्थं संहारसंभवात् तथा किं न संहरति यथैकस्मिन्नाकाशप्रदेशे संतिष्ठते । अत्रोत्तरमाह- तथाविधसामर्थ्याभावात् , तथा, योगनिरोधकालेऽद्यापि सकर्मकत्वात् जीवस्वाभाव्याच्च नोक्तादपिकं संहव रतीति ॥ ३१६४ ॥
तर्हि पूर्व सकर्मकत्वाद् मैवं संहरतु, सिद्धः सन् किं तथा न संहरति ? इत्याह-- 'सिद्धो वि देहरहिओ सपयत्ताभावओ न संहरइ । अपयत्तस्स किह गई, नणु भणियाऽसंगयाईहिं ॥३१६५॥
सिद्धोऽपि देहाभावे स्वप्रयत्नाभावाद् नैवं संहरति । अप्रयत्रस्य कथं सिद्धक्षेत्रं यावद् गतिः इति चेत् । ननु भणितमत्रोतरम्-- 'असङ्गत्वादिकारणैरसौ भवति' इति ॥ ३१६५॥ 'तिनि सया तेत्तीसा' इत्यादिना योत्कृष्टाद्यवगाहना भणिता, सा कस्य द्रष्टव्या? इत्याह--
, देहविभागः शुषिरं तत्पूरणतस्विभागहीन इति । स योगनिरोध एव जातः सिद्धोऽपि तदवस्थः ॥ ३१ ॥ २ संहारसंभवात् प्रदेशमाने किंम संतिष्ठते । सामाभावात् सकर्मकत्वात् स्वभावात् ॥ ३॥६॥ ३ सिद्धोऽपि देहरहितः स्वप्रयत्नाभावतो न संहरति । अप्रयत्नस्य कथं गतिर्ननु, भणिताऽसङ्गतादिभिः? ॥३६५॥
मालSeasoolease
॥१२२०॥
Jain Educationa Inte
For Personal and Price Use Only
Page #23
--------------------------------------------------------------------------
________________
विशेषा० ॥१२२१॥
Jain Education Inter
'जेा उ पंचसयधस्स मज्झा य सत्तहत्थस्स । देहत्तिभागहीणा जहन्निया जा विहत्थस्स ॥ ३१६६ ॥ पाठसिद्धा ।। ३१६६ ॥
अत्र विनेयप्रश्नमुत्तरं चाह-
केह मरुदेवीमाणं नाभीओ जेण किंचिदूणा सा । तो किर पंच सय च्चिय अहवा संकोयओ सिद्धा ||३१६७॥
ननु मरुदेवीसिद्धस्य कथं 'तिनि सया तेत्तीसा' इत्यादि मानं घटते ? । सा हि नाभिकुलकरपत्नी, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि प्रमाणमागमे प्रोक्तम्, यदेव चास्य मानं तदेव मरुदेवाया अपि ""संघयणं संठाणं उच्चत्तं चैव कुलकरेहिं समं" इति वचनात् । ततस्तस्या देहमानस्य त्रिभागे पतिते सिद्धावस्थायां सार्धानि त्रीणि धनुःशतान्यवगाहना प्रामोतीति पृच्छतोऽभिप्रायः । अत्रोत्तरमाह-- येन यस्माद् नाभिकुलकरमानात् प्रमाणतोऽसौ किञ्चिद् न्यूना । ततः किल पञ्चधनुःशतमानैवेत्यदोषः । ' कुलकरेहिं समं' इत्यतिदेशोऽपि न बाधकः कियतापि न्यूनाधिक्येऽप्यतिदेश। नामागमे दर्शनादिति । अथवा, हस्तिस्कन्धाधिरूढत्वात् संकोचतः संकुचिताङ्गी सिद्धेयमिति न यथोक्तावगाहनाविरोध इति ।। ३१६७ ।।
अथ जघन्यावगाहनायां प्रेर्य परिहारं चाह-
I
तूसिसु सिद्धी जहन्नओ कहमिहं विहत्थेसु ? । सो किर तित्थयरेसुं सेसाणं सिज्झमाणानं ॥३१६८ ॥ ननु जघन्यपदे सप्तहस्तोच्छ्रितेषु सिद्धिः सिद्धान्ते निर्दिष्टा, इह तु 'ऍगाइ होइ रयणी' इत्यादिवचनात् कथं द्विहस्तेष्वसौ प्रोच्यते ? । अत्र निर्वचनमाह- या सिद्धान्ते सप्तहस्तानां सिद्धिरुक्ता सा किल महावीरादितीर्थकरेषु द्रष्टव्या, इह तु द्विहस्तानां सिद्धिः शेषाणां सामान्यकेवलिनां सिध्यतां मन्तव्येति ।। ३१६८ ।।
के पुनर्द्विहस्ताः सिध्यन्ति : इत्याह-
१ ज्येष्ठा तु पञ्चशतधनुषो मध्या च सप्तहस्तस्य । देहत्रिभागहीना जघन्यिका सा द्विहस्तस्य ॥ ३१६६ ॥
२ कथं मरुदेवीमानं नाभितो येन किञ्चिदूना सा । ततः किल पञ्च शतान्येवाथवा संकोचतः सिद्धा ॥ ३१६७ ॥
३ संहननं संस्थानमुच्चत्वं चैव कुलकरैः समम् ।
४ सप्तोच्छ्रितेषु सिद्धिर्जघन्यतः कथमिह विहस्तेषु ? स किल तीर्थंकरेषु शेषाणां सिध्यताम् ॥ ३१६८ ॥ ५ एकादिर्भवति हस्तः ।
For Personal and Private Use Only
| बृहद्वत्तिः ।
| ॥१२२१॥
Page #24
--------------------------------------------------------------------------
________________
विशेषा० ।।१२२२॥
Jain Educator inte
'ते पुण होज्ज विहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीण ति ॥ ३१६९ || ते जघन्यतो द्विहस्ताः कूर्मापुत्रादयो द्रष्टव्याः । अन्ये तु वदन्ति - 'सप्तहस्तोऽपि यन्त्रपीलनादिना संवर्तितः समाक्रोडितो यः सिध्यति तस्यात्र हीना जघन्यावगाहना प्रोक्तेति ।। ३१६९ ।।
अथवा समाधानान्तरमाह
बहुलाउ सुत्तम्मि सत्त पंच य जहन्नमुकोसं । इहरा हीणन्भहियं होज्जंगुल- धणुपुहत्तेहिं ॥ ३१७० ॥ अच्छेरयाई किंचि वि सामन्नसुए न देसिअं सव्वं । होज्ज व अणिबद्धं चिय पंचसयाएसवयणं व ॥ ३१७१ ॥ व्याख्या- अथवा, बाहुल्यात् प्राचुर्याश्रयणात् सूत्रे सप्त हस्ताः सिद्धिं गच्छतो जघन्यं मानमुक्तम्, उत्कृष्टं तु पञ्च धनुःशतानि प्रमाणमभिहितम् इतरथा कादाचित्कं जघन्यपदेऽङ्गुलपृथक्त्वैः, उत्कृष्टपदे धनुष्पृथक्त्वैर्हीनमभ्यधिकं वा तद् भवेदेवेति न कूर्मापुत्र-मरुदेव्यादिभिः कश्चिद् विरोध इति । आश्चर्यादिकं च किञ्चित् सामान्यश्रुते सर्व न देशितं न भणितम्, यथेदमेव सिद्धिं गच्छतां द्विहस्तमानं सपादपञ्चधनुः शतमानं चेति, अथ च श्रुतेऽनिबद्धमपि तदस्तीति श्रद्धेयम्, पञ्चशतादेशवचनवदिति ।। ११७० ।। ३१७१ ॥
यदुक्तम्- 'सैंठाणमणित्थंथं' इति, तद्वयाख्यानमाह-
सुसिरपरिपूरणाओ पुव्वागारन्नहाववत्थाओ । संठाणमणित्थंथं जं भणियं अणिययागारं ॥ ३१७२ ॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दहियाईणं । जमणित्थंथं पुव्त्रागारावेक्खाए नाभावो || ३१७३ || व्याख्या - शुषिरपरिपूरणात्, पूर्वाकारस्यान्यथाव्यवस्थापनात् सिद्धसंस्थानमित्थमनेन प्रकारेण तिष्ठतीति इत्थंस्थं न
१ ते पुनर्भवेयुर्द्विहस्ताः कूर्मापुत्रादयो जघन्येन । अन्ये संवर्तित सप्तहस्त सिद्धस्य हीनेति ॥ ३१६९ ॥
२ बाहुल्यात् सूत्रे सप्त पञ्च च जघन्यमुत्कृष्टम् । इतरथा हीनमधिकं भवेदङ्गुल-धनुष्पृथक्त्वैः ॥ ३१७० ॥
आश्चर्यादि किञ्चिदपि सामान्यश्रुते न देशितं सर्वम् । भवेद् वाऽनिबद्धमेव पञ्चशतादेशवचनमिव ॥ ३१७१ ॥ ३ नि०गा० ।
४ शुषिर परिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्थंस्थं यद् भणितमनियताकारम् ॥ ३१७२ ॥ एतस्मादेव प्रतिषेधः सिद्धादिगुणेषु दीर्घतादीनाम् । यदनित्थंस्थं पूर्वाकारापेक्षया नाभावः ॥ ३१७३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२१२२ ॥ ॥
Page #25
--------------------------------------------------------------------------
________________
विशेषा०
॥१२२३॥
Jain Education Internat
तथाऽनित्थस्थंमनियताकारमिति यदुक्तं भवति अनियताकार मित्युक्तं भवतीत्यर्थः । अत एव सिद्धस्यादेरारभ्य गुणाः सिद्धादिगुणास्तेषु प्रतिपाद्यमानेषु "से' न दीहे न हस्से न बट्टे" इत्यादिवचनेनागमे दीर्घत्वादीनां प्रतिषेधः कृतः । आह- यद्येवम्, सिद्धसंस्थानमभावः प्राप्नोति दीर्घत्वादिगुणैर्व्यपदेष्टुमशक्यत्वात् खरविषाणवृदिति । नैतदेवम् यस्मात् तदनित्थंस्थं पूर्वाकारापेक्षया भण्यते, सहि मूर्तत्वाद् दीर्घादिगुणैर्व्यपदिश्यते, न तु सिद्धजीवः, अमूर्तत्वात् । न चैतावता तत्संस्थानमभावः, मूर्तगुणानां दीर्घत्वादीनामभावेstयमूर्त गुणानां ज्ञानादीनां तत्र सद्भावादिति ।। ३१७२ ।। ३१७३ ।।
अत्र प्रेर्य - परिहारौ प्राह
नामुत्तरसागारो विन्नाणस्सेव, न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारं च विन्नाणं ॥ ३१७४ ॥
ननु यदि सिद्धजीवोऽमूर्तस्तहिं तस्यानित्थंस्थ संस्थानरूपो यः कोऽप्याकारो भवद्भिरिष्यते स न प्रामोति, अमूर्तत्वादेव, विज्ञानस्येवेति । सुरिराह- नैतदेवम्, यतो दृष्टः परिणामवतोऽमूर्तस्याप्याकारः, यथा कुम्भनभसः - घटाकाशस्येत्यर्थः । इह यत् परिणामवत् तस्याकारो दृष्टः, यथा घटपरिच्छिन्नस्याकाशस्य, घटाकारपरिणामवांश्च सिद्धजीवः, ततस्तस्याप्यनन्तरभवशरीरपरिच्छिन्नस्यास्त्युपाधिमात्रेण शरीराकारः । विज्ञानस्यापि दृष्टान्तत्वेनोपन्यस्तस्य निराकारत्वमसिद्धम्, यतो ज्ञेयाकारं विज्ञानमिष्यत एव, अन्यथा नीलज्ञानादपि पीतादिसमस्तवस्तुपरिच्छेदप्रसङ्गात्, नीलस्यापि वाऽपरिच्छेदापत्तेः, निराकारत्वाविशेषादिति ॥ ३१७४ ॥
इतोऽपि ज्ञानं साकारम् । कुतः १ इत्याह
जीवाणन्नं च जओ देहागारो य सो तहा तं पि । परिमियवत्थुत्तणओ जुत्तं कुंभो व सागारं ॥ ३१७५॥ यतश्च यस्माद् जीवादनन्यदभिन्नं विज्ञानम्, स च जीवो देहेन सर्वतः परिच्छिन्नत्वाद् देहाकार एष्टव्यः, तथा तेनैव प्रकारेण तदपि विज्ञानं परिमितवस्तुत्वाद् देहपरिच्छिन्नवस्तुत्वात् कुम्भवत् साकारं युक्तम्, न तु निराकारमिति ॥ ३१७५ ।। ननु यत्रैकः सिद्धस्तत्र किमन्येऽपि भवन्ति, उत देशभेदतस्तिष्ठन्ति । इत्यत्र नियुक्तिकारः प्राह-
१ स न दीर्घो न ह्रस्वो न वृत्तः ।
२ नामूर्तस्याकारो विज्ञानस्येव न कुम्भनभस इव दृष्टः परिणामवतो ज्ञेयाकारं च विज्ञानम् ॥ ३१७४ ॥
३ जीवानन्यच्च यतो देहाकारश्च स तथा तदपि । परिमितवस्तुत्वतो युक्तं कुम्भ इव साकारम् || ३१७५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२२३॥
Page #26
--------------------------------------------------------------------------
________________
विशेषा०
॥१२२४॥
जेत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सव्वे वि लोगते ॥३१७६।। पाठसिद्धा ॥ ३१७६ ॥ स्पर्शना तेषां परस्परं कथम् ? इत्यत्र प्रश्ने नियुक्तिकार एवाहफुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो। ते वि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥ ३१७७ ॥
स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमात् सिद्ध इति । तथा तेऽपि सर्वप्रदेशस्पृष्टभ्योऽसंख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, कथम् ? इति चेत् । उच्यते- सर्वप्रदेशैस्तावदनन्ताः स्पृष्टाः एवमेकैकेनापि जीवस्य देशेन प्रदेशेन चानन्ताः स्पृष्टाः, जीवश्चासंख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवदेश-प्रदेशाऽसंख्येयकेन गुणितं यथोक्तमेव भवतीति ॥ ३१७७॥ ___ अथ यदुक्तम्- "संठाणमणित्थंथं जरामरणविप्पमुकाणं' इति, तत्र परः पाह--
ने जरा-मरणविमुक्का जीवत्तणओ मइ मणुस्सो व्व । नहि जीवणविरहाओ न जीवणं कम्मविरहाओ॥३१७८॥
न जरा-मरणविमुक्ताः सिद्धा इति प्रतिज्ञा, जीवत्वादिति हेतुः, मनुष्यवदिति दृष्टान्ता मइ त्ति' इति परस्य मतिर्भवेत् ।। मूरिराह- नहि-नैवेदम्, हेतोरसिद्धत्वात् । तदसिद्धत्वं च प्राणधारणलक्षणस्य जीवनस्य तेषु विरहादभावात् जीवनाभावश्च कर्मविरहादिति ॥ ३१७८॥
इति परोपन्यस्तहेतुं निराकृत्य स्वपक्षसिद्धयर्थ युक्तिमाहवैयसो हाणीह जरा पाणच्चाओ य मरणमाइट । सइ देहम्मि तदुभयं तदभावे तं न खस्सेव ॥ ३१७९ ॥ 'जु वयोहानौ' इति धातुपाठाद् वयसो हानिरिह जरा प्रसिद्धा, प्राणत्यागश्च मरणमादिष्टम् । इदं च द्वितयमपि देहे सत्ये
, यन्त्र चैकः सिद्धस्तवानन्ता भवक्षयविमुक्ताः । अन्योन्यसमवगाढाः स्पृष्टाः सर्वेऽपि लोकान्ते ॥ ३१७६ ॥ २ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशोर्नियमतः सिद्धः । तेऽप्यसंख्येयगुणा देशप्रदेशैर्ये स्पृष्टाः ॥ ३१७७॥ ३ नि० गा। " न जरा-मरणविमुक्ता जीवत्वतो मतिर्मनुष्य इव । नहि जीवनविरहाद् न जीवनं कर्मविरहात ॥ ३१७८ ॥
4॥१२२४॥ ५ वयसो हानिरिह जरा प्राणत्यागा मरणमादिष्टम् । सति देहे तदुभयं तदभावे सन बस्येव ॥ ३१७९ ॥
Page #27
--------------------------------------------------------------------------
________________
R
विशेषा० ॥१२२५॥
व दृष्टम् । ततश्च तदभावे तदुभयमपि खस्याकाशस्येव सिद्धानां नास्तीति ।। ३१७९ ।।
अथ 'फुसइ अणते सिद्धे' इत्यादिगाथाभावनामाहऐगक्खेत्तेऽणंता पएसपरिवुड्ढि-हाणिओ तत्तो । होति असंखेज्जगुणासंखपएसो जमवगाहो ॥ ३१८० ॥
एकस्य सिद्धस्य यदवगाहनाक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः पाप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पञ्चादिप्रदेशवृद्ध्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । तथा, तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पश्चादिप्रदेशहान्या येवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं च सति प्रदेशपरिवृद्धि-हानिभ्यां ये समवगाढास्ते 'तत्तो त्ति' तेभ्यः परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, यद् यस्मादसंख्येयप्रदेशात्मक एकस्य सिद्धस्यावगाहः, प्रतिपदेशं चानन्ताः समवगाढा इति दर्शितमेव । ततो मूलानन्तकेऽसंख्येयैः प्रदेशैर्गुणिते समस्तानामसंख्येयगुणत्वं सिद्धम् ॥ ३१८० ।।
अत्राक्षेप-परिहारावाहऐगक्खेत्तेऽणंता किह माया, मुत्तिविरहियत्ताओ। नेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ॥ ३१८१॥ मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मइ परमाणूण य मुत्तिविमुक्केसु का संका ? ॥ ३१८२॥ | प्रकटार्थे, नवरं 'मुत्तिमयेत्यादि' मूर्तिमतामपि प्रदीपप्रभापुद्गलानामित्यर्थः ।। इति विंशतिगाथार्थः ॥ ३१८१ ॥३१८२ ॥
'असरीर-' इत्यादि नियुक्तिगाथात्रयं सुममम् , प्रायो गतार्थ च । 'मुत्तो करणाभावे-' इत्यादिकास्तु 'सुबहुयतरं' इत्यादिगाथापर्यन्ता नव गाथाः पूर्वमेकादशगणधरे व्याख्याता इति नेह लिख्यन्ते । 'न वि अस्थि माणुसाणं' इत्यादिकास्तु 'इय सव्वकाल-' इत्यादिगाथापर्यन्ताः सप्त नियुक्तिगाथाः सुगमाः, आवश्यके व्याख्याताश्चेति ॥
daee
॥१२२५॥
BRORRORE
१गाथा ३१७७ । २ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धि-हानितस्ततः । भवन्त्यसंख्येयगुणा असंख्यप्रदेशो यदवगाहः॥ ३१८॥
३ एकक्षेत्रेऽनन्ताः कथं माताः, मूत्तिविरहितत्वात् । ज्ञेय इव ज्ञनाानि दृष्टयो वैकरूपे ॥ ३१८१॥
मूर्तिमतामपि च समानदेशता दृश्यते प्रदीपानाम् । गम्यते परमाणूनां च मूर्तिविमुक्तेषु का शङ्का ? ॥३१८२ ॥
१५४
Jan Educational InternaOR
For Personal and Price Use Only
Page #28
--------------------------------------------------------------------------
________________
विशेषा० ॥१२२६ ॥
Jain Education Internat
'' इत्यादिगाथायां सिद्धसुखे यत् पुरुषोदाहरणमुक्तम्, तत्राह --
'तेसिं सिद्धत्तं पिव सोक्खमसाहारणं तओऽणुवमं । देसोवणयाओ पुण पुरिसोदाहरणमक्खायं ॥ ३१८३ ॥ सुगमा ॥ ३१८३ ॥
जैइवा संसारे च्चिय होज्ज तयं किंत्थ मोक्खचिंताए । तव्विहमच्चंतसुहं जत्थ व सोक्खेण संसारो ? ॥ ३१८४॥ यदि पुनः संसारेऽपि कस्यापि सर्वथा तत् सिद्धसुखसदृशं सुखं भवेत्, तत् किमत्र मोक्षचिन्तया, तत्सुखस्येहापि प्राप्तेः ९ । अथवा, यत्र तद्विधं सिद्धसुखप्रकारमात्यन्तिकं सुखं प्राप्यते स केन हेतुना संसारो भण्यते १ ननु मोक्ष एवासौ न चैवम् । तस्माद् देश साम्येनैव पुरुषोदाहरणं द्रष्टव्यमिति ।। ३१८४ ॥
तस्माद् निरुपममेव सिद्धिसुखमिति दर्शयन्नाह -
अतुलमणन्नसरिसयं निव्वाणं निव्वुई परं सोक्खं । अन्नेसिं निव्वाणं दीवरस व सव्वहा नासो ॥ ३१८५ ॥ अतुलमनन्यसदृशं निर्वाणं निर्वृतिः परं प्रकर्षप्राप्तं सौख्यमुच्यते, न पुनस्तस्य दृष्टान्तः कोऽप्यस्तीति भावः । अन्येषां तु तेन दीपस्येव जीवस्य सर्वथा नाशो निर्वाणमुच्यत इति, सर्वथा नष्टे प्रदीपे निर्वाणशब्दरूढेजवस्य सर्वथा नाशो निर्वाणमन्येषामभिप्रेतम् ।। ३१८५ ।।
युक्तिं च तेऽत्र प्राहु:--
जैं च तणु-कम्मसंतइनासो बीयंकुराण वा मोक्खो । अन्नो न य संताणी संताणाओ तओ नासो ॥ ३१८६ ॥ जं नारगाइभावो भवो व न य नारगाइओ भिन्नो। कोई जीवो तो नारगाइनासम्म तन्नासो ॥ ३१८७ ॥
१ तेषां सिद्धत्वमिव सौख्यमसाधारणं ततोऽनुपमम् । देशोपनयात् पुनः पुरुषोदाहरणमाख्यातम् ॥ ३१८३ ॥
यदि वा संसार एव भवेत् तत् किमन्त्र मोक्षचिन्तया । तद्विधमनन्तसुखं यत्र वा सौख्येन संसारः ? ॥ ३१८४ ॥ ३ अतुलमनन्यसदृशकं निर्वाणं निर्वृतिः परं सौख्यम् । अन्येषां निर्वाणं दीपस्येव सर्वथा नाशः ॥ ३१८५ ॥
४ यच्च तनु कर्मसंततिनाशो बीजा-ऽङ्कुरयोरिव मोक्षः । अन्यो न च संतानी संतानात् ततो नाशः ॥ ३१८६ ॥ यद् नारकादिभावो भव एव न च नारकादितो भिन्नः । कोऽपि जीवस्ततो नारकादिनाशे तनाशः ॥ ३१८७ ॥
For Personal and Private Use Only
68584sapp SARK
बृहद्वृत्तिः॥
॥। १२२६॥
Page #29
--------------------------------------------------------------------------
________________
विशेषा ० ॥। १२२७॥
Jain Education Interna
व्याख्या - यस्माच्च बीजाऽङ्कुरयोरिव तनुकर्मणोर्या संततिः संतानस्तन्नाशो मोक्ष इष्यते भवद्भिः, न चास्मात् संतानाद् व्यतिरिक्तः संतानी जीवो दृश्यते । ततश्च ननु कर्मसंततिविनाशे जीवस्यापि तद्वदेव नाशात् सर्वनाश एव मोक्षो युज्यत इति । 'भवो व त्ति' वाशब्दश्वशब्दार्थे । यस्माद् भवश्व संसारो नारक-तिर्यग्-नरा-मररूपेण भाव एवोच्यते नापरः, न च नारकादिभ्यो भिन्नो जीवः कोsपि दृश्यते, ततो नारकादिनाशे नारकादिभावरूपभवविनाश इत्यर्थः, 'तन्नासो चि' नारकायव्यतिरिक्तत्वात् तस्यापि जीवस्य सर्वथा नाश एव युज्यत इत्यर्थः ।। ३१८६ ।। ३१८७ ।।
अमेवार्थ दृष्टान्तोपन्यासेन समर्थयन्नाह
जैह तंतुमओ पडओ तंतुविणासम्मि सव्वहा नत्थि । तह नारगाइमइओ जीवो तदभावओ नत्थि ॥ ३१८८ || ॥ इति गाथापट्कार्थः ॥ ३१८८ ॥
' न हि नारगाई' इत्यादिकास्तु 'कयगाइभावओ' इत्यादिगाथापर्यन्ता एकोनत्रिंशगाथाः पूर्वमेकादशादिगणधरवादे व्याख्याताः ॥ 'सिद्ध त्ति य' इत्यादिकास्तु षड् निर्युक्तिगाथाः, सुगमाचेति ॥
॥ इति सिद्धनमस्कारः समाप्तः ॥
अथाचार्यनमस्कारमभिधित्सुराह—
नामं ठवणा दविए भावे य चउव्विहो य आयरिओ । दव्वम्मि एगभवियाइ लोईए सिप्पसत्थाई ॥ ३१८९॥ पंचविहं आयारं आयरमाणा तहा पयासेंता । आयारं दंसेता आयरिया तेण वुच्चति ॥ ३१९० ॥
इह नाम स्थापने सुगमे ।। ३१८९ ।। ३१९० ॥
द्रव्यविचारे पुनराह -
१ यथा तन्तुमयः पटकस्तन्तुविनाशे सर्वथा नास्ति । तथा नारकादिमयो जीवस्तदभावतो नास्ति ॥ ३१८८ ॥ २ नाम स्थापना द्रव्ये भावे च चतुर्विधश्चाचार्यः । द्रव्य एकभविकादिलौकिके शिल्पशास्त्रादिः ॥ ३१८९ ॥ पञ्चविधमा चारमाचरन्तस्तथा प्रभाषमाणाः । आचारं दर्शयन्त आचार्यास्तेनोच्यन्ते ॥ ३१९० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२२७॥
Page #30
--------------------------------------------------------------------------
________________
विशेषा. ॥१२२८॥
आगमदव्वायरिओ आयावियाणाउ अणुवउत्तो । नोआगमओ जाणय-भव्यसरीराइरित्तोऽयं ॥ ३१९१ ॥ भविओ बद्धाऊ अभिमुहो य मूलाईनिम्मिओ वावि । अहवा दव्वब्भूओ दव्वनिमित्तायरणओवा ॥३१९२॥
व्याख्या- ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयम् । कः ? इत्याह- 'भविओ इत्यादि' एकभविको बद्धायुष्कोभिमुखनाम-गोत्रश्चेत्यर्थः; 'मूलाईनिम्मिओ वावि ति' तथा, मूलगुणनिर्मित उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तो द्रव्याचार्यो मन्तव्यः । तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्तनयोग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति । अथवा, द्रव्यभूतोप्रधान आचार्यस्तद्वयतिरिक्तो द्रव्याचार्यः प्रतिपाद्यते । यो वा द्रव्यानिमित्तेनाचरति चेष्टते स द्रव्यनिमित्ताचरणाद् द्रव्याचार्यः । स च लौकिको लौकिकमार्गे शिल्पशास्त्रादिविज्ञेयः, यः शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारतः शिल्पशास्त्रादिरुक्तः । अन्ये विमं शिल्पशास्त्राचार्य लौकिकं भावाचार्य व्याचक्षते । शेष सुगममिति ॥ ३१९१ ॥३१९२ ॥
'पंचविहं' इत्यादिना लोकोत्तरो भावाचार्य उक्तः, तत्स्वरूपव्याख्यानार्थमाहओं मजायावयणो चरणं चारों त्ति तीए आयारो। सो होइ नाण-दसण-चरित्त-तव-वीरियवियप्पो ॥३१९३॥ तस्सायरण-पभासण-देसणओ देसिया विमोक्खत्थं । जे ते भावायरिया भावायारोवउत्ता य ॥ ३१९४ ॥ अहवायरंति जं सयमायारेंति व जमायरिजंति । मज्जाययाभिगम्मति जमुत्तं तेणमायरिआ ॥ ३१९५ ॥
पाठसिद्धा एव, नवरं 'तीए ति' तया मर्यादया चरणमाचारः । 'तस्सेत्यादि' तस्य पञ्चविधस्याचारस्य स्वयमाचरणतः, परेषां च प्रभाषणतः, तथा, घिनेयानां वस्तुमत्युपेक्षणादिक्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थ 'देसिय त्ति' देशितारस्ते भावाचारोपयुक्तत्वाद् भावाचायों इति । अथवा, स्वयं यस्मादाचरन्ति सदनुष्ठानम् , आचरयन्ति चान्यैः, अथवा, आचर्यन्ते
१ आगमद्रव्याचार्य आचारविज्ञानादनुपयुक्तः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ ३॥९॥
भविको बद्धायुरभिमुखश्च मूलादिनिर्मितो वापि । अथवा द्रव्यभूतो व्यनिमित्ताचरणतो वा ॥ ३१९२ ॥ २ा मर्यादावचनश्चरणं चार इति तयाऽऽचारः । स भवति ज्ञान-दर्शन-चारित्र-तपो-वीर्यविकल्पः ॥ ३१९३ ॥ तस्याचरण-प्रभाषण-देशनतो देशितारो विमोक्षार्थम् । ये ते भावाचार्या भावाचारोपयुक्तान ॥ ३१९४ ॥ अथवाचरन्ति यत् स्वयमारयन्ति वा यदाचर्यन्ते । मर्यादयाऽभिमन्यन्ते यदुक्तं तेनाचार्याः ॥ ३३९५ ॥
॥१२२८॥
Jan Education Inter
For Personal and Price Use Only
Page #31
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वत्तिः ।
॥१२२९॥
मर्यादयाऽभिगम्यन्ते यतो मुमुक्षुभिरिति यदुक्तम्- एतत् वात्पर्यमित्यर्थः, तेनाचार्याः ॥ इति गाथासप्तकार्थः ॥ ३१९३-९५॥ 'आयरिया' इत्यादिचतस्रो नियुक्तिगाथाः प्रागुक्तानुसारेण व्याख्येयाः॥
॥ इत्याचार्यनमस्कारः समाप्तः ॥ अथोपाध्यायनमस्कारमभिधित्सुराहनाम ठवणा दविए भावे य चउबिहो उवज्झाओ । दवे लोइयसिप्पा धम्मे तह अन्नतित्थीया ॥३१९६॥
नाम-स्थापनोपाध्यायौ सुबोधौ । द्रव्योपाध्यायांस्तु ज्ञ-भव्यशरीरव्यतिरिक्तावाह- 'द्रव्य इत्यादि' द्रव्वे विचार्य तद्वयतिरिक्त उपाध्यायः शिल्पायुपदेष्टा तथा, 'धम्मे त्ति' निजनिजधर्मोपदेष्टारोऽन्यतीर्थिकाश्च संसारनिबन्धनत्वेनाप्रधानभूतत्वात् तद्वयतिरिक्तद्रव्योपाध्याया मन्तव्या इति ॥ ३१९६ ॥
भावोपाध्यायानाह-- बोरसंगो जिणक्खाओ सज्झाओ कहिओ बुहे । तं उवइसति जम्हा उवज्झाया तेण वुच्चंति ॥ ३१९७ ॥
यो द्वादशाङ्गः स्वाध्यायः प्रथमतो जिनराख्यातः, ततो 'बुहे त्ति' प्राकृतत्वाद् बुधैर्गणधरादिभिः कथितः पारम्पर्येणोपदिष्टः, तं स्वाध्यायं मूत्रतः शिष्याणामुपदिशन्ति यस्मात् , तेनोपाध्याया उच्यन्ते । अत एवं 'इङ् अध्ययने उपेत्य सूत्रमधीयते येभ्य: शिष्यैस्ते उपाध्याया भण्यन्त इति ।। ३१९७॥
सांपतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाहउत्ति उवओगकरणे झत्ति य ज्झाणस्स होई निदेसे । एएण होइ उज्झा एसो अण्णो वि पजाओ ॥३१९८॥
'उ' इत्येतदक्षरमुपयोगकरणे वर्तते 'झा' इति चेदं ध्यानस्य निर्देशे । ततश्च प्राकृतशैल्यैतेन कारणेन भवन्ति 'उज्या' उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः । एषोऽनन्तरोक्तोपाध्यायशब्दापेक्षयाऽन्योऽपि पर्याय इति ॥ ३१९८ ॥
नाम स्थापना द्रव्ये भावे च चतुर्विध उपाध्यायः । द्रव्ये लौकिकशिल्पाद् धर्म तथाऽन्यतीर्थीयाः ॥ १९ ॥ २ द्वादशाको जिनात्यातः स्वाध्यायः कथितो बुधैः । तमुपदिशन्ति यस्मादुपाध्यायास्तनोच्यन्ते ॥ ३१९ ॥ । रित्युपयोगकरणे झेति च ध्यानस्य भवति निर्देशे । एतेन भवत्युज्झा एषोऽन्योऽपि पर्यायः ॥ ३१९८ ॥
॥१२२९॥
HOLOG
JainEducatiora internal
For Personal and Price Use Only
Page #32
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२३०॥
Jain Education Internati
अथोपाध्यायशब्दार्थ भाष्यकारः प्राह
वगम्म जओऽहीयइ जं चोवगयमज्झयाविति । जं चोवायज्झाया हियस्स तो ते उवज्झाया ॥ ३१९९ ॥ उपगम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्त उपाध्यायाः, यच्च यस्मादुप समीपे गतं प्राप्तं शिष्यमध्यापयन्ति तत उपाध्यायाः, यस्माच्च स्वपरहितस्योपायध्यायका उपायचिन्तकास्ततस्त उपाध्याया इति ।। ३१९९ ॥
आचार्योपाध्याययोभाग्यकारो विशेषमाह
आयारदेसणाओ आयरिया विणयणादुवज्झाया । अत्थपदायगा वा गुरवो सुत्तस्सुवज्झाया ॥ ३२०० ॥
प्रकटार्थेव । इति गाथापञ्चकार्थः ।। ३२०० ॥ 'उवज्झाया' इत्यादिचतस्रो गाथाः पूर्ववत् ॥
॥ इत्युपाध्यायनमस्कारः समाप्तः ॥ साधुनमस्कारे दश निर्युक्तिगाथाः सुगमाः, गतार्थाश्चेति ॥ ॥ तदेवमवसितं वस्तुद्वारम् ॥
अथाक्षेपद्वारं वक्तव्यम्, तत्र परः प्राह-
विसंखेवो न वित्थारो संखेवो दुविहो सिद्ध-साहूणं । वित्थरओऽणेगविहो पंचविहो न जुज्जए तम्हा ॥ ३२०१ ॥
इह किल सूत्रं संक्षेप-विस्तरावतिक्रम्य न वर्तते । तत्र संक्षेपवद् यथा सामायिकसूत्रम्, विस्तरवद् यथा चतुर्दश पूर्वाणि । इदं पुनर्नमस्कारसूत्रमुभयातीतम्, यतोऽत्र न संक्षेपो नापि विस्तरः; तथा 'संखेवो दुविहो ति' यद्यय संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् सिद्ध-साधुभ्यामिति, परिनिर्वृताईदादीनां सिद्धशब्देन ग्रहणात्, संसारिणां तु साधुशब्देनेति । संसारिणो हाईदा -ऽऽचार्यादयो न साधुत्वमतिवर्तन्ते । अथाऽयं विस्तरतः, तदप्युक्तम्, यतो विस्तरतोऽनेकविध
१ उपगम्य यतोऽधीयते यच्चोपगतमध्यापयन्ति । यच्चोपायध्यायका हितस्य ततस्त उपाध्यायाः ॥ ३१९९ ॥
२ आचारदेशनादाचार्या विनयनादुपाध्यायाः । अर्थप्रदायका वा गुरवः सूत्रस्योपाध्यायाः ॥ ३२०० ॥
३. नापि संक्षेपो न विस्तरः संक्षेपो द्विविधः सिद्ध-साधुभ्याम् । विस्तरतोऽनेकविधः पञ्चविधो न युज्यते तस्मात् ॥ ३२०१ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
॥१२३०॥
Page #33
--------------------------------------------------------------------------
________________
विशेषा० ॥१२३१ ॥
Jain Education Interna
नमस्कारः प्राप्नोतिः तथाहि - ऋषभा ऽजित संभवादिभ्यो नामग्राहं सर्वतीर्थकरेभ्यः, तथा सिद्धेभ्योऽप्येक-द्वि-त्रि- चतुष्पश्चादिसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा, तीर्थ-लिङ्ग-प्रत्येक बुद्धादिविशेषणविशिष्टेभ्य इत्यादिभिर्भेदैर्विस्तरतोऽनन्तभेदो नमस्कारः मानोति । यतश्चैवम् तस्मादमुं पक्षद्वयमप्यङ्गीकृत्य पश्चविधोऽयं नमस्कारो न युज्यते ।। ३२०१ ।।
॥ तदेवमुक्तमाक्षेपद्वारम् ॥
अथ प्रसिद्धिद्वारम् । तत्र प्रसिद्धिराक्षेपस्य प्रतिविधानमभिधीयते । इह चेदं प्रतिविधानम्- 'न संक्षेपो नापि विस्तरतः' इत्येतदसिद्धम्, संक्षेपत्वादस्य । अथ संक्षेपकारणवशात् कृतार्था ऽकृतार्थपरिग्रहेण सिद्ध-साधुमात्रक एवोक्त इति चेत् । तदयुक्तम्, कारणान्तरस्यापि सद्भावात् तथा चाह
अरिहंताई नियम साहू साहू उ तेसु भएयव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो ॥ ३२०२ ॥
इहाईदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् ; साधवस्तु तेष्वईदादिषु भक्तव्या विकल्पनीयाः, यतस्ते न सर्वेstoदादयः, किं तर्हि ?; केचिदर्हन्तः येषां तीर्थकर नामकर्मोदयोऽस्ति, केचित् तु सामान्यकेवलिनः अन्ये त्वाचार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतदविशिष्टाः सामान्यसाधव एव शिक्षकादयो न पुनरर्हदादयः । तदेवं साधूनामदादिषु व्यभिचारात् तनमस्करणेऽपि नार्हदादिनमस्कार साध्यस्य विशिष्टस्य फलसिद्धिः । ततश्च संक्षेपेण द्विविधनमस्करणमयुक्तमेव, अव्यापकत्वादितिः अत्र प्रयोगः -- साधुमात्रनमस्कारो विशिष्टोऽईदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारकृत्त्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद् वेति । तस्मात् संक्षेपतोऽपि पञ्चविध एव नमस्कारो न तु द्विविधः, अव्यापकत्वात् ; विस्तरस्तु नमस्कारो न विधीयते, अशक्यत्वात् । तथा, 'मग्गे अविष्वणासो' इत्यादिको यः पूर्व पञ्चविधो हेतुरुक्तस्तन्निमित्तमप्ययं पञ्चविधः सिद्धो भवति ।। इति नियुक्तिगाथाद्वयार्थः ॥ ३२०२ ॥
अथ भाष्यकार आक्षेपविवरणमाह-
निव्य-संसारिकया कयत्थलक्खणविहाणओ जुत्तो । संखेवनमुक्कारो दुविहोऽयं सिद्ध-साहूणं ॥ ३२०३ ॥
१ अहंदादयो नियमात् साधवः साधवस्तु तेषु भक्तव्याः । तस्मात् पञ्चविधः खलु हेतुनिमित्तं भवतु सिद्धः ॥ ३२०२ ॥ २ निर्वृत संसारिकृताकृतार्थ लक्षणविधानतो युक्तः । संक्षेपनमस्कारो द्विविधोऽयं सिद्ध-साधूनाम् ॥ ३२०३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥१२३१॥
Page #34
--------------------------------------------------------------------------
________________
विशेषा०
॥१२३२॥
Jain Educationa Inter
उस भाईणमणंतर सिद्धाणं जिणाइयाणं च । वित्थरओ पंचविहो नवि संखेवो न वित्थारो ॥ ३२०४ ॥ गतार्थे || ३२०३ || ३२०४ ॥
अथ प्रसिद्धिविवरणमाह
जैइवि जइग्गहणाओ होइ कथं गहणमरुहयाईणं । तह वि न तग्गुणपूया जइगुणसामण्णपूयाओ ॥३२०५॥ परिणामसुद्धिऊं व पयत्तो साय बज्झवत्थूओ । पायं गुणाहिआओ जा सा न तदूणगुणलब्भा ||३२०६|| जह मणुयाइगहणे होइ कथं गहणमरुहयाईणं । न य तव्विसेसबुद्धी तह जइसामण्णगहणम्मि || ३२०७॥ जइ एवं वित्थरओ जुत्तो तदणंतगुणविहाणाओ । भण्णइ तदसझमओ पंचविहो हेउभेयाओ ॥ ३२०८ ॥ मग्गोवएसणाई सोऽभिहिओ तप्पभेयओ भेओ । जह लावगाइभेओ दिट्ठो लवणाइकिरिआओ || ३२०९ ॥
एता अपि गतार्था एव, नवरं 'तह जईत्यादि' तथा तैनेव प्रकारेण यतेः साधोः सामान्यं तद्ग्रहणे सति नार्हदादिविशेषवती बुद्धिरुत्पद्यत इति । ' तदणंतगुणेत्यादि तेषामईदादीनां येऽनन्ता गुणाः प्रत्येकं क्षेत्र काल-जाति-गोत्र प्रमाणाऽऽकृति वयः संयमादिविशेषरूपा उपाधयस्तैः कृत्वा विधानाद् नमस्कारस्य करणादिति । 'जह लावगाईत्यादि' यथा लावक प्लावक पाचक-पाठकयाचकादीनां वन-वन- पचन-पठन- याचनादिक्रियातो भेदो दृष्टः ॥ इति गाथासप्तकार्थः ।। ३२०५ - ३२०९ ।।
अथ क्रमद्वारविचारमाह-
१ ऋषभादीनामनन्तर सिद्धादीनां जिनादिकानां च विस्तरतः पञ्चविधो नापि संक्षेपो न विस्तारः ॥ ३२०४ ॥ २ यद्यपि यतिग्रहणाद् भवति कृतं ग्रहणमर्हदादीनाम् । तथापि न तद्गुणपूजा यतिगुणसामान्यपूजातः ॥ ३२०५ ॥ परिणामशुद्धिहेतोर्वा प्रयत्नः सा च बाह्यवस्तुनः । प्रायो गुणाधिकाद् या सा न तदूनगुणलभ्या ॥ ३२०६ ॥ यथा मनुजादिग्रहणे भवति कृतं ग्रहणमर्हदादीनाम् । न च तद्विशेषवुद्धिस्तथा यतिसामान्यग्रहणे ॥ ३२०७ ॥ यद्येवं विस्तरतो युक्तस्तदनन्तगुणविधानात् । भण्यते तदसाध्यमतः पञ्चविधो हेतुभेदात् ॥ ३२०८ ॥ मार्गेौपदेशनादिः सोऽभिहितस्तत्प्रभेदतो भेदः । यथा लावकादिभेदो दृष्टो लवनादिक्रियातः ॥ ३२०९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२३२॥
Page #35
--------------------------------------------------------------------------
________________
विशेषा ॥१२३३॥
पुव्वाणुपुग्विन कमो नेव य पच्छाणुपुब्बिएं स भवे । सिद्धाईआ पढमा बीयाए साहुणो आई ॥ ३२१० ॥
इह क्रमस्तावद् द्विविधः- पूर्वानुपूर्वी वा, पश्चानुपूर्वी वेति । अनानुपूर्वी किल क्रम एव न भवति, असमञ्जसत्वात् । तत्रायमहंदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धानामादावनभिधानात् , एकान्तकृतकृत्यत्वेन, तथा, 'सिद्धार्थ नमोकारं काऊणमभिग्गहं तु | सो गिण्हे' इति वचनादहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात् , प्रधानस्य चाभ्यार्हितत्वेन पूर्वाभिधानादिति भावार्थः । तथा, नैव च पश्चानुपूर्येष क्रमो भवेत् , साधूनां प्रथममनभिधानात् । इहाप्रधानत्वात् सर्वपाश्चात्या हि साधवः। ततश्च तानादौ प्रतिपाद्य यदि पर्यन्ते सिद्धाभिधानं स्यात् तदा भवेत् पश्चानुपूर्वी । तस्मात् प्रथमायाः सिद्धादित्वात् , द्वितीयायास्तु साध्वादित्वाद् नेयं पू. र्वानुपूर्वी, नापि पश्चानुपूर्वी ॥ इति नियुक्तिगाथार्थः ।। ३२१० ॥
एतदेव भाष्यकारः पाह'जेण कयत्था सिद्धा न जिणा, सिद्धाइओ कमो जुत्तो । पच्छक्कमो व जइ संजयाइसिद्धावसाणा तो॥३२११॥
जं च जिणाण वि पुजा सिद्धा जं तेसिं निक्कमणकाले । कयसिद्धनमुक्कारा करिति सामाइयं सव्वे॥३२१२॥ गतार्थे ॥ ३२११ ।। ३२१२ ॥ अत्रोत्तरमाह
अरहंतुवएसेणं सिहा नजति तेण अरहाई । न वि कोइ परिसाए पणमित्ता पणमइ रन्नो ॥ ३२१३ ॥
इह तावदयं पूर्वानुपूर्वीक्रम एव । यदप्युक्तं 'सिद्धादिरयं प्रामोति' । तदयुक्तम् , यतोऽईदुपदेशेनैव सिद्धा अपि सायन्ते, प्रत्यक्षादिगोचरातीतत्वेनागमगम्यत्वात् तेषाम् । तेन तस्मादईदादिरेव पूर्वानुपूर्वीक्रम इति गम्यते । अत एव चाईतामभ्यहितत्वमव
, पूर्वानुपूर्वी न क्रमो नैव च पश्चानुपूर्व्या स भवेत् । सिद्धादिका प्रथमा द्वितीयायां साधव आदौ ॥ ३१॥ २ सिद्धानां नमस्कारं कृत्वाऽभिग्रहं तु स गृहीयात् । । येन कृतार्थाः सिद्धा न जिनाः, सिद्धादिकः क्रमो युक्तः । पश्चाक्रमो वा यदि संयतादिसिद्धावसाना ततः ॥ ३२॥
यच्च जिनानामपि पूज्याः सिद्धा यत् तेषां निष्कमणकाले । कृतसिद्धनमस्काराः कुर्वन्ति सामायिकं सर्वे ॥ ३२॥२॥ • अहंदुपदेशेन सिद्धा ज्ञायन्ते तेनाईदादिः । नापि कश्चित् परिषदे प्रणम्य प्रणमति राज्ञे ॥ ३५॥
॥१२३३॥
For Personal and
Oy
Page #36
--------------------------------------------------------------------------
________________
विशेषा ॥१२३४॥
सेयम् । कृतकृत्यमप्यल्पकालव्यवहितत्वात् प्रायः समानमेव । तथा नमस्कार्यत्वमप्यसाधकमेव, अहन्नमस्कारपूर्वकमेव सिद्धत्वप्राप्तेरहतामपि वस्तुतः सिद्धनमस्कार्यत्वादिति । आह- यद्येवम् , ताचार्यादिभिः क्रमः प्राप्तः, अर्हतामप्याचार्योपदेशेन परिज्ञानादिति । तदयुक्तम् , यस्मादहत्-सिद्धयोरेवायं वस्तुतस्तुल्यवलयोर्विचारः श्रेयान् , परमनायकपदवर्तित्वात् तयोः । आचार्यास्त्वतां परिषकल्पा एवं वर्तन्ते । नापि कश्चित् परिषदे प्रणम्य नामं कृत्वा ततः प्रणमति राज्ञे । इत्यतोऽर्यमेवेदम् ।। इति नियुक्तिगाथार्थः।।३२१३॥
भाष्यकार:पाह
जइ एवं आयरिओवएसओ जं जिणाइपडिवत्ती । तेणायरियाई कमो जुत्तो नो चेदणेगंतो ॥३२१४॥
यद्यहंदुपदेशेन सिद्धा ज्ञायन्त इत्यहतामादौ नमस्कारः, तद्देवं सत्याचार्योपदेशत एवं यस्माजिनादीनामर्हदादीनां प्रतिपतिर्भव्यलोकस्योपजायते, तस्मादाचार्यादिरेव क्रमो युक्तः, न चेदेवमिष्यते, तर्खनेकान्तोऽयं यदुपदेशेन यो ज्ञायते तस्य प्राधान्यमिनरस्य च गुणभाव इति ॥ ३२१४ ।।
पर एवाह
जुत्तो व गणहराणं जिणाइओ जं जिणोवएसेणं । जाणंति ते विसेसे, सेसा उ गुरूवएसेणं ॥३२१५॥
काका वदति- युक्तो वा गणधराणां गौतमादीनामयं जिनादिरहंदादिः क्रमः, यस्मात् ते गौतमादयो जिनस्याहत एवोपदेशेनावशेषान् सिद्धा-ऽचार्यादीन् जानन्ति, शेषास्तु गणधरशिष्य-प्रशिष्यादयो निजनिजगुरूपदेशेन सिद्धादीनहतश्च जानन्ति । ततः केपाश्चिदईदादिः, केषाश्चिदाचार्यादिः क्रमस्त्वदभिप्रायतोऽनियमेन भवत्विति ।। ३२१५ ॥
तथा पर एवाह
अहवा आयरिउ च्चिय सो तेसिं मई तओ पसत्तो भे। आयरियाइउ च्चिय एवं सइ सव्वसाहूणं॥३२१६॥
Pasce
॥१२३४॥
१ पवमाचार्योपदेशतो यज्जिनादिप्रतिपत्तिः । तेनाचार्यादिः क्रमो युक्तो नो चेदनेकान्तः ॥ ३२१४ ॥ २ युक्तो वा गणधराणां जिनादिको यज्जिनोपदेशेन । जानन्ति ते विशेषान् शेषास्तु गुरूपदेशेन ॥ ३२१५ ॥ ३ अथवाऽऽचार्य एवं स तेषां मतिस्ततः प्रसक्तो भवताम् । आचार्यादिक एवैवं सति सर्वसाधूनाम् ॥ ३२१६ ।
Jan Education Intem
For Personal and Price Use Only
Page #37
--------------------------------------------------------------------------
________________
॥१२३५॥
अथवा मतिः- स जिनो भगवानाचार्य एव तेषां गणधराणामाचारप्रवर्तकत्वमाश्रित्येति भावः। ततश्चैवं सति में भवतामाचार्यादिरेव सर्वसाधूनां गणधरादीनां क्रमः प्रसक्तः प्राप्त इति ॥ ३२१६ ॥
बृहद्वत्तिः। अत्र मूरिरुत्तरमाहपंढमोवएसगहणं तं चारुहओ न सेसएहितो । गुरवो वि तदुवइहस्स चेव अणुभासया नवरं ॥३२१७॥ अरहंत-गुरू-वज्झायभावओ तस्स गणहराणं पि । जुत्तो तयाइउ च्चिय न गुरु त्ति तओ जिणो न भवे ॥३२१८॥ स जिणो जिणाइसयओसो चेव गुरू गुरूवएसाओ। करणाइविणयणाओ सो चेव मओ उवज्झाओ॥३२१९॥
व्याख्या- इह यद्यप्याचार्यादयोऽप्यहंदादीनुपदिशन्ति तथापि यत प्रथममुपदेशग्रहणं गणधराणां तदधिकृत्योच्यते । तच्चाईत एव सकाशात् , न शेषेभ्य आचार्यो-पाध्यायादिभ्यः । येऽपि गुरव आचार्यादयोऽहंदादीनुपदिशन्ति तेऽपि तदुपदिष्टस्याईदुपदिष्टस्यैव केवलमनुभाषका न पुनः स्वातन्त्र्येण देशका इति । अथवा, यद्यप्याचार्याधुपदेशेनाईन्तो ज्ञायन्त इत्यभ्युपगम्यते, तथाप्यईदादिरेव क्रमः। कुत इत्याह- 'अरहंतेत्यादि' गणधराणाम् , अपिशब्दाच्छेषाचार्यादीनामपि तदादिरईदादिरेव क्रमो युक्तः। कुतः ? इत्याह- तस्याईत एवाईद्गुरूपाध्यायभावतः। स एव हि महावीरादिभगवानष्टमहापातिहार्याधतिशययोगादईन् , स एव तत्त्वोपदेशादिभ्यो गुरुराचार्यः, स एव चेन्द्रिय-कषाय-योगादिविनयनादुपाध्यायः । ततश्चाचार्यादिक्रमेऽपि परेणापाद्यमाने सामादईदादिरेव क्रमः संपद्यत इति भावः । न चायं गुरुराचार्य इत्यतो जिनोऽईन् न भवेत् , किन्तु भवेदेव, जिनातिशययोगादिति ।। एतदेवाह- 'स जिणो इत्यादि गतार्था ।। ३२१७ ॥ ३२१८ ।। ३२१९ ॥
अथ यदुक्तम्- "जं च जिणाण वि पुज्जा सिद्धा' इत्यादि, तत्राहजैइ सिद्धनमोकार छउमत्थो कुणइ न य तदाईओ। तं पइ तया न दोसो न हि सो तकालमरुहंतो ॥३२२०॥
प्रथमोपदेशग्रहणं तच्चाहतो न शेषकेभ्यः । गुरवोऽपि सदुपदिष्टस्यैवानुभाषका नवरम् ॥ ३२१७॥ भहंद्-गुरू-पाध्यायभावतस्तस्य गणधराणामपि । युक्तस्तदादिक एव न गुरुरिति सको जिनो न भवेत् ॥ ३२८॥
स जिनो जिनातिशयतः स एव गुरुगुरूपदेशात् । करणादिविनयनात् स एव मत उपाध्यायः ॥ ३२१९ ॥ २ गाथा ३२१२ । । यदि सिद्धनमस्कारं छमस्थः करोति न च तदादिकः । तं प्रति तदा न दोषो न दिस तस्काकईन् ॥ ३२२०॥
१२३५॥
Jan Education Intended
For Personal and Price Use Only
IBa
Page #38
--------------------------------------------------------------------------
________________
विशेषा.
यदि निष्क्रमणकाले भगवांश्छद्यस्थो गुणाधिकानां सिद्धानां नमस्कारं करोति, करोतु नाम तदा, न कश्चिद् दोषः । के प्रति न दोषः ? इत्याह-तं छअस्थतीर्थङ्करं प्रति । न ह्यसौ तत्कालमर्हन् , केवळोत्पत्तावेव तद्भावादिति । यदि च्छद्मस्थतीर्थकरा- बृहद्वतिः । पेक्षया गुणाधिकाः सिद्धा भवद्भिरपीष्यन्ते, तर्हि कथं छद्मस्थतीर्थकरादिर्नमस्कारः इति चेत् । तदयुक्तम् । कुतः? इत्याह-न च तदादिश्छद्मस्थतीर्थकरादिनमस्कार इष्यतेऽस्माभिः, किन्तु समुत्पन्न केवळज्ञानाऽहंदादिरेव । स च केवल्यर्हन् सिद्धादिवस्तुस्तोमस्वरूपोपदेशदानतः सिद्धेभ्यो गुणाधिक इत्युक्तमेवेति । अतोऽईदादिरेव नमस्कार इति ॥ ३२२०॥
अत्राक्षेप-परिहारौ प्राइ
एवमकयत्थकाले सिद्धाई होउ, भण्णइ तयावि । अण्णे संतरुहंता तओ तयाई तओ निच्चं ॥ ३२२१॥
यदि कछद्मस्थतीर्थकरापेक्षया गुणाधिकाः सिद्धाः, तद्देवं सत्यकृतार्थच्छमस्थतीर्थकरकाले सिद्धादिर्नमस्कारो भवतु, न्यायोपपन्नत्वादिति । भण्यतेऽत्रोत्तरम्- हन्त ! यदात्र भरतादौ च्छद्मस्थतीर्थकरस्तदापि महाविदेहेष्वन्ये केवलिनोईन्तः सन्ति । ततस्तदादिरईदादिरेव तकोऽसौ नमस्कारो नित्यं सर्वदा ।। इति गाथाष्टकार्थः ॥ ३२२१ ।।
॥ तदेवमुक्तं क्रमद्वारम् ॥ अथ प्रयोजन-फलयोर्दर्शनार्थमाह
ऐत्थ य पओयणमिणं कम्मक्खय मंगलागमो चेव । इहलोय-पारलोइयकुविहफलं तत्थ दिलुता ॥३२२२॥
अत्र च नमस्कारकरणे प्रयोजनमिदं यदुत- करणकाल एवाक्षेपेण ज्ञानावरणादिकर्मक्षयः, अनन्तकर्मपुद्गलापगममन्तरेण भावतो नमस्कारस्याप्यप्राप्तेरित्युक्तमेव तथा, मङ्गलागमश्चैव यः करणकालभावीति तथा, कालान्तरभावि पुनरैहलौकिक-पारलौ| किकभेदभित्रं द्विविधं फलम् । तत्र दृष्टान्ता वक्ष्यमाणलक्षणा इति ।। ३२२२ ॥ तदेव द्विविधं फलं तावद् विवृण्वन्नाह१ एषमकृतार्थकाले सिद्धादिर्भवतु, भण्यते तदापि । अन्ये सन्त्यर्हन्तस्ततस्तदादिः सको नित्यम् ॥ ३२॥
॥ि१२३६॥ २ अत्र च प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्चैव । ऐहलौकिक-पारलौकिकद्विविधफलं तत्र दृष्टान्ताः ॥ ३२२२ ॥
SRO
CORRECTIONEERIES
For Personal
Use Only
Page #39
--------------------------------------------------------------------------
________________
विशेषा०
॥१२३७॥
इहलोए अत्थ-कामा आरोग्गं अभिरई य निप्फत्ती । सिद्धी य सग्ग-सुकुलपज्जायाई य परलोए ॥३२२३॥
इहलोके नमस्कारादर्थ-कामौ भवतः, आरोग्यं निरुजत्वमुपजायते । एते चार्थादयः शुभविपाकिनोऽस्माद् भवन्ति तथा चाह- आभिमुख्येन रतिरभिरतिः, सा चेहलोकेऽप्यर्थादिभ्यो भवति, परलोकविषया तु तेभ्य एव, शुभानुबन्धित्वात् । निष्पत्तिः 'पुण्यस्य' इति गम्यते; अथवा, 'अभिरतेश्च निष्पत्तिः' इत्येकवाक्यतैव । तथा, सिद्धिश्च मुक्तिश्च, स्वर्गः, सुकुलमत्ययादिश्च परलोके इत्यस्यामुष्मिकफलमिति ॥ ३२२३ ॥
अथात्र द्विविधेऽपि फले पूर्वोपक्षिप्तान् दृष्टान्तानाह
इहलोगम्मि तिदंडी सा दिव्वं माउलुंगवणमेव । परलोए चंडपिंगल इंडियजक्खो य दिटुंता ॥ ३२२४ ॥ इयं सकथानकभावार्था मूलावश्यकटीकातोऽवसेया ॥ इति नियुक्तिगाथार्थः ॥ ३२२४ ॥ अथ भाष्यकारः प्रयोजन-फलयोर्विवरणमाहसैयओवओगकिरियागुणलाभो तप्पओयणमिहेव । कालंतरनिप्फत्ति फलमिह-परलोग-मुक्खेसु ॥३२२५॥
कम्मक्खओऽणुसमयं तल्लाभे चेव तदुवओगाओ। सव्वत्थेसु य मंगलमविग्घहेऊ नमोकारो ॥ ३२२६ ॥
व्याख्या- तस्य नमस्कारस्य प्रयोजनं तत्प्रयोजनमिहवेहलोक एव । किमिति । अत्रोच्यते- तद्विषयसततोपयोगक्रियया यः कर्मक्षय-क्षयोपशमादिगुणस्य लाभः। फलं तु नमस्कारस्य 'कालंतरनिप्फत्ति ति' कालान्तरे निष्पत्तिर्यस्य तत् कालान्तरनिष्पत्ति कालान्तरभावीत्यर्थः। तच्च ‘इह त्ति' इहलोकेऽर्थ-कामादिकम् , 'परलोए त्ति' परलोके स्वर्गादिकम् , मोक्षे तु जरा-मरणाभावादिकमिति । तदेवं सामान्यतः प्रयोजनं फलं चोपदर्शितम् । अथ प्रयोजनं विशेषतो दर्शयति- 'कम्मेत्यादि' 'तल्लाभे चेव त्ति' तस्य नमस्कारस्य लाभकाल एव तदुपयोगाद् नमस्कारोपयोगादनुसमयं कर्मक्षयो भवति तथा, सर्वार्थेषु च सर्वकार्येषु प्रवृत्तानां
इहलोकेऽर्थ-कामावारोग्यमभिरतिश्च निष्पत्तिः । सिद्धिश्च स्वर्ग-सुकुलपर्यायादिश्च परलोके ॥ ३२२३ ॥ २ इहलोके निदण्डी सा दिव्यं मातुलुङ्गवनमेव । परलोके चण्डपिङ्गलो हुण्डिकयक्षश्च दृष्टान्तौ ॥ ३२२४ ॥ ३ सततोपयोगक्रियागुणलाभस्तत्प्रयोजनमिहैव । कालान्तरनिष्पत्ति फलमिह-परलोक-मोक्षेषु ॥ ३२२५ ॥ कर्मक्षयोऽनुसमयं तलाम एव तदुपयोगात् । सर्वार्थेषु च मङ्गलमविघ्नहेतुर्नमस्कारः ॥ ३२२६ ॥
२॥१२३७॥
For Personal and
Use Only
Page #40
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वृत्तिः ।
॥१२३८॥
मङ्गलमविघ्नहेतुर्नमस्कारः संपद्यत इति ॥ ३२२५ ॥ ३२२६ ॥
अत्र कश्चिदाह- 'ननु नमस्कारोपयोगात् कर्मक्षयो भवति' इत्येतत् कुतः ? इत्याह
सुयमागमो त्ति तओ सुओवओगप्पओयणो तं च । आयहियपरिण्णाभावसंवराई बहुविगप्पं ॥ ३२२७ ॥
तकोऽसौ नमस्कारः श्रुतमागम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः प्रयोजनं फलमस्येति कृत्वा । तच्च श्रुतोपयोगप्रयोजनमात्महितभावसंवरादिभेदन बहुविकल्पं बहुभेदम्। उक्तं च
"आयहियपरिण्णाभावसंवरो नवनवो य संवेगो । निकंपया तवो निजरा य परदेसियत्तं च ॥ १॥" इत्यादि । अतो नमस्कारस्य श्रुतरूपत्वाद् भवत्येव तदुपयोगात् कर्मक्षय इति ॥ ३२२७ ।। अत्र प्रेरकः पाह
पूयाफलप्पया नहि नहं व कोव-प्पसायविरहाओ। जिण-सिद्धा, दिद्रुतो वइधम्मेणं निवाईया ॥३२२८॥
नमस्कारलक्षणायाः पूजायाः फलं पूजाफलं तत्पदौ नहि नैव जिन-सिद्धौ, कोप-प्रसादरहितत्वात् , नभोवदिति । ये तु पूजाफलदास्ते कोप-प्रसादरहिता न भवन्ति, यथा नृपादय इत्येष वैधये॒ण दृष्टान्त इति ॥ ३२२८ ॥
एतदेव समर्थयन्नाह
¥याणुवगाराओ अपरिग्गहाओ विमुत्तिभावाओ । दूराइभावओ वा विफला सिद्धाइपूय त्ति ॥ ३२२९॥
विफला सिद्धादिपूजेति प्रतिज्ञा । हेतूनाह- पूजाया अनुपक्रियमाणत्वात् , तदपरिग्राहित्वात् , अमूर्तत्वात् , दूरादिभावात्, नभोवदिति ॥ ३२२९ ॥
श्रुतमागम इति सकः श्रुतोपयोगप्रयोजनस्तच्च । आत्महितपरिज्ञाभावसंवरादि बहुविकल्पम् ॥ ३२२७॥ २ आत्महितपरिज्ञाभावर्सवरो नवनवश्च संवेगः । निष्कम्पता तपो निजरा च परदेशितत्वं च ॥१॥ २ पूजाफलप्रदी नहि नभ इव कोप-प्रसादविरहात् । जिन-सिद्धौ, दृष्टान्तो वैधम्र्येण नूपादिकाः ॥ ३२२८ ॥ ४ पूजानुपकारादपरिग्रहाद् विमूर्तिभावात् । दूरादिभावतो वा विफला सिद्धादिपूजेति ॥ ३२२९ ॥
॥१२३८॥
RREN
Jan Education Internatio
For Personal and Price Use Only
PRw.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
विशेषा०
॥१२३९ ।।
Jain Education Intern
अत्र प्रतिविधानमाह -
'जिण-सिद्धा दिंति फलं पूयाए केण वा पवण्णमिणं । धम्माऽधम्मनिमित्तं फलमिह जं सव्वजीवाणं ॥ ३२३०॥ बृहद्वृत्तिः । ते यजओ जीवगुणा तओ न देया न वा समादेया । कयनासा ऽकयसंभोग-संकरे -गत्तदोसाओ ॥ ३२३१॥ व्याख्या - नन्वयमनुक्तो पालम्भः सर्वोऽपि पूर्वोक्तः, यस्मात् 'जिन-सिद्धाः पूजायाः फलं ददति' इति केनेदं प्रपन्नम् १ | धर्मा-ऽधर्मनिमित्तमेव हि यस्मात् स्वर्ग-नरकादिकं फलमिह सर्वजीवानामिति । तौ च धर्मा-धर्मों यतो जीवगुणौ ततो न कस्यापि देय दातव्यौ, नापि कुतश्चित् समादेयौ ग्राह्यौ, ज्ञानादिगुणवत् । कुतः ? इत्याह- 'कयनासेत्यादि' यदि होते जिन-सिद्धाः कुपिताः सन्तः कस्यापि धर्ममपहरेयुः, अधर्मे च प्रयच्छेयुः, तदा कोपविषयभूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाधर्मस्यागमः स्यात्, प्रसन्ना वा यदि कस्याप्याकस्मिकं धर्म प्रयच्छेयुः, अधर्म चापहरेयुः, तदाऽकृतस्य धर्मस्यागमः कृतस्य चाधर्मस्य नाशो भवेदिति । एवं यदा ते प्रसन्नाः कुपिता वा कस्यापि सम्बन्धिनौ धर्मा-धर्मावाच्छिद्यान्यस्य दद्युः, अन्यस्य सम्बन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्मा-धर्मयोः संकरः, एकत्वं वा स्यात् । एवं स्वर्ग-नरकादिके धर्मा-धर्मफलेऽपि कृतनाशादिभावना कार्येति ॥ ३२३० ॥ ३२३१ ।।
अपि च,
नाणाबाहं मुक्खो पूयाफलं जओऽभिमयं । तं नायपज्जयाओ देयं जीवाइभावो व्व ॥ ३२३२ ॥
ज्ञाने सत्यनाबाधस्य यत् सुखं तद्रूपो यो मोक्षः स एव यस्माद् नमस्कारलक्षणायाः पूजायाः परमार्थतो मुख्यं फलमभिमतम्, स्वर्गादेरानुषङ्गिकफलत्वात् । तच्च यथोक्तं सुखं न कस्यापि देयं दातुं शक्यम्, आत्मपर्यायत्वात्, जीव-चैतन्यादिभाववत् । ततश्च पूजाफलदाननिषेधे सिद्धसाधनमेवेति ।। ३२३२ ॥
यदि पूजाफलं न देयं तर्हि किं देयमिह भवेत् ? इत्याह
१ जिन-सिद्धा ददति फलं पूजायाः केन वा प्रपन्नमिदम् । धर्मा-धर्मनिमित्तं फलमिह यत् सर्वजीवानाम् || ३२३० ॥
ते च यतो जीवगुणास्ततो न देया नवा समादेयाः । कृतनाशा ऽकृतसंभोग-संकरै- कत्वदोषेभ्यः ॥ ३२३१ ॥
२ ज्ञानानाबाधसुखं मोक्षः पूजाफलं यतोऽभिमतम् । तद् नात्मपर्यायाद् देयं जीवादिभाव इव ॥ ३२३२ ॥
For Personal and Private Use Only
॥१२३९॥
Page #42
--------------------------------------------------------------------------
________________
विशेषा०
॥१२४०॥
Jain Educator Internations
भाइ होज देयं न तदत्थो पूयणप्पयत्तोऽयं । तंपि सकओदयं चिय बज्झनिमित्तं परो नवरं ॥ ३२३३ ॥
शाल्योदनादिरूपं भक्तादिकं परस्मै देयं भवेत्, स्थूलपुद्गलस्कन्धमयत्वात्, घटादिवत् । केवलं तदर्थो भक्ताद्यर्थोऽयं पूजनप्रयत्नो न भवति, किन्तु मोक्षार्थः । किञ्च तदपि भक्तादिकं स्वकृतात् कर्मण उदय उत्पत्तिर्यस्य तत् स्वकृतोदयं स्वकृतकर्मजनितमेवेत्यर्थः । यस्तु परः कश्चिद् दाता दृश्यते स केवलं बाह्यनिमित्तमात्रमेव । निश्चयतस्तु बाह्यो न कोऽपि कस्यापि दाता अपहर्ता चेति ।। ३२३३ ॥
एतदेव समर्थयन्नाह -
कैम्मं सुहाइहेऊ बज्झयरं कारणं जया देहो । सद्दाइ बज्झतरयं जइ दायारे कहा का णु ? || ३२३४ || तम्हा सकारणं चिय सुहाइ बज्झं निमित्तमेत्तायं । को कस्स देइ हरइ व निच्छयओ का कहा सिद्धे ?|| ३२३५ ॥
व्याख्या - यदि हन्त ! सुख-दुःखानामन्तरङ्गं कर्मैव हेतुः, देहस्तु यदा तेषां बाह्यतरं कारणम्, शब्द-रूपादिकं तु शुभाशुभम बाह्यतरं कारणम्, तदाऽतिवाह्यतरादपि परभूते दातरि कात्र किल कारणत्वकथा ? इति । तस्मात् स्वमात्मीयं कर्मैव कारणं यस्य तत् स्वकारणमेव सुखादि, बाह्यं तु देह-शब्द-रूपादिकं निमित्तमात्रकमेव । ततो निश्चयतः कः कस्मै ददाति, अपहरति वा ? न कश्चिदित्यर्थः । तथा च सति क्षीणराग-द्वेषे सिद्धे का नमस्कार फलदातृत्वकथा ? इति ।। ३२३४ ।। ३२३५ ॥
अत्र परप्रेर्ये परिहारं चाह
जैइ सव्वं सकयं चिय न दाण -हरणाइफलमिहावन्नं । नणु जत्तो च्चिय सकयं तत्तो च्चिय तप्फलं जुत्तं ॥३२३६॥ दाणाइपराणुग्गहपरिणामविसेसओ सओ चेव । पुण्णं हरणाइ- परोवधाय परिणामओ पावं ॥ ३२३७ ॥
१ भक्तादि भवेद् देयं न तदर्थः पूजनप्रयत्नोऽयम् । तदपि स्वकृतोदयमेव बाह्यनिमित्तं परो नवरम् ॥ ३२३३ ॥
२ कर्म सुखादिहेतुर्बाह्यतरं कारणं यदा देहः । शब्दादि बाह्यतरकं यदि दातरि कथा का नु ? ॥ ३२३४ ॥
तस्मात् स्वकारणमेव सुखादि बाह्यं निमित्तमात्रकम् । कः कस्य ददाति हरति वा निश्रयतः का कथा सिद्धे ? ॥ ३२३५ ॥ ३ यदि सर्व स्वकृतमेव न दान- हरणादिफलमिहापश्नम् । ननु युक्त एव स्वकृतं तत एव तत्फलं युक्तम् ॥ ३२३६ ॥ दानादिपरानुग्रहपरिणाम विशेषतः स्वत एव पुण्यं हरणादि परोपघातपरिणामतः पापम् ॥ ३२३७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४०॥
Page #43
--------------------------------------------------------------------------
________________
बिशषो०
॥१२४१॥
Jain Educator Inter
'तं पुण्णं पाव वा ठियमत्तणि बज्झपच्चयाविक्खं । कालंतरपागाओ देइ फलं न परओ लब्भं || ३२३८ ॥
व्याख्या - ययुक्तप्रकारेण यल्लोकः शुभमशुभं वा फलमनुभवति तत् सर्व स्वकृतमेवेष्यते, न पुनः कोऽपि कस्यापि किमपि ददात्यपहरति वा तर्हि दाना-पहरणादीनामिह दातुरपहर्तुर्वा न किश्चित् फलमित्यापन्नम्, स्वकृतस्यैव फलेन तस्य प्राप्तत्वादिति । सूरिराह- ननु यत एव तत् स्वकृतम्, तत एव तत्फलं दातुरपहर्तुश्च युक्तम् । दाता हि दानसमये परानुग्रहपरिणामविशेषात् स्वत एव पुण्यं बध्नाति, अपहर्ता तु परोपघातपरिणामात् स्वत एव पापं बभ्राति । अतस्तयोस्तत् पुण्य-पापलक्षणं फलं स्वकृतमेवेति कथं न युक्तम् १ युक्तमेवेति । एतदेवाह - 'दाणाईत्यादि' आदिशब्दाद् दयादिपरिग्रहः । 'सओ चैव ति' स्वत एव स्वकृतमेव दातुः पुण्यम् स्वत एव चापहर्तुः पापम् । शेषं गतार्थमिति । तच्च पुण्यं पापं वा स्वपरिणामजनितमात्मभ्येव स्थितम्, किन्तु बाह्यनिमित्तमात्रापेक्षं कालान्तरे विपाकात् शुभमशुभं वा फलं ददातीति 'परकृतम्' इति व्यपदिश्यते, न पुनः परमार्थतस्तत् पुण्य-पापफलं परतो लभ्यमिति ।। ३२३६ ।। ३२३७ ।। ३२३८ ॥
२५६
ननु परतस्तल्ला को दोषः १ इत्याह
जैइवा परलहियव्वं तत्तो च्चिय जेण तप्परिग्गहियं । तो तम्मि सिवं पत्ते कुगइगए वा कुओ लब्भं ? ॥३२३९॥ स्पष्टा ।। ३२३९ ॥
अपि च, यदि येन यद् दत्तं तस्मै तद् देयम्, यस्य चापहृतमसावपि तस्याहरति, तहींदं दूषणम् । किं तत् १ इत्याहMes अहिंतो वाकओ साहू जं दिज्ज पुव्वदायस्स १ । कत्तोऽवहारिणो तं जं पडिहीरिज्ज से धणिणो ? ॥ ३२४०॥ अहव मई जं तेण वि दिष्णं अण्णस्स तं तओ लहुं । पडिदेइ तहाहारी हारीओ अण्णओ लहुं || ३२४१ ||
१ तत् पुण्यं पापं वा स्थितमात्मनि बाह्यप्रत्ययापेक्षम् । कालान्तरपाकाद् ददाति फलं न परतो लभ्यम् ॥ ३२३८ ॥
२ यदिवा परलब्धव्यं तत एव येन तत्परिगृहीतम् । ततस्तस्मिन् शिवं प्राप्ते कुगतिगते वा कुतो लभ्यम् ? ॥ ३२३९ ॥
३ लभतेऽददद् वा कुतः साधुर्यद् दद्यात् पूर्वेदातुः १ । कुतोऽपहारिणस्तद् यत् प्रतिहियते तस्य धनिनः १ ॥ ३२४० ॥ अथवा मतिर्यत् तेनापि दत्तमम्यस्य तत् ततो लब्ध्वा । प्रतिदद्यात् ताहारी हारिणोऽन्यतो लब्ध्वा ॥ ३२४१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४१॥
Page #44
--------------------------------------------------------------------------
________________
चार
विशेषा
॥१२४२॥
व्याख्या- वाऽथवा, इह निर्ग्रन्थत्वेन साधुर्दानमदददप्रयच्छन् मृत्वा भवान्तरं प्राप्तः पूर्वमदत्तत्वात् कुतः कस्मादाहारादिक तल्लभते यत् पूर्वभवसंबन्धिन आहारादिदातुस्तदानीं दद्यात् ? इति; यो वा पूर्वभवे कस्यापि संबन्धिनमपहृत्य मृतो जन्मान्तरे निःस्वो जातः 'से' तस्य परधनापहारिणः कुतस्तद् धनं यत् पूर्वभवनिना प्रतिहियते ? इति । अथ मतिः परस्य भवेत्- तेनापि साधुना यदनेकभवेष्वन्यस्याहारादिकं दत्तं तत् ततो लब्ध्वा पूर्वभवदातुः प्रतिददाति; तथा, योऽपि पूर्वभवे परधनमपहृत्येहभवे निःस्वो जातस्तस्यापि संबन्धिनं नानाभवेष्वन्येनान्येन वाऽपहृतमास्ते, ततश्चासौ ततः स्वधनापहारिणोऽन्यतः सकाशात् स्वापहृतं लब्ध्वा यस्य सत्कं तेन पूर्वमपहृतं तस्मै 'प्रतिदद्यात्' इति शेषः॥ ३२४० ॥ ३२४१ ॥ __ तदेतत् सर्वमयुक्तम्, कुतः । इत्याहएवं होउणवत्था दाण-ग्गहणाणमपरिभोगो य । जइ परओ लद्धव्वं दिण्णं वा तस्स तं चेव ॥ ३२४२ ॥
यदि दानादिविषयस्वपरिणामवशात् पुण्य-पापे नेष्येते, किन्तु यद् यस्मै दत्तं तत् तस्मादेव परतो लभ्यमित्यभ्युपगम्यते; यस्माद् वा यदाहारादिकं कदापि लब्धं तस्यैवान्यदा दत्तं न पुनर्दायकेन ग्राहकस्य किमप्याधिकं कृतमिति चेष्यते; तदैवं सति दान-ग्रहणयोरनवस्था प्रामोति; यस्मै दान तस्मात् पुनर्ग्रहणम् , पुनरपि चान्यस्मै दानम् , पुनरपि तस्माद् ग्रहणमित्यादि । ततश्च । दान-ग्रहणपरम्पराव्यापृतस्य मोक्षाभावप्रसङ्गः, दानफलस्य च स्वयमपरिभोगः पामोति, अन्योन्यदान-ग्रहणाभ्यामाय-व्ययविशुद्धत्वादिति ॥ ३२४२॥
तदेवं तीर्थिकविशेषाणां सौस्नातिकादीनां मतमपाकृत्योपसंहारपूर्वकं स्वाभिमतमुपदर्शयन्नाहतैम्हा स-पराणुग्गहपरिणामाओ सुपत्तविणिओगा । दाया पुण्णं पावइ जं तत्तो से फलं होइ ॥ ३२४३ ॥
तस्मात् स्व-परानुग्रहपरिणामेन सुपात्रेषु वित्तविनियोगाद् दाता यत् पुण्यं प्रामोति, ततः 'से' तस्य दातुः फलं स्वर्गादिकं | भवतीति ॥ ३२४३॥ तदेवमुक्तनीत्या दाता स्वत एवेदं स्वर्गादिफलं लभते, न तु परतः, ग्रहीताप्येवमेव द्रष्टव्य इति दर्शयन्नाह, एवं भवत्वनवस्था दान-ग्रहणयोरपरिभोगश्च । यदि परतो लब्धव्यं दत्तं वा तस्मै तदेव ॥ ३२५२॥
॥१२४२॥ २ तस्मात् स्व-परानुग्रहपरिणामात् सुपात्रविनियोगात् । दाता पुण्य प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२५३ ॥
ECOMANTARNATATATALA
For Personal
use only
Page #45
--------------------------------------------------------------------------
________________
विशेषा०
॥१२४३ ॥
Jain Education Internation
जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहइ । तह गिण्हंतो वि फलं तदनुग्गहओ सओ लहइ ॥ ३२४४ ॥ गतार्था ॥ ३२४४ ॥
एवं परधनापहार्यपि स्वत एव वध-बन्धन- नरकादिकं पापफलं लभते, न परत इति दर्शयति-
विहरणपरिणामसिओ बज्झपच्चयाविक्खं । पावो पावं पावइ जं तचो से फलं होइ ॥ ३२४५ ॥ इयमयुक्तार्थमाया || ३२४५ ।।
अथ प्रकृतयोजनामाह
जैह सायत्तं दाणे परिणामाओ फलं तहेहावि । निययपरिणाम श्चिय सिद्धं जिण - सिद्धपूया ॥ ३२४६ ॥ प्रकटार्थमाया ।। ३२४६ ॥
अथ जिनादिपूजाप्रतिष्ठार्थं प्रमाणयन्नाह -
कैज्जा जिणाइपूया परिणामविसुद्धिहेऊओ निच्चं । दाणादउ व्व मग्गप्पभावणाओ य कहणं व ॥३२४७॥ कार्या नित्यं जिनादिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धिहेतुत्वादिति हेतु:, दानादिवदिति दृष्टान्तः । अथवा, कार्या नित्यमेव जिनादिपूजा, मोक्षमार्गप्रभावकत्वात्, धर्मकथनवदिति ॥ ३२४७ ॥
'कोप - प्रसादरहितत्वात्' इति परोक्तहेतोरनैकान्तिकतां दर्शयन्नाह-
hra - पसायरहियं पि दीसए फलदमण्ण-पाणाइं । कोव - प्पसायरहियं ति निष्फलं तो अणेगंतो ॥३२४८ ॥ पूर्वा सुबोधम् । ततः 'कोप- प्रसादरहितं वस्तु निष्फलम्' इत्यनेकान्तः, अन्न-पानादिभिर्व्यभिचारादिति ॥ ३२४८ ॥
१ यथा स पात्रानुग्रहपरिणामात् फलं स्वतो लभते । तथा गृहणन्नपि फलं तदनुग्रहतः स्वतो लभते ॥ ३२४४ ॥ २ हापि हरणपरिणामदूषितो वाह्यप्रत्ययापेक्षम्। पापः पापं प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२४५ ॥
३ यथा स्वायत्तं दाने परिणामात् फलं तथेहापि । निजकपरिणामत एवं सिद्धं जिन सिद्धपूजायाः ॥ ३२४६ ॥ ४ कार्या जिनादिपूजा परिणामविशुद्धिहेतुतो नित्यम् । दानादय इव मार्गप्रभावनातश्च कथनमिव ॥ ३२४७ ॥ ९ कोप- प्रसादरहितमपि दृश्यते फलमन्नपानादि । कोप- प्रसादाहतमिति निष्फलं ततोऽनेकान्तः ॥
३२४८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४३ ॥
ww.jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
विशेषा०
॥१२४४॥
Jain Educationa Intern
अपच, विरुद्धोऽप्ययं हेतुरिति दर्शयन्नाह-
वाइविहियं चि सव्वं जमणुग्गहोवघायाय । दीसइ तेण विरुद्धं फलमिह कोव - पसायाओ ॥ ३२४९॥ इहाकाशा म्नपान - पीयूष- विष चिन्तामण्य ऽन्धोपल-कल्पद्रुम-विषवृक्ष- गुड-नागर- हरीतकी मरीचाद्योपधादिकं सर्वमपि वस्तु कोप- प्रसादविरहितमेव यस्मादनुग्रहोपघातयोः प्रवर्तमानं दृश्यते, तेन तस्मादिह कोप- प्रसादतः सकाशात् फलमुच्यमानं विरुद्धमेव संलक्ष्यते; तथाहि - कोपादिरहिता देवाकाशादेर्व्रण उपघातः, पट्टकबन्धादेस्त्वनुग्रहः हितमितान्नपानादेरनुग्रहः, तस्माद् विपरीतात् पुनरुपघातः एवं पीयूष -विषादेरपि सकाशात् कोपादिविरहिता देव । नुग्रह-पघातौ दृश्येते । ततो विरुद्धोऽयं हेतुः, विपक्ष एव वृत्तिदर्शनादिति ।। ३२४९ ॥
अथ राजादीनां हरण-प्रदानहेतवः कोप- प्रसादा भवन्तीति प्रत्यक्षत एवं दृष्टमिति परस्य मतिभेवेत्ः ननु तदपि सर्वस्वाहरणं प्रदानं वा स्वपाप-पुण्यकृतमेव । यस्तु परः, स तत्र केवळं निमित्तमात्रमेवेति प्रागेव भणितमिति दर्शयन्नाह -
- प्याऊ हवेज कोवादओ मई तं पि । नणु सकयं चिय भणियं निमित्तमेत्तं परो नवरं|| ३२५० ॥ गतार्था ।। ३२५० ।।
अथवा, अपहरण-प्रदानादिकं स्वकृतं नेष्यते, तत्राह --
जैइवा न सकयहउं तं तो कोव प्पसाययं राया । सो सव्वसेवयाणं समाणफलदो कहं न भवे ? || ३२५१ ॥ पाठसिद्धा ।। ३२५१ ।।
अपि च,
सिइ य विसमफलदो विफलो य समाणसेवयाणं पि । भण्णइ य सुकयपुण्णो तो से रायप्पसाउ ति ॥३२५२॥
१ कोपादिविहितमेव सर्व यदनुग्रहो-पघातयोः । दृश्यत तेन विरुद्ध फलमिह कोप- प्रसादाभ्याम् ॥ ३२४९ ॥
२ हरण-प्रदानहेतवो भवेयुः कोपादयो मतिस्तदपि । ननु स्वकृतमेव भणितं निमित्तमात्रं परो नवरम् ॥ ३२५० ॥
३ यदिवा न स्वकृतहेतु तत् ततः कोप- प्रसादवान् राजा स सर्वसेवकानां समानफलदः कथं न भवेत् ? || ३२५१ ॥ ४ दृश्यते च विषमफलदो विफलञ्च समान सेवकानामपि । भण्यते च सुकृतपुण्यस्ततस्तस्य राजप्रसाद इति ॥ ३२५२ ॥
For Personal and Private Use Only
बृहद्द
॥१२४४॥
Page #47
--------------------------------------------------------------------------
________________
विशेषा०
वृहद्वीतः।
॥१२४५||
समानसेवकानामपि विषमफलदः केषाश्चिद् विफलश्च दृश्यते राजा । ततो ज्ञायते-स्वकृतपुण्य-पापकृतमेवेदं सर्वमपि वैचित्र्यम् , राजादिस्तु तत्र निमित्तमात्रमेवेति । अपरं च, लोकेऽपि भण्यते लोकेऽप्येवं वक्तारो भवन्ति- 'सुकृतपुण्यः स देवदत्तादिः 'तो से ति' ततः 'से' तस्यैव राजप्रसादो जातः' इति । तत एतमादिलोकोक्तेश्च स्वकृतपुण्य-पापानुमान प्रवर्तत इति ॥ ३२५२ ॥
अपि च,
कोवप्पसायहेउं च जं फलं नहि तदत्थमारंभो । न परप्पसायणत्थं किन्तु निययप्पसायत्थं ॥ ३२५३ ॥
कोप-प्रसाद हेतुकं च यत् किमपि फलं तदथों नैवायमस्माकमर्हदादिनमस्कारपूजारम्भः, नापि परप्रसादनार्थम् , किन्तु निजकचित्तस्य यः प्रसादः प्रसत्तिरहंदादिगुणबहुमानेन शुभरूपता तदर्थो-ऽयमारम्भ इति ॥ ३२५३ ॥
परप्रसादनार्थ नारम्भ इत्याहधेम्मा-ऽधम्मान परप्पसाय-कोवाणुवत्तिणो जम्हा । तो न परो त्ति पसण्णो धम्मो कुविउत्ति वाऽधम्मो ॥३२५४॥
धर्मार्थो ह्ययमारम्भः। धर्मा-ऽधौं च यस्माद् न परप्रसाद-कोपानुवर्तिनी, किं तर्हि ?, जीवगतशुभा-ऽऽशुभपरिणामानुयायिनौ । ततः 'परः प्रसन्नः' इत्येतावता न धर्मः, नापि 'परः कुपितः' इत्येतावन्मात्रेणाधर्मः, किन्तु निजशुभा-ऽशुभपरिणामवशाद् धर्मा-धो । तत्र च शुभा-ऽशुभ-परिणामस्यालम्बनमहदादादयो नमस्क्रियमाणाः संपद्यन्ते । शुभपरिणामाच्च धर्मः । तस्माच्चार्थकामादयः, स्वर्गा-ऽपवर्गों च भवतः । इति संपद्यत एवाईनमस्कारस्य यथोक्तं फलमितीह तात्पर्यमिति ॥ ३२५४ ॥
यदि परप्रसाद कोपानुवर्तिनौ धर्मा-धर्मों स्याताम् , ततः को दोषो भवेत् ? इत्याह-- तैस्साहणसुण्णस्स वि जइवा धम्मो परप्पसायाओ । तो जो जस्स पसन्नो स तस्स दिज्जा जगद्धम्म॥३२५५॥
१ कोपप्रसादहेतु च यत् फलं नहि तदर्थ आरम्भः । न परप्रसादनार्थ किन्तु निजकप्रसादार्थम् ॥ ३२५३ ॥ २ धर्मा-ऽधौं न परप्रसाद-कोपानुवर्तिनौ यस्मात् । ततो न पर इति प्रसन्नो धर्मः कुपित इति वाऽधर्मः ॥ ३२५४ ॥ ३ तत्साधनशून्यस्यापि यदिवा धर्मः परप्रसादात् । ततो यो यस्य प्रसन्नः स तस्य दद्याज्जगद्धर्मम् ॥ ३२५५ ॥
॥१२४५॥
Jan Edo
Internat
For Personal and Price Use Only
TOPlww.jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
विशेषा०
॥१२४६॥
Jain Educationa Interna
PppppRK
कुंविओ हरेज्ज सव्वं दिज्जा धम्मं व तहय पावं ति । अकयागम- कयनासा मोक्खगयाणं पि चापडणं ।। ३२५६ ॥
व्याख्या - वाशब्दः मस्तावनायाम्, सा च कृतैव । तस्य धर्मस्य दया दान - प्रशम- ब्रह्मचर्याऽर्हदादिपूजादीनि साधनानि, तैः शून्यस्यापि यदि धर्मः परमसादमात्रादेवेष्यते, ततस्तर्हि य ईश्वरादिर्यस्य देवदत्तादेः प्रसन्नः स ईश्वरादिर्जगतोऽपि संबन्धिनं धर्ममपहृत्य तस्येवैकस्य देवदत्तादेः सर्वे दद्यात् तथा, कुपितः स एव तस्य देवदत्तादेः संबन्धिनं सर्व धर्ममपहरेत्, अधर्म वा सर्वमपि प्रयच्छेत् । तथा च सत्यकृतागम-कृतनाशौ प्राप्नुतः, एकस्याकृतयोरपि धर्मा-धर्मयोरागमात् अन्येषां तु स्वयं कृतयोरपि तयोर्नाशादिति । मोक्षगतानामपि च सिद्धानामेवं पतनं स्यात्, तदीयपूर्वसुकृतस्यान्यत्र संचरणात्, अन्यदीयाधर्मस्य च तेषु प्रक्षेपादिति ।। ३२५५ ।। ३२५६ ।।
किश्च परकीयकोप- प्रसादाभावेऽपि धर्मा-धर्मौ तवापि प्रसिद्धौ । कथमित्याह-
जैइ वीराग-दोसं मुणिमक्कोसिज्ज कोइ दुट्ठप्पा | कोव - प्पसायरहिओ मुणित्ति किं तस्स नाधम्मो ? || ३२५७॥ सवओ तस्साधम्मो जइ वंदंतस्स तो धुवं धम्मो । कोवप्पसायरहिए तह जिण - सिद्धे वि को दोसो ? ॥३२५८॥
व्याख्या - वीतावपगतौ राग-द्वेषौ यस्य तं वीतराग-द्वेषं मुनिं यदि दुष्टात्मा कश्चिदाक्रोशेत्, तदा 'वीतराग-द्वेषत्वात् कोपप्रसादरहितः स मुनिः' इत्येतावन्मात्रेण किं तस्याकोष्टुर्नाधर्मः स्यात् ? - ननु स्यादेवासौ, सकलशास्त्र लोकमतीतत्वादिति । ततश्च 'सव चि' मुनिं शपमानस्य तस्याक्रोष्टुर्यद्यधर्मोऽभ्युपगतस्त्वया, ततस्तर्ह्यन्यस्य कस्यापि शुभपरिणामस्य तमेव मुनिं वन्दमानस्य ध्रुवं निश्चितं धर्मोsor एव स्वपरिणाममात्र निबन्धनत्वस्येहापि समानत्वादिति । यदि नामैवं ततः प्रकृते किम् ? इत्याह- तथा तेनैवोक्तप्रकारेण कोप- प्रसादरहिते जिने सिद्धे च नमस्कर्तुर्निजशुभपरिणामवशाद् यथोक्तफलप्राप्तौ को दोषः १ न कश्चिदिति । । ३२५७|| ३२५८ ॥ दृष्टान्तान्तरेणाप्यईदादिभ्यः फलप्राप्तिं समर्थयन्नाह -
१ कुपितो हरेत् सर्व दद्याद् धर्ममिव तथा च पापमिति । अकृतागमकृतनाशौ मोक्षगतानामपि चापतनम् ॥ ३२५६ ॥ २ यदि वीतराग-द्वेषं मुनिमाक्रोशेत् कोऽपि दुष्टात्मा । कोप प्रसादराहतो मुनिरिति किं तस्य नाधर्मः १ ॥ ३२५७ ॥ शपमानस्य तस्याधर्मो यदि वन्दमानस्य ततो ध्रुव धर्मः । कोप- प्रसादरहितयोर्जिन सिद्धयोरपि को दोषः ? ॥ ३२५८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
१।१२४६ ॥
Page #49
--------------------------------------------------------------------------
________________
विशेषा०
॥१२४७॥
Jain Education Intera
हिंसामि मुसं भासे हरामि परदारमाविसामि ति । चिंतेज्ज कोइ न य चिंतियाण कोवाइस भूई ॥३२५९ ॥ तहवि य धम्मा-धम्मोदयाइ संकप्पओ तहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ॥३२६०॥ व्याख्या- 'हिनस्मि हरिणादीन्, मृषां भाषेऽहम्, तद्भाषणाच्च वञ्चयामि देवदत्तादीन्, धनमपहरामि तेषामेव परदारानाविशामि निषेवेऽहम्' इत्यादि कश्चिच्चिन्तयेत् । न च तेषां चिन्तितानां हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंभूतिः कोपादिसंभवोऽस्ति; तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति । इत्यावयोरविगानेन प्रसिद्धमेव, तथेहापि प्रस्तुते वतिकषायानप्यर्हत्-सिद्धादीन् शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते १ इति || ३२५९ ।। ३२६० ।।
अथोपसंहार पूर्वकं प्रस्तुतमुपदर्शयन्नाह -
म्हा धम्मा-धम्मा जुत्ता निययप्पसाय- कोवाओ । धम्मत्थिणा पयत्तो कज्जो तो सप्पसायम्मि ॥ ३२६१ ॥ सो य निययप्पसाओऽवस्सं जिण - सिद्धपूयणाउ ति । जस्स फलमप्पमेयं तेण तयत्थो पयत्तोऽयं ॥ ३२६२॥ सुगमे, नवरं यस्य निजमनः प्रसादस्याप्रमेयमनन्तं फलं येनानन्तफलोऽसौ, तेन कारणेन तदर्थो निजमनः प्रसादार्थ ऐवादादिनमस्कारप्रयन इति ।। ३२६१ ।। ३२६२ ॥
अस्यैवार्थस्य साधनार्थं प्रमाणयन्नाह-
नाणामयते सइ पुज्जा कोव - पसायविरहाओ । निययप्पसायहेउं नाणाइतियं व जिण- सिद्धा ॥ ३२६३॥ निजमनःप्रसादहेतोः पूज्या जिन-सिद्धा इति प्रतिज्ञा, ज्ञानादिमयत्वे सति कोप- प्रसादविरहादिति हेतु:, ज्ञानादित्रिवदिति दृष्टान्तः । कोपादिविरहिता लेष्टु-काष्ठादयोऽपि विद्यन्ते, अतस्तद्वयवच्छोदार्थ 'ज्ञानादिमयत्वे सति, इति हेतोर्विशेषणमिति ॥३२६३॥
१ हिनस्मि मृष भाषे हरामि परदाराना विशामीति । चिन्तयेत् कोऽपि न च चिन्तितानां कोपादिसंभूतिः ॥ १२५९ ॥ तथापि च धर्मा-धर्मोदयादि संकल्पतस्तथेहापि । वतिकषायान् शपमानस्याधर्मो धर्मश्च संस्तुवतः ॥ ३२६० ॥ २ तस्माद्धर्माधर्मौ युक्तौ निजकप्रसाद - कोपाभ्याम् । धर्माधिंना प्रयत्नः कार्यस्ततः स्वप्रसादे ॥ ३२६१ ॥ स च निजकप्रसादोऽवश्यं जिन सिद्धपूजनादिति । यस्य फलमप्रमेयं तेन तदर्थः प्रयत्नोऽयम् ॥ ३२६२ ॥ ४ ज्ञानादिमयत्वे सति पूज्याः कोप- प्रसादविरहात् । निजकप्रसाद तो नादित्रिकमिव जिन-सिद्धाः ॥ ३२६३ ॥
For Personal and Private Use Only
३ 'क. ग. एवमर्ह' ।
बृहद्वृत्तिः ।
॥१२४७॥
Page #50
--------------------------------------------------------------------------
________________
विशेषा
॥१२४८॥
सा
परः प्राह
पुज्जा जिणाइवजा नहि मोक्खत्थं सराग-दोस त्ति । अकयत्थभावओ वि य दवट्ठाए दरिद व्व॥३२६४॥ बृहदत्तिः ।
जिन-सिद्धान् वर्जयित्वा शेषा आचार्यो-पाध्याय-साधवो नहि नैव मोक्षार्थ पूजा इति प्रतिज्ञा, सराग-द्वेषत्वात्, अत एवाकृतार्थभावाच्च, द्रव्यार्थ दरिद्रा इवेति ॥ ३२६४ ॥
अत्र प्रतिविधानमाह-- ___ कैलुसफलेण न जुज्जइ किं चित्तं तत्थ जं विगयरागो । सते वि जो कसाए न गिण्हइ सो वि तत्तुल्लो॥३२६५॥
किं तत्र चित्रं किमाश्चर्यं यद् विगतरागः कलुषफलेन कषायजनितेन चित्तकालुष्येन न युज्यते, विगतकषायोदयत्वात् तस्य । ननु सोऽपि तत्तुल्यो वीतरागसमान एवं यः सतोऽपि कषायान् न गृह्णाति । ततश्चास्मात् परमगुरुवचनादाचार्यादयोऽपि वीतरागतुल्या एव, सतामपि कषायाणां निग्रहात् । ततः 'सराग-द्वेषत्वात्' इत्यसिद्धो हेतुरिति भावः । इयं च गाथा केषुचिदादर्शेषु न दृश्यते, पूर्वटीकाकारैरपि न व्याख्याता; अस्माभिस्तु बहुवादशेषु दर्शनात् सोपयोगत्वाञ्च लिखितेति ॥ ३२६५ ॥ 'अकृतार्थत्वात्' इत्ययमपि हेतुरनैकान्तिकः, अकृतार्थत्वे सत्यपि कारणान्तरतोऽपि पूजासंभवादिति दर्शयन्नाह
ने परोवयारओ च्चिय धम्मो न परोवयारहेउं च । पूयारंभो नणु सपरिणामसुद्धत्थमक्खाओ ॥ ३२६६ ॥ _ 'अकृतार्थभावात्' इति ब्रुवतस्तव किलायमभिप्रायः-'स्वयमकृतार्थाः सन्त आचार्यादयो न परोपकारक्षमाः, अतस्तदसमर्था दरिद्रा इव न ते नमस्करणीयाः' इति । एतच्चायुक्तम् , यतो न परस्मादहदादेरुपकारत एव धर्मो नमस्कर्तुः, नापि परस्याहदादेरुपकारहेतोस्तस्य नमस्कारपूजारम्भः । ननु स्वपरिणामशुद्ध्यर्थमाख्यातोऽसौ । ततः किश्चिदकृतार्थत्वे सत्यपि स्वशुभपरिणामनिबन्धनत्वात् पूज्या एवाचार्यादय इति ॥ ३२६६ ॥
अथ पश्चानामपि पूज्यत्वसमर्थनार्थ प्रमाणमाह
खानपान
पूज्या जिनादिवर्जा नहि मोक्षार्थ सराग-द्वेषा इति । अकृतार्थभावतोऽपि च द्रव्याथै दरिद्रा इव ॥ ३२६४ ॥ २ कलुषफलेन न युज्यते किं चित्रं तत्र यद् विगतरागः । सतोऽपि यः कषायान् न गृहाति सोऽपि तत्तुल्यः ॥ ३२६५॥ ३ न परोपकारत एवं धर्मो न परोपकारहेतोञ्च । पूजारम्भो ननु स्वपरिणामशुद्धयर्थमाख्यातः ॥ ३२६६ ॥
॥१२४८॥
For Posol
s en
Page #51
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वृत्तिः
॥१२४९॥
या परोवयाराभावे वि सिवाय जिणवराईणं । परिणामसुद्धिहउं सुभकिरियाओ य बंभं व ॥३२६॥
शिवाय मोक्षार्थ भवति पूजा, परोपकाराभावेऽपि पश्चानामपि जिनवरादीनामिति साध्यम्, पूजकपरिणामशुद्धिहेतुत्वात , तन्नमस्कारक्रियायाश्च ज्ञानादिगुणविषयबहुपानत्वेन निरवद्यत्वेन च शुभत्वात् , ब्रह्मचर्यादिवदिति ॥३२६७।।
अथ सुप्रसिद्धदृष्टान्तोपदर्शनेनापि जिनादिपूजा परोपकाराभावेऽपि शिवायेति समर्थयन्नाह - परहिययगया मेत्ती करेइ भूयाण कमुवयारं सा । अवयारं दूरस्थो कं वा हिंसाइसंकप्पो ? ॥३२६८॥ धम्माधम्मनिमित्तं तहावि तहवेह निरुवगारो वि । पूयासुहसंकप्पो धम्मनिमित्तं जिणाईणं ॥३२६९॥
परहृदयगता साधुहृदयस्थिता सर्वभूतेषु या मैत्री सा तेषां पृथिव्यादिभूतानां कमुपकारं करोति ? न कश्चित् , तथा, कं | वा देवदत्तादिहृदयगतो दूरस्थहरिणादिभूतग्रामविषयो दूरस्थहरिणाद्यपेक्षया दूरस्थो हिंसा स्तेयादिसंकल्पोऽपकारं कुर्यात् ?-न कश्चित् ।
तथापि मैत्री हिंसादिसंकल्पश्च भूतानामुपकारा ऽपकारविरहेऽपि द्वावपि यथासंख्यं धर्मा-ऽधमनिमित्तं भवत एव । तथा चैत्र चोक्तमका | रेण निरुपकारोऽपि जिनादीनामुपकारमकुर्वन्नपि भूतानां साधुगतमैत्रीसंकल्पवन्जिनादीनां पूजाशुभसंकल्पः पूजकस्य धर्मनिमित्तं भवतीति ॥ ३२६८ ॥ ३२६९ ।।
आह-ननु यथा दानं साध्वादीनामुपकारं करोति, नैवं जिनादीनां नमस्कारपूजा, तत् कथमसौ धर्मनिमित्तं भवति ? इत्याशङ्कयाह
दाणे वि पगणुग्गहलक्खणसकप्पमत्तआ चव । फलामह न उ पच्छा तकओवगारा-ऽवगाराओ ॥३२७०॥ इहरोव उत्तभत्ताजिन्नाइ वहम्मि दक्खिणेयस्स । दिन्तस्स वहावत्ती तेणादाणप्पसंगोऽयं ॥३२७१॥
१ पूजा परोपकाराभावेऽपि शिवाय जिनवरादीनाम् । परिणामशुद्धिहे तो: शुभ क्रयायाश्च ब्रह्मत्र ॥ ३२६७ ।। २परहृदयगता मैत्री करोति भूतानां कम्पकारं सा | अपकारं दूरस्थ: कं वा हिंसादिसंकल्पः । ।। ३२६८ ।। धर्माधर्मनिमित्तं तथापि तथावह निरुपकारोऽपि । पूजाशुभसंकल्पो धर्मतिमित्तं जिनादीनाम् ।। ३२६९ ।। ३ दानेऽपि परानुपहलक्षणसंकल्पमात्रतश्चैव । फलमिह न तु पश्चात् तत्कृतोपकारा-ऽपकाराभ्याम् ।। ३२७० ।। इतरथोपयुक्तभक्ताजीर्णादिना वधे दाक्षिणेयस्य । ददतो वधापत्तिस्तेनादानप्रसङ्गोऽयम् ॥ ३२७१ ॥
॥१२४९॥
१५७
Jan Education Inteloo
For Personal and
Use Only
+Olww.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
विशेषा०
॥१२५०।।
Jain Educator I
व्याख्या - साध्वादिदानेपि परानुग्रहलक्षण संकल्पमात्रत एवेह दातुः फलनिष्पत्तिः, न पुनः पश्चात् तत्कृताद् दानकृतादुपकागदपकाराद् वेति, इतरथोपयुक्ते साध्वादिना भुक्ते योऽजीर्णादिदोषस्तन दाक्षिणेयस्य दक्षिणा दानं तद्विषयभूतस्य साध्वादेव मरणे सति दातुर्वधापत्तिहिंसादिदोषसमापत्तिः । तेन च हिंसादिदोषेणादानप्रसङ्गोऽयं प्राप्नोति अनिष्टं चैतत् दातुर्विशुद्धपरिणामत्वात् । न हि तेन साध्वादिजिघांसया दानं दत्तम्, किन्तु तद्गुणबहुमानादिपरिणामेन । न चैवं विशुद्धपरिणामस्यापि पापसंबन्धो घटते, अन्यथा मातृस्तन्यपानादजीर्णाद् बालस्य मरणे मातुस्तद्वधकृतपापप्रसङ्गादिति । तदेवं प्राग् यदुक्तम् – 'पूयाऽणुवगारा ओडपरिगद्दाओ' इत्यादि, तत्र 'पूजानुपकारात्' इत्ययं हेतुरपाकृतः ।। ३२७० ।। ३२७१ ॥
अथ 'अपरिग्रहात्' इत्यमुं निराचिकीर्षुराह
परपरिग्गहच्चि धम्मो किंतु परिणामसुद्धीओ । पूया अपरिग्गहम्मिं वि साय धुवा तो तदारंभो ॥३२७२॥
न खलु पूजायाः परेण पूज्येन परिग्रहादेव धर्मः, किन्तु स्वपरिणामशुद्धितः, सा च परिणामशुद्धिः पूजायाः परेणापरिग्रहेऽपि ध्रुवा निश्चिता स्वसंवेदनसिद्धा समस्ति, ततस्तदारम्भो नमस्कारपूजारम्भ इति ॥३२७२॥
किश्च दानस्यापरिग्रहत्वमभ्युपगम्योक्तम्, वस्तुतस्तु तद् नास्त्येवेति दर्शयन्नाह -
इह चोयगमणुमोयगमणिसे हगमेव संपयााणं ति । बहु-मुणि-पडिमाइ जओ न दाणमपरिग्गहं तेण ॥३२७३॥
इह यतो यस्मात् सत्कृत्य सभ्यग् वा प्रदीयते यस्मै तत् संप्रदानम् । तच्च त्रिविधम्; तद्यथा- 'दीयतां मह्यम्, बहुफलं भवतां भविष्यति' इत्यादिवचनमपश्चेन किञ्चित् प्रेरकम्, यथा बटुर्ब्राह्मणः अपरं स्वित्थममेरकमपि दानस्य ग्रहणपरिभोगाभ्यामनुमोदकं भवति, यथा मुनिः साधुः अन्यत्तु पुष्पाद्यनिषेधादनिषेधकम्, यथाऽईत्प्रतिमादि, सर्वत्र संप्रदानार्थस्य विद्यमानत्वात् । तेन तस्माद् न कचिद् दानमपरिग्रहमस्तीति ॥३२७३ ||
अपि च, किमनया दानस्य परिग्रहापरिग्रहचिन्तया, कार्यस्यान्यथैव स्थितत्वात् कथम् ? इत्याह
१ न परपरिप्रत एव धर्मः किन्तु परिणामशुद्धितः । पूजाऽपरिग्रहेऽपि सा च ध्रुवा ततस्तदारम्भः || ३२७२ || २ इद्द चोदकगनुमोदकमनिषेधकमेव संप्रदानमिति । बटु-मुनि-प्रतिमादि यतो न दानमपरिग्रहं तेन ।। ३२७३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
C
॥१२३०॥
Page #53
--------------------------------------------------------------------------
________________
विशेषा०
॥१२५९॥
Jain Education Inte
परिग्गहम्मिविधम्मो निययपरिणामसुद्धीओ । अपरिग्गहे त्रिजइ सा को नाम परिग्गहग्गा हो ? || ३२७४|| किंच पर हिययनियया मेत्ती भूएहिं संपरिग्गहिआ । हिंसासंकष्पो वा जं धम्माधम्महेउ ति ||३२७५|| एवं जिणाइपूया सद्धा संवेगसुद्धिहेऊओ । अपरिग्गहा वि धम्माय होइ सीलव्वयाई व ॥३२७६ ॥ तिस्रोऽपि व्यक्तार्थाः || ३२७४ || ३२७५ || ३२७६ ॥
अथ 'विमूर्तिभावात्' इत्यस्य हेतोर्निरासार्थमाह
जं चिय मुत्तिविउत्ता मुत्ता गुणरासओ विसेसेणं । तेणं चिय ते पुज्जा नाणाइतियं व मोक्खत्थं ॥३२७७॥ यस्मादेव मूर्तिवियुक्ता अमूर्त मुक्ताः सिद्धास्तेनैव ते शरीरसंबन्धजनितसकलक्लेशविमुक्तत्वाद् गुणराशयः सन्तो विशेषेण मोक्षार्थं पूज्याः, ज्ञानादित्रिकवदिति ॥३२७७॥
अपि च,
मुत्तिमओ विन मुक्ती इज्जइ किन्तु जे गुणा तस्स । ते मुत्तिविउत्तश्चिय नणु सिद्धगुणा विसेसेणं || ३२७८॥
मूर्तिमतोऽपि संबन्धिनी मूर्तिर्न पूज्यते, किन्तु गुणाः, ते च मूर्तिवियुक्ता एवामूर्ती एव । ततश्च 'न पूज्याः सिद्धाः, अमूर्तत्वात्, नभोवत्' इति वदुक्तममाणे विरुद्धाव्यभिचारित्वाद् विरुद्धो हेतु:, तथा ह्येतदपि शक्यते वक्तुम् - पूज्याः सिद्धाः, अमूर्तत्वात् मूर्तसाधुसंबन्ध्यमूर्तज्ञानादिगुणवदिति । अथ सिद्धगुणा अमूर्ता न भवन्तीति चेदित्याह - ननु सिद्धगुणा विशेषेणैवामूर्तः मूर्तसाधुगुणा हि ज्ञानादयो मूर्तादव्यतिरिक्तत्वात् कथश्चिद् मूर्ता अपि शक्यन्ते वक्तुम्; सिद्धगुगास्तु नैवम्, ततो विशेषेण तेऽमूर्ती एव इति न तेषां पूजाविरोध इति ।। ३२७८ ॥
१ दानमपरिप्रदेऽपि धर्मो निजकपरिणामशुद्धेः । अपरिग्रहेऽपि यदि सा को नाम परिग्रहः १ || ३२७४ || किञ्च परहृदयनियता मैत्री भूतैः संपरिगृहीता । हिंसासंकल्पो वा यद् धर्माऽधर्महेतू इति ॥ ३२७५ ।।
एवं जिनादिपूजा श्रद्धासंवेगशुद्धिहेतुभ्यः । अपरिग्रहापि धर्माय भवति शीलत्रतादिवि || ३२७६ || २ यदेव मूर्तिवियुक्ता मुक्ता गुणराशयो विशेषण । तेनैव ते पूज्या ज्ञानादित्रिकमिव मोक्षार्थम् || ३२७७॥ ३ मूर्तिमतांऽपि न मूर्तिः पूज्यते किन्तु ये गुणास्तस्य । ते मूर्तिवियुक्ता एव ननु सिद्धगुणा विशेषेण ।। ३२७८ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १२५१।।
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
विशेषा०
।। १२५२ ।।
Jain Education Int
अथ परमतमाक्षिप्य परिहरन्नाह -
अब मई मुत्तिमओ गुणपूया होइ मुत्तिपूयाओ । तग्गुणसंबंधाओ सिद्धगुणाणं तु सा नत्थि ॥ ३२७९ ॥ पूया मुत्ति-गुणाणं संबंधे फलमितीह को हेऊ ? । अन्नो परिणामाओ तस्स य को केण संबंधो ? ॥ ३२८० ॥ नियत्थो परिणामो वज्झत्थालंबणनिमित्तमित्तागो । देइ फलं सव्बो च्चिय सिद्धगुणालंबणो चेत्रं ॥ ३२८१ ॥
सुगमाः, नवरं 'पूयेत्यादि' परिहारवचनम्, पूजा च मूर्तिश्च गुणाश्च तेषां पूजा-मूर्ति गुणानां त्रयाणामपि संबन्ध एवाभिमतं फलमवाप्यत इतीह स्वगतत्रिशुद्धपरिणामादन्यः को हेतुः १ न कोऽपीति । तस्य च स्वगतपरिणामस्य कः संबन्धः केनचिद् बाह्येन ? न कश्चिदिति; केवलं निजहृदयस्थशुभपरिणामो यथा बाह्याईदाद्यालम्बनानिमित्तमात्रकः सर्वोऽपि ददात्यभिमतफलमेत्रममूर्त सिद्धगुणालम्बनोऽपीति ।। ३२७९ ।। ३२८० ।। ३२८१ ॥
अथ यदुक्तम्- 'दुराइभावओ वा विफला सिद्धाइपूया' इति, तत्र 'दूराभावात्' इत्यस्य हेतोर्निराकरणार्थमाह - जैह दूत्थे विधि बंधुम्मि सरीरपुट्ठिबलहेऊ । तणुदोच्चलाइफलो कत्थइ सोगाइसको || ३२८२ ॥ तह परिणामो सुद्धो धम्मफलो हि दूरसंथे वि । अविसुद्धो पावफलो दूरासन्नं ति को भेओ ? || ३२८३ ॥ अवायसभावोऽयं परिणामो तेण सव्वमेवेह | दूरमहालंबणओ तस्सासन्नं तओ सव्वं ॥ ३२८४ ॥
१ अथवा मतिमूर्तिमतो गुणपूजा भवति मूर्तिपूजातः । तद्गुण संबन्धात् सिद्धगुणानां तु सा नास्ति ।। ३२७९ ।। पूजा - मूर्ति गुणानां संबन्धे फलमितीह का हेतुः ? । अन्यः परिणामात् तस्य च कः केन संबन्धः १ ॥। ३२८० ॥ निजार्थ: परिणामो बाह्यार्थलम्बननिमित्तमात्रकः । ददाति फलं सर्व एव सिद्धगुणालम्बनश्चैषम् || ३२८१ ।। २ यथा दूरार्थेऽपि धृतिर्ब्रन्धौ शरीरपुष्टि- बलहेतुः । तनुदौर्बल्यादिफलः कचित् शोकादिसंकल्पः ।। ३२८२ ।। तथा परिणामः शुद्धो धर्मफलो हि दूरसंस्थेऽपि । अविशुद्धः पापफलो दूरासन्नमिति को भेदः ? ।। ३२८३ ।। अथवात्मस्वभावोऽयं परिणामस्तेन सर्वमेवेह | दूरमथालम्बनतस्तस्यासन्नं ततः सर्वम् ।। ३२८४ ॥
For Personal and Private Use Onty
बृहद्वृत्तिः ।
॥१२५२ ॥
Page #55
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वृत्तिः।
॥१२५३॥
___ व्याख्या- यथा दूरस्थेऽपि बन्धौ बान्धवजने सुखिनि श्रुते तत्सुखवार्तासंकल्पजनिता धृतिः कस्यापि तद्वान्धवस्य दूरस्थ- 18
स्थ स्यापि शरीरपुष्टि बलहेतुर्भवति, कचित्तु प्रस्तावे तस्मिन्नपि दु:खिनि श्रुते शोकादिसंकल्पस्तनुदौर्बल्यादिफलः संपद्यते, तथा तेनैव प्रकारेण दूरसंस्थेऽपि सिद्धाद्यालम्बने तद्गुणबहुमानरूपत्वात् शुद्धपरिणामः सद्धर्मफलोऽविशुद्धस्तु पापफलः संजायते । अतो दूरस्थपासनं वा सिद्धाद्यालन्वनामेति को भेदः ? केयं निष्फला तद्भेदचिन्ता ? इत्यर्थः । अथवा, आत्मस्वभावोऽयं तद्गुणबहुमानलक्षणशुभपरिणामस्तेन तस्मादिह यदनात्मस्वभावं किपपि वस्तु तत् सर्वमप्यस्य विपरीतरूपत्वाद् दूरस्थमेव । अथालम्बनत आलम्बनभावमाश्रित्य चिन्त्यते, ततस्तर्हि सर्वमप्य ईत्-सिद्धादिकं वस्तु तस्य यथोक्तात्मपरिणामस्यासन्नमेवेति । अतः का सिद्धेषु दूरस्थता ? इति ॥३२८२॥ ३२८३ ।। ३२८४॥
अत्राक्षेप-परिहारावाह - जह सपरिणामउ च्चिय धम्मोऽधम्मो व्व कित्थ बज्झेण । जे बज्झालंबणओ सो होइ तओ तदत्थं तं ॥३२८५॥
ननु यदि स्वगतपरिणामादेव धर्मोऽधर्मश्च भवति, तर्हि किमत्र बाह्येनाईत् सिद्धाद्यालम्बनेनापेक्षितेन, स्वपरिणामत एव कार्यसिद्धेस्तदपेक्षाया निष्फलत्वात् ? इति । मूरिराह-यस्मात् सोऽपि परिणामो बाह्यालम्बनत एव भवति, नान्यथा, ततस्तदर्थ स्वपरिणामोत्पादनार्थं तद् बाह्यालम्बनमपेक्ष्यत इति ॥ ३२८५ ॥
एतदेव भावयतिपरिणामो बज्झालंबणो सया चेव चित्तधम्मो त्ति । विण्णाणं पिव तम्हा सुहबझालंबणपयत्तो ॥ ३२८६ ॥
शुभोऽशुभो वा परिणामः सदैव बाह्यालम्बनत एव प्रवर्तते, चित्तधर्मत्वान, विज्ञानवदिति, यथा विज्ञानं बाह्यं नील-पीतादिकं | वस्तु विना न प्रवर्तत एवं परिणामोपीति भावः । तस्मादिह मोक्षाधिकार शुभवाह्यालम्बनप्रयत्नो मोक्षार्थिनामिति ।। ३२८६ ॥ अत्र पर: प्राह
१ यदि स्वपरिणामत एव धर्मोऽधर्म इव किमत्र बाह्येन ? । यद् बाह्यालम्बनतः स भवति ततस्तदर्थ तत् ।। ३२८५ ।। २ परिणामो बाह्मालम्बनः सदैव चित्तधर्म इति । विज्ञानमिव तस्मात् शुभवाह्यालम्बनप्रयनः ॥ ३२८६ ।।
॥१३५३॥
Jain Educationa Intentatic
For Personal and Price Use Only
Page #56
--------------------------------------------------------------------------
________________
विशेषा
॥१२५४॥
Jain Education Inta
जैत्तो तत्तो व सुभो होइ किमालंबणप्पभेण । जह नाणालंबणओ विवरीयाओ वि मो न तहा || ३२८७ ॥
ननु यतस्ततो वाऽऽलम्बनात् शुभपरिणामो भवतु, किमि शुभाशुभभेद आलम्बनप्रभेदेन किमिति शुभालम्बनादेव शुभः परिणाम इष्यते ? इति भावः । गुरुराह - 'जह नाणाळंत्रणउ चि' यथाऽनालम्बन आलम्बनरहितः शुभपरिणामो न प्रवर्तते तथा विपरीतादप्यशुभालम्बनादसौ न भवति, अन्यथा नीलादेरपि शुक्लादिज्ञानोत्पत्तिप्रसङ्गादिति ।। ३२८७ ॥
यदि विपरीतालम्बनाद् न शुभः परिणामः, तर्हि कुतोऽसौ भवति ? इत्याह
किंतु भालंबणओ पाएण सुभो वि धम्मओ इयरो । जं होइ तं पयतो सुभासुभादाणवोसग्गो || ३२८८॥ सुगमा, नवरं शुभस्यालम्बनस्यादाने, अशुभस्य तु तस्य व्युत्सर्गे शुभपरिणामार्थिना प्रयत्नः कर्तव्य इति ।। ३२८८ ॥ प्रायोग्रहणस्य व्यवच्छेद्यमाह --
अन्नाणिणो मुणिम्मिविन सुभो दिट्ठो सुभो य निस्सीयले । जइ परिणामाउ च्चिय फलमिह किं पत्तचिंताए ? ॥३२८९ ॥
अज्ञानिनोऽभव्यस्य दूरभव्यस्य वा शुभालम्बनरूपे मुनावपि न शुभपरिणामो दृष्टः, शुभवासौ तस्य निःशीले नास्तिकाद दृष्टः, ततोऽनन्तरगाथायां 'सुभालंबणओ पाएण सुभो वि' इत्यत्र 'प्रायेण' इत्युक्तमिति भावः । प्रेरकः प्राह - यद्यत्रम्, तन्यत् प्रेर्यमापन्नम्, परिणामादेव भवद्भिस्तावत् फलमिष्यते, ततः किं पात्रा ऽपात्रचिन्तया । इति । अयपत्र भावार्थ:- यदि निःशीलेऽपि पत्रि शुभपरिणामो दृष्टः, 'शुभपरिणामाच्च शुभं फलं भवति' इति भवद्भिरपि प्रागसकृत् समर्थितम्, ततः किं सुशील- निःशील चिन्तया, निःशीलेsपि पात्रे शुभपरिणामदर्शनात्, तस्माच्च शुभफलभावात् ? इति ।। ३२८९ ॥
अत्रोत्तरमाह
सुपरिणामनिमित्तं होज्ज सुहं जइ तओ सुहो होज्ज । उम्मत्तस्स व न ओ सो सुहो विवज्जासभावाओ ||३२९०||
१ यतस्ततो वा शुभो भवति किमालम्बनप्रभेदेन ? । यथा ज्ञानालम्बनतो विपरीतादपि स न तथा ।। ३२८७ ।।
२ किन्तु शुभालम्बनतः प्रायेण शुभोऽपि धर्मत इतरः । यद् भवति तत् प्रयत्नः शुभाशुभादानव्युत्सर्गे || ३२८८ ।। ३ अज्ञानिना मुनावपि न शुभां दृष्टः शुभश्च निःशीले । यदि परिणामादेव फलसिंह किं प त्रचिन्तया ? ।। ३२८९ ।। ४ शुभ परिणामनिमित्तं भवत् शुभं यदि ततः शुभो भवेत् । उन्मत्तस्येव न तु स शुभां विपर्यास भावान् ।। ३२९० ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२२५४।।
Page #57
--------------------------------------------------------------------------
________________
विशेषा०
।।१२५५।।
Jain Educationa h
ननु तस्य मिथ्यादृष्टेः शुभपरिणामनिमित्तं शुभपरिणामहेतुकं शुभं फलं स्वर्गादिकं भवेत् को वै न मन्यते, यदि तस्यादित एव तकोऽसौ निःशीलपात्रविषयपरिणामः शुभो भवेत् ? । नचोन्मत्तस्येव तस्यासौ शुभः । कुतः १ इत्याह-विपर्यास भावात् निःशीलेऽपि सुशीलाध्यवसायादिति कुतस्तस्य फलं शुभम् इति । यदप्यस्माभिरुक्तम्- 'सुभो य निस्सीके' इति, तदपि तदपेक्षयैव स हि मिथ्यादृष्टिस्तं शुभपरिणामं मन्यते, तत्त्ववोदिनस्तु तस्य शुभत्वं नेच्छन्त्येव, विपर्यासादिति ।। ३२९० ।
पुनरपि पर: प्राह
नॅणु मुणिवेतच्छन्ने निस्सीले वि मुणिबुद्धीए देंतो । पावइ मुणिदाणफलं तह किं न कुंलिंगदायावि ॥३२९१॥ ननु मुनेर्वेषो मुनिवेषस्तेन च्छन्नोऽविज्ञातो य उदायिनृपमारकादिस्तस्मिन् निःशीलेऽपि मुनिबुद्ध्या दानं ददद् दाता मुनिदानफलं स्वर्गादिकं प्राप्नोति, इत्येतद् भवतामपि तावत् संमतम्; तथा तेनैव प्रकारेण कुत्सितलिङ्गी कुलिङ्गी सरजस्कादिस्तस्मै दाता कुलिङ्गदाता, सोऽपि किं न मुनिफलं प्राप्नोति, मुनिबुद्धेस्तस्यापि तत्र सद्भावात् ? इति ॥ ३२९१ ॥
गुरुराह
थाणं मुणिलिंग गुणाण सुन्नं पि तेण पडिमन्त्र | पुज्जं थाणमईए वि कुलिंगं सव्वहाऽजुत्तं ॥ ३२९२ ॥ यस्माद् मुनिलिङ्गं ज्ञानादिगुणानां स्थानमाश्रयः तेन तस्मात् कस्यापि मायाविनः संबन्धि तत् शून्यमपि गुणैरविज्ञातं पापाणादिनिर्मितार्हत्प्रतिमावत् स्थानमत्यापि पूज्यम् । कुलिङ्गं सर्वथा पूजयितुं न युक्तम्, ज्ञानादिगुणानां सर्वथैवानाश्रयत्वादिति ।। ३२९२ ।।
पुनरपि पर: माह
नैणुकेवलं कुलिंगे त्रिहोइ तं भावलिंगओ न तओ । मुणिलिंगमंगभावं जाइ जओ तेण तं पुजं ॥ ३२९३॥ ननु केवलं केवलज्ञानं कुलिङ्गेऽपि वर्तमानानामन्यतीर्थिकानां भवतीत्यागमे श्रूयते, तत् किमिति स्थानबुद्ध्या तत् पूज्यं नेष्यते ? गुरुराह–तत् केवलज्ञानं भावलिङ्गतो भवति, न पुनस्ततः कुलिङ्गात् तस्य केवलज्ञानानङ्गत्वात् । मुनिलिङ्गं पुनर्यस्मादङ्गभाव केवल
१ ननु मुनिवेषच्छन्नं निःशीलेऽपि मुनिबुद्ध्या ददत | प्राप्नोति मुनिदानफलं तथा किं न कुलिङ्गदातापि ? || ३२९१ ।। २ यत् स्थानं मुनिलिङ्गं गुणानां शून्यमपि तेन प्रतिमेव । पूज्यं स्थानमत्यापि कुलिङ्गं सर्वथाऽयुक्तम् ।। ३२९२ ।।
३ ननु केवलं कुलिङ्गेऽपि भवति तद् भावलिङ्गतो न ततः । मुनिलिङ्गमङ्गभावं याति यतस्तेन तत् पूज्यम् ।। ३२९३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५५॥
16 4ww.janeibrary.org
Page #58
--------------------------------------------------------------------------
________________
विशेषा
E/बृहदतिः ।
॥१२५६॥
ज्ञानस्य कारणतां याति, तेनं तस्मात् तत् पूज्य मिति ॥ ३२९३ ॥
तदेव कोप-प्रसादविरहादीन् पञ्चापि परोपन्यस्तहेतून् निराकृत्योपसंहरन्नाहतेणे सुहालंबणओ परिणामविसुद्धिमिच्छया निच्चं । कज्जा जिणाइपूया भव्वाणं बोहणत्थं च ॥३२९४॥
येनैवम्, तेन तस्मात् परिणामविशुद्धिमिच्छता कार्या विधेया जिनादीनां नित्यमेव पूजा। कुतः? इत्याह-शुपालम्बनतः शुभा. लम्बनरूपत्वात् । न केवलं स्वपरिणामविशुद्धिनिमित्तम्, भव्यजनावबोधनार्थं च विधेया जिनादिपूजा । तद्दर्शने ह्यनेके भव्याः प्रतिबु. ध्यन्ते, जिनधर्ममासादयन्ति, समासादिते च स्थिरीभवन्ति । अत एव तत्करण कारणा-ऽनुपोदनादिप्रवृत्तसंवेगातिशयात क्षपितकर्मणो. ऽन्तकृत्केवलिनो भूत्वाऽनन्तेन कालेनानन्ताः सिद्धान्त सिद्धाः श्रूयन्ते ।। इति सप्ततिगाथार्थः ।। ३२९४ ।।
॥ तदेवमवसितः पश्चनमस्कारः ।।
॥ तदवसाने च नमस्कारनियुक्तिः समाप्ता। अर्थ सामायिकमूत्रविषयां सूत्रस्पर्शकनियुक्तिमभिषित्सुराहकयपंचनम्मोक्कारो करेइ सामाइयं तु सोऽभिहिओ। सामाइयंगमेव य ज सो सेसं अओ वोच्छ ॥ ३२९५ ॥
कृतपश्चनमस्कार एव शिष्यः सामायिक करोतीत्यागमस्थितिः प्रागुक्तयुक्त्या सामायिकाङ्गमेव यस्मादसौ, ततः स पञ्चनमस्कारोऽभिहितः प्रतिपादितः, अतः परं शेष सामायिकसूत्रं वक्ष्ये व्याख्यास्यामि ॥ इति नियुक्तिगाथार्थः ।। ३२९५ ॥
भाष्यकारः प्राहइत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती नया य पइसुत्तमाउज्जा ॥३२९६॥
अत्र च सूत्रव्याख्याने सूत्रानुगमाऽनुगमप्रथमभेदः, तथा सूत्रालापककृतश्च निक्षेपो निक्षेपतृतीय भेदः, तथा नियुक्त्यनुगमतृतीयभेदरूपा सूत्रस्पर्शकनियुक्तिः सूत्रस्पर्शकनियुक्त्यनुगम इत्यर्थः, नयाश्च प्रतिमूत्रमायोज्या इति ॥ ३२९६ ।।
१ तेन शुभालम्बनतः परिणामविशुद्धिमिच्छता नित्यम् । कार्या जिनादिपूजा भव्यानां बोधनार्थ च ।। ३२९४ ।। २ कृतपञ्चनमस्कार: करोति सामायिकं तु सोऽभिहितः । सामायिकानमेव च यत् स शेषमतो वक्ष्ये ।। ३२९५ ॥ ३ अत्र च सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शकनियुक्तिर्नयाश्च प्रतिसूत्रमायोज्या: ।। ३२९६ ।।
॥१२५६॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #59
--------------------------------------------------------------------------
________________
विशेषा०
१२५७॥
Jain Education Inter
कथं पुनः सूत्रानुगमा विधेयाः : इत्याह
अगंतव्वं सुतं सुत्तागमाणुसारओ तं च । सुत्तं करेमि भंते ! सामाइयमेवमाईयं ॥ ३२९७ ॥
अनुयोगद्वारोक्तसूत्रानुगमानुसारतो हीनाक्षरमनत्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमित्यादिरूपं सूत्रमनुगन्तव्यं व्याख्येयम् । तच्च सूत्रं ' करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं ' इत्याद्युच्चारणीयम् । तस्य चार्थो मूलावश्यकटीकातोऽवसेयः । अत्रापि प्रतिपदं व्याख्यानं वक्ष्यत इति ।। ३२९७ ।।
ननु तस्योच्चारितस्य सूत्रस्य किमिह वाच्यम् : इत्याह
तेरस कयपयन्नासो सुत्त फासं भणामि तत्थेव । सुत्तालावन्नासं नए य वुच्छामि संभवओ ॥ ३२९८ ॥
तस्य च सूत्रस्य कृतपदन्यासोऽहं सूत्रस्पर्श भणामि - पदान्युच्चार्य ततः सूत्रस्पर्श भणिष्यामीत्यर्थः, तथा, तत्रैव सूत्रे सूत्राकापकानां न्यासं निक्षेपम्, नयांश्च यथासंभवं वक्ष्यामि ।। इति गाथात्रयार्थः ।। ३२९८ ॥
तत्र पदानि विच्छिद्य दर्शयन्नाह -
कैरणे भए य अंते सामाइय सव्वए य वज्जे य । जोगे पच्चक्खाणे जावज्जीवाइ तिविहेणं ॥ ३२९९ ॥
इयं च नियुक्तिगाथा ॥ ३२९९ ॥
अत्र कश्चिदाह— ननु 'करेमि भंते सामाइयं' इत्यादिके सूत्रे 'करेमि' इति पदमादौ वर्तते, तत् कथं 'करणे' इति दर्शितम् ? इत्याशङ्कय भाष्यकार आह
सुत्तं करोमि भणिए धाऊ विहिओ जओ डुक्कियं करणे । तेण करेमिवयणओ गम्मइ करणं तदत्थो त्ति ॥ ३३०० ॥
१५८
१ अनुगन्तव्यं सूत्रं सूत्रानुगमानुसारतस्तञ्च । सूत्रं करोमि भदन्त ! सामायिकमेव मादिकम् ।। ३२९७ ॥
२ तस्य कृतपदन्यासः सूत्रस्पर्श च भणामि तत्रैव । सूत्रालापकम्यासं नयांश्च वक्ष्यामि संभवतः ।। ३२९८ ।।
३ करणं भयं चान्तः ( भदन्तः ) सामायिकं सर्वकश्च वर्जश्च (वद्यं च ) । योगः प्रत्याख्यानं यावज्जीवादि त्रिविधेन ।। ३२९९ ।।
४ सूत्रं करोमि भणिते धातुर्विहितो यतो डुकुंगू करणे । तेन करोमिवचनतो गम्यते करणं तदर्थ इति ।। ३३०० ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५७॥
www.janbrary.org
Page #60
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२५८॥
Jain Educatora International
सूत्रं यदुच्चरितं तत्र 'करोमि इति भणिते यतो धातु: 'डुक करणे' करणार्थे विहितः पठितस्तेन तस्मात् 'करोमि' इति वचनतस्तदर्थभूतं करणमत्र गम्यते । अतस्तदादौ करणं पदमिह दर्शितमिति ॥ ३३०० ।।
तत्रास्य करणपदस्य शब्दार्थ भेदांशाह
करणं किरिया भावो संभवओ वह छव्विहं तं च । नामं ठवणा दविए खित्ते काले य भावे य ॥ ३३०१ ॥
करणं क्रियेति भावाभावमात्रमिह वाच्यम्, 'संभवओ वेह त्ति' अथवा, संभवतो यथासंभव मिह शब्दार्थो वक्तव्यःः यद्यथा क्रियते तदिति करणम्, क्रियतेऽनेनेति करणम्, क्रियतेऽस्मादिति करणम्, क्रियतेऽस्मिन्निति वा करणमित्यादि । तच्च करणं नामादिभेदात् षड्विधमिति ।। ३३०१ ।।
तत्र नाम स्थापनाकरणवाह
नाम नामस्स व नामओ व करणं ति नामकरणं ति । ठवणा करणन्नासो करणागारो व जो जस्स ॥३३०२ ||
'नामं ति' नामैव करणं नामकरणमिति सामानाधिकरण्यं द्रष्टव्यम् । अथवा, नाम्नः करणं नामकरणम्, नामतो वा करणं नामकरणम्, 'करणं ति' अयं करणशब्दः प्रत्येकं योजनीयः, स च योजित एव । 'नामकरणं' इति द्वारपरामर्शः । 'ठवण त्ति' स्थापनाकरणमुच्यत इत्यर्थः । किं तत् ? इत्याह- करणस्य करणशब्दस्य न्यासः करणन्यासः, अथवा, यो यस्य करणस्य दात्रादेराकारः काष्ठादौ विन्यस्तः स स्थापनाकरणमिति ।। ३३०२ ॥
अथ द्रव्यकरणमभिधित्सुर्दव्यकरणशब्दस्य व्युत्पादनार्थमाह
तैं तेण तस्स तम्मि व संभवओ व किरिया मया करणं । दव्वस्स व दव्वेण व दव्वम्मि व दव्वकरणं ति ॥ ३३०३ ॥ क्रियते तदिति करणमिति करणशब्दः कर्मसाधनः क्रियतेऽनेनेति करणसाधना, तस्य द्रव्यस्य कृतिः करणमिति भावसाधनः,
१ करणं क्रिया भावः संभवतो वह षड्विधं तच । नाम स्थापना द्रव्यं क्षेत्रं कालच भावश्च ।। ३३०१ ||
२ नाम नाम्नो वा नामतो वा करणमिति नामकरणमिति । स्थापना करणन्यासः करणाकारो वा यो यस्य ।। ३३०२ ।। ३ तत् वेन तस्य तस्मिन् वा संभवतो वा क्रिया मचा करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ।। ३३०३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५८॥
Page #61
--------------------------------------------------------------------------
________________
विशेषा
॥१२५९॥
क्रियते तस्मिन्नित्यधिकरणसाधनः । तत्र कर्म-करणा-ऽधिकरणपक्षेषु द्रव्यं च तत् करणं चेति कर्मधारय एव सपास इत्येतत् स्वयमेव द्रष्टव्यम् । 'संभवओ व किरिया मया करणं.ति' अथवा, संभवतो यथासंभवमपरं षष्ठीतत्पुरुषादिकं समासमपेक्ष्य क्रियैव मतं करणम, सर्वकारकनिष्पाद्यत्वाद् धात्वर्थस्येति । तमेव षष्ठीतत्पुरुषादिकं समासं दर्शयति-द्रव्यस्य करणं द्रव्यकरणम्, द्रव्येण वा करणं द्रव्यकरणम्, द्रव्ये वा करणं द्रव्यकरणमिति । अस्य च द्रव्यकरणस्यागमतो नोआगमतश्चेत्यादिविचारः सुकर एव तावद् यावज्ज्ञशरीरभव्यशरीर व्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं, नोसंज्ञाकरणं च ।। ३३०३ ।।
तत्र संज्ञाकरणमाहदेवकरणं तु सण्णाकरणं पेलुकरणाइयं बहुहा । सण्णा नाम ति मई तं नो नाम जमभिहाणं ॥३३०४॥ जं वा तदत्थविगले कीरइ दव्वं तु दव्वपरिणामं । पेलुकरणाइ न हि तं तदत्थसुन्नं नवा सहो ॥३३०५॥ जइ न तदत्थविहीणं तो किं दव्वकरणं जो तेणं । दव्वं कीरइ सण्णाकरणं ति य करणरूढीओ ॥३३०६॥
व्याख्या-द्रव्यकरणं तु यत् तावत् संज्ञाकरणं तत् पेलुकरणादिकं बहुभेदम् । तत्र लाटदेशे रूतसंबन्धिनी या 'पूणिका' इति प्रसिद्धा सैव महाराष्ट्रकविषये 'पेलु' इत्युच्यते, तस्याः करणं निवतकं वंशादिमयी शलाका पेलुकरणम्, आदिशब्दात कटकरणं पाइल्लकादि, तथा वार्ताकरणं बालानामधीयानानां वर्तनकम्, तथा काण्डकारणगुपकरणविशेषरूपं काण्डकरणं परिगृह्यते । एवमन्यदपि लोकप्रसिद्धं लोकसंज्ञविशिष्टं करणं संज्ञाकरणं वेदितव्यम् । ननु संज्ञा नामवोच्यते, ततश्च संज्ञाकरण नामकरणयोर्विशेषो न प्राप्नोतीति परस्य मतिर्भवेत्, तदेतद् नो नैव युक्तम्, यस्मात् 'करणम्' इत्यक्षरत्रयात्मकमभिधानमात्रमेव नाम, न तु द्रव्यम् अथवा यत तदर्थविकले करणार्थविकले वस्तुनि संकेतमात्रतः ‘करणम्' इति नाम क्रियते तद् नामकरणमुच्यतेसंज्ञाकरणं तु पेलुकरणादिक प्रणिकावलनकशलाकादि द्रव्यम् तेन तेन पूणिकाकरणरूपेण यद् द्रवणं गमनं तत्परिणामं तत्स्वभावमभिधीयते, हि यस्माद् न तत पेठकरणादि द्रव्यं तदर्थशून्यं करणशब्दार्थविकलम्, पूणिकादिकरणपरिणामान्वितत्वात्, नापि शब्दः करणाभिधानमात्ररूपः,
१ द्रव्यकरणं तु संज्ञा करणं पेलुकरणादिकं बहुधा । संज्ञा नामेति मतिस्तद् नो नाम यदभिधानम् ।। ३३०४ ।। यद् वा तदर्थविकले क्रियते द्रव्यं तु द्रव्यपरिणामम् । पेलुकरणादि न हि तत तदर्थशून्य न वा शब्दः ।। ३३०५ । यदि न तदर्थविहीनं ततः किं द्रव्यकरणं यतस्तन । द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढेः ।। ३३०६ ॥
888888888888888888
666666
०॥१२५९॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #62
--------------------------------------------------------------------------
________________
विशेषा०
॥१२६०॥
Jain Educator Intern 199
इति नामकरण-संज्ञाकरणयोर्भेद इति । आह- ननु यदि तदर्थविहीनं करणशब्दार्थरहितं संज्ञाकरणं न भवति, ततस्तर्हि किं कस्माद् द्रव्यकरणमेतत् ? - किमिति द्रव्यविचारे इदं पठ्यते ? - ननु भावकरणमेवास्त्वित्यभिप्रायः । उच्यते - यतस्तेन पेलुकरणादिना संज्ञाकरणेन द्रव्यं पूणिकादिकं क्रियते निर्वर्त्यते, अतो 'द्रव्यस्य करणं द्रव्यकरणम्' इति व्युत्पत्त्यर्थमाश्रित्य द्रव्यकरणमिदमुच्यते । संज्ञाकरणं त्विदं करणरूढितो भण्यते, करणसंज्ञाया लोकेऽस्य रूढत्वादित्यर्थः || ३३०४ ।। ३३०५ ।। ३३०६ ।।
अथ नोसंज्ञाकरणमाह -
नोसन्न करणं पुण दव्यस्सारूढकरणसण्णं पि । तक्किरियाभावाओ पाओगओ वीससाओ य ॥ ३३०० ॥ साइयमणाइयं वा अजीवदव्वाण वीससाकरणं । धम्माऽधम्म नहाणं अणाइ संघायणाकरणं ॥ ३३०८ ॥
व्याख्या -नोसंज्ञाकरणं तु द्रव्यस्य प्रयोगतो विस्रसातश्च भवति । कथंभूतम् ? इत्याह- अरूढकरणसंज्ञमपि - अरूढा अमसिद्धा 'करणम्' इति संज्ञा यत्र तदरूढकरणसंज्ञमपि, अत एव करणसंज्ञायास्तत्राभावाद् नोसंज्ञाकरणमुच्यते- अरूढकरणसंज्ञ करणमिदमित्यर्थः । यदि करणसंज्ञा तत्र नास्ति तर्हि करणमपि कथमुच्यते ? इत्याह – 'तकिरियाभावाड त्ति' सा चासौ करणलक्षणा क्रिया च तत्क्रिया तस्याः सद्भावादिति । इदमुक्तं भवति - यद्यपि शरीराऽभ्रे-न्द्रधनुरादौ करणसंज्ञा नास्ति तथापि प्रयोगविस्रसाजनितकरणक्रिया विद्यते, अतस्तदपेक्षमेतेषां करणत्वं न विरुध्यत इति । तत्राजीवद्रव्याणां विस्रसारणं सायनादि च भवति । तत्र धर्मा-धर्मास्तिकाय नभसां संघातनाकरणं प्रदेशानां परस्परसंहत्यवस्थानरूपं करणमनादिरूपं विज्ञेयमिति ।। ३३०७ ।। ३३०८ ॥
अत्र पर माह-
नैणु करणमणाइयं च विरुद्धं भण्णए न दोसोऽयं । अन्नोन्नसमाहाणं जमिहं करणं न निव्वती ॥ ३३०९ ॥ ननु कृतिनिर्वृत्तिर्वस्तुनः करणमुच्यते तच्च साद्येव भवति, घट-कट शकटादिकरणवत् । ततश्च करणमनादि चेत्युच्यमानं विरु
१ नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढ करणसंज्ञमपि । तत्क्रियाभावात् प्रयोगतो विस्रातश्च ।। ३३०७ ।। सादिकमनादिकं वाऽजीवद्रव्याणां विस्रसाकरणम् । धर्माऽधमं नभसामनादि संघातनाकरणम् ।। ३३०८ ।। २ ननु करणमनादिकं च विरुद्धं भण्यते न दोषोऽयम् । अन्योन्यसमाधानं यदिह करणं न निर्वृत्तिः ।। ३३०९ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
1001
।।१२६०॥
Page #63
--------------------------------------------------------------------------
________________
दमेव, 'माता मे बन्ध्या' इत्यादिवचनवदिति । भण्यतेत्रोत्तरम्-मायं दोषः, यस्माद् धर्मास्तिकायादिप्रदेशानामन्योन्यं परस्परं यत् विशेषा
सम्यगाधानं समाधानमनादिकालात् संहत्यावस्थानम्, धातूनामनेकार्थत्वात्, तदेवेहाभिप्रेतं करणम्, न पुनरपूर्वा निवृत्तिः । धर्मास्ति॥१२६१॥ कायादिप्रदेशराशेश्च यत् संहत्यावस्थानं तस्यानादित्वं न किश्चिद् विरुध्यते, अनादिकालीनत्वादस्येति ॥ ३३०९ ।।
___ अथवा, धर्माधर्म-नभसां सादिकमपि करणं भवतीति दर्शयन्नाह - अहवा परपच्चयाओ संजोगाइ करणं नभाईणं । साइयमुवयाराओ पज्जायादेसओ वावि ॥ ३३१० ॥
अथवा, उपचाराद् नभःप्रभृतीनां करणं सादिकं विज्ञेयम् । उपचारोऽपि कुतः ? इत्याह-परप्रत्ययात्, घटादिवस्तून्याश्रित्ये. त्यर्थः । कथंभूतं करणम् ? संयोगादि, आदिशब्दाद् विभागादिपरिग्रहः । इदमुक्तं भवति-आकाशादीनां घटादिसंयोगादयः सा18 दयः सपर्यवसानाश्च । ततो यत् तेषां घटादिभिः सह संयोगादिकरणं तत् सादिकं भवत्येव । अथवा, पर्यायरूपतया सर्वमपि वस्तु
जैनानां सादि सपर्यवसितमेव भवति । अतः पर्यायादेशतः पर्यायानाश्रित्य नभामभृतीनामपि करणं सादिकं बोद्धव्यमिति । तदेवम| रूपिणामजीवद्रव्याणां साधनादि च विस्रसाकरणमुक्तम् ॥ ३३१० ।।
__ अथ रूप्यजीवद्रव्याण्याश्रित्याहचक्खुसमचक्खुसं चिय साईअं रूविवीससाकरणं । अब्भाणुप्पभिईणं बहुहा संघाय-भेयकयं ॥ ३३११ ॥
इहाभ्रे-न्द्रधनु:-परमाणुप्रभृतीनां रूप्यजीवानां विस्रसाकरणं चक्षुभ्या दृश्यत इति चाक्षुषमभ्रादीनाम्, चक्षुर्गोचरातीतमचा. क्षुष परमाणु-द्वयणुकादीनाम् । एतद् द्विविधमपि संघात-भेदकृतं बहुधा बहुभेदं सादिकं भवति । अभ्रादीनां केचित् पुद्गलाः संहन्यन्ते, केचित्तु भिद्यन्ते, ततस्तेषां नानारूपता भवति । एवं द्वयणुकादिस्कन्धेष्वपि वाच्यम्, परपाणोस्तु स्कन्धाद् भेदकृतमेव करणम्, "भेदादणुः” (तत्त्वा० ५, २७) इति वचनादिति । करणं चेह कृतिः खभावत एव निवृत्तिर्गृह्यते, न पुनः क्रियत इति करणमिति । उक्तं विस्रसाकरणम् ॥ ३३११ ॥
१ अथवा परप्रत्ययात् संयोगादि करण नभआदीनाम् । सादिकमुपचारात् पर्यायादेशतो वापि ॥ ३३१० ।। २ चाक्षुषमचाक्षुषमेव सादिकं रूपिविससाकरणम् । अभ्रा-ऽणुप्रभृतीनां बहुधा संघात-भेदकृतम् ।। ३३११ ॥
॥१२६१॥
For Personal and Price Use Only
Page #64
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वृत्तिः ।
॥१२६२॥
अथ प्रयोगकरणमाहहोई प्पओगो जीवव्यापारो तेण जं विणिम्माणं । सजीवमजीवं वा पओगकरणं तयं बहुहा ॥ ३३१२॥ सज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥ ३३१३ ॥
व्याख्या-प्रयोजनं प्रयोगो भवति । कः? इत्याह-जीवव्यापारः, तेन यद् विनिर्माणं विनिर्मापनं तत् प्रयोगकरणं भण्यते, तच्च सज्जीवमजीवं च बहुधा भवति । इह च सन् विद्यमानो जीवो यत्र तत् सज्जीवं प्रयोगकरणं पश्चानामौदारिकादिशरीराणां द्रष्टव्यम् । इदं च मूलकरणो-त्तरकरणभेदाद् द्विविधम् । अत एवाह-'सज्जीवं मूलो त्तरकरणं ति' सजीवं प्रयोगकरणं द्विभेदमः तद्यथामूलकरणम्, उत्तरकरणं च । तत्र मूलकरणं 'जमाईयं ति' पश्चानामपि शरीराणां यदाद्यं पुद्गलसंघातकरणं तद् मूलकरणं वेदितव्यम् । 'उत्तरमाइत्तियस्सेव त्ति' उत्तरकरणं त्वादित्रिकस्यैव, आद्यानामेवौदारिक वैक्रिया-ऽऽहारकशरीराणां भवति, न तु तैजस-कार्मणयोरित्यर्थः ।। ३३१२ ॥ ३३१३ ॥
___ नन्वस्याद्यशरीरत्रयस्य शिर-उर-प्रभृतीन्यङ्गानि, कर-चरणानुल्यादीनि चोपाङ्गानि भवन्ति, तत्रापि कियदिह मूलकरणम्, कियच्चोत्तरकरणम् ? इति विभागेन कथ्यतामित्यत्राह
मूलकरण सिरो-रु-पिट्ठी-बाहो-दरो-रुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं व ॥ ३३१४ ॥
इहौदारिकादिशरीरत्रये यच्छिर-उरः पृष्ठि-बाहुद्रयो दरो रुद्वयलक्षणानामष्टानामङ्गानां निर्माणं निष्पादनं तत् मूलकरणम, 188 | अवशेषाणां तु कर-चरणाङ्गुल्यादीनामुपाङ्गानां यद् निर्माणं तदुत्तरकरणम्, तथौदारिक-वैक्रियशरीरयोः केश-नख-दशनादिसंस्काररूपं यत् केशादिकर्म तदपि तयोरुत्तरकरणमिति ।। ३३१४ ॥
अपरमप्यौदारिक-वैक्रियशरीरयोरुत्तरकरणं दर्शयन्नाह
१ भवति प्रयोगो जीवव्यापारस्तेन यद् विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तद् बहुधा ॥ ३३१२।।
सज्जीवं मूलोत्तरकरणं मूलकरणं यदाद्यम् । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ ३३१३ ॥ २ मूलकरणं शिर-तर:-पृष्ठि-बाहू-दरो-कनिर्माणम् । उत्तरमवशेषाणां करणं केशादिकमेव ।। ३३१४ ॥
॥१२६२॥
Jain Educational Intele
For Personal and Price Use Only
106/
Page #65
--------------------------------------------------------------------------
________________
विशेषा ०
॥९२६३॥
Jain Education in
ठवणमणेगविहं दुहं पढमस्स भेसएहिं पि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥ ३३१५ ॥
विनष्टकरणाद्यवयवसंघानादिरूपमौदारिके, केशाद्युपरचनरूपं तु संस्थापनं वैक्रिय इत्येवं द्वयोरायशरीरयोः संस्थापनं संस्करणमनेकविधं भवति, प्रथमस्य पुनरौदारिकशरीरस्यान्योऽपि विशेषः । कः ? इत्याह- भेषजैरपि लक्षपाकतैलादिभिर्यद् वर्णादीनां विशेषोपादानं तत् तस्योत्तरकरणम् । तृतीये त्वाहारकशरीरे केश-नख दन्तादिपरिकर्म नास्त्येव, स्वरूपेणैव विशिष्टत्वात् प्रयोजनाभावाच्चेति ॥ ३३१५॥
अथवा, प्रकारान्तरेणापि त्रिविधं जीवप्रयोगकरणं विज्ञेयम् । कथम् ? इत्याह
संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं ॥ ३३१६ ॥
अथवा, औदारिकादिशरीराणां संघातनं, परिशाटनं, संघात परिशाटोभयलक्षणमुभगं चेत्येवं त्रिविधं करणं विज्ञेयम् । तत्र पूर्वभविक मौदारिकादिशरीरं परित्यज्याग्रेतनभवे पुनरपि तद्गतौ यत् पुद्गलानां संघातनं संग्रहणं स संघातः, यस्तु तदेवौदारिकशरीरं परित्यजतश्चरमसमये सर्वथा तत्पुद्गलानां परित्यागः 'शट रुजा विशरण- गत्य ऽवसादनेषु' इति धातोः पुद्गलानां परिशाटनमवसादनं परिशाटः । संघात-परिशाटसमययोश्चापान्तराळसमयेषु सर्वेष्वपि संघात - परिशाटोभयं द्रष्टव्यम्, सर्वत्र पूर्वपरिगृहीतकानां मोचनात्, अन्येषां च ग्रहणादिति । तत्राद्यशरीरत्रयस्य संघात परिशाटो भयलक्षणं त्रिविधमपि करणं भवति, तैजस-कार्मणयोस्तु संघातो न भवत्येव, परित्यक्तयोस्तयोः पुनर्ग्रहणाभावादिति । अथ संघातादीनां कालपरिमाणमभिधित्सुराह - 'सिंति' एतेषां संघात - परिशाटोभयानां कालोऽभिधीयते । क्रियान् ? इत्याह- ' आयाणमुयणसमउ त्ति' आदान मौदारिकादिशरीरपुद्गलानां प्रथमं ग्रहणं संघातनं संघात इत्यर्थः, अयमेकमेव समयं भवति, ततः परं संघात - परिशाटोभयप्रवृत्तेः, मोचनं पुद्गलानां परिशाटनं परिशाटः सोऽप्येकसमयमेव भवति, तदन्तरालं संघातपरिशाटोभयलक्षणमिह गृह्यते, तस्य कालो 'वक्ष्यते' इति शेषः । चशब्दात् 'संघातादीनामन्तरालकालश्च वक्ष्यते' इति दृश्यमिति ।। ३३१६ ।।
१ संस्थापनमनेकविधं द्वयोः प्रथमस्य भेषजैरपि । वेणादानां करणं परिकर्म तृतीय के नास्ति ।। ३३१५ ।। २ संघानं परिशाटनमुभयं करणमथवा शरीराणाम | आदन-मोचन समयस्तदन्तरालं च काल एषाम् ।। ३३१६ ॥
For Personal and Private Use Only
बृहद्वृत्ति ।।
॥१२६३॥
ww.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
विशेषा
हद्वतिः।
॥१२६४॥
तत्रौदारिकशरीरस्य संघात-परिशाटोभयकालमाहखुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयरस । पल्लतियं समओणं उक्कोसोतरालकालोऽयं ॥ ३३१७ ॥ अत्र संघात-परिशाटोभयस्य जघन्यकाले प्रतिपाद्ये विग्रहेणोत्पादनीयः; अत एवाहदो विग्गहम्मि समया समओ संघायणाइ तेहूणं । खुड्डागभवग्गहणं सव्वजहण्णट्टिईकालो ॥ ३३१८ ॥ इह यत् पञ्चाशदधिकावलिकाशतद्वयमानमायुषो जघन्यस्थितिरूपं क्षुल्लकभवग्रहणमुच्यते, तथा च वृद्धोक्तम्
"दो य सया छप्पन्ना आवलियाणं तु खुड्डभवमाणं । जियराग-दोस-मोहेहिं जिणवरहिं विणिद्दिढ ॥ १॥" इदं च क्षुल्लकभवग्रहणं द्वाभ्यां विग्रहसमयाभ्यामेकेन संघातसमयेन न्यून संघात-परिशाटलक्षणस्योभयस्य जघन्य स्थितिमान जघन्यतोऽपि संघात-परिशाटोभयमेतावन्तं कालं भवतीत्यर्थः । अत्राह कश्चित् - ननु
विदिसाओ दिसिं पढमे बीए पविसेइ लोगमज्झम्मि । तइए उप्पि धावइ नाडीवहिं जायइ चउत्थे ॥१॥" इति वचनाद् यदाऽधनसनाड्या बहिर्देशादूर्ध्व लोके त्रसनाड्या बहिरेव निगोदादिजीवश्चतुर्भिः समयैरुत्पद्यते, तदा विग्रहगतावपान्तरालगतावाद्यास्त्रयः समयाः, चतुर्थस्तु संघातसमयः, इत्येवं चतुर्भिरपि समयैन्यूँनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयस्य जघन्यकालः प्राप्यते, तत् किंमितीह त्रिभिरेव समयैन्यूनं क्षुल्लकभवग्रहणं जघन्यस्तत्काल उक्तः? । सत्यम्, किन्त्वस्यां चतुःसमयायां विग्रहगतौ य आद्यसमयः स इह परभवप्रथमसमयो न विवक्षितः, किन्तु पूर्वभव चरमसमय एव, पूर्वभवशरीरस्य तत्र मुच्यमानत्वात्, मुच्यमानं च मुक्तमिति व्यवहारनयमताश्रयणादिति । अथवा, त्रसजीवसंबन्धिन्यवहापान्तरालगतिर्विवक्षिता, त्रसजीवाश्वोत्कृष्टतोऽपि | तृतीयसमये उत्पत्तिस्थानं प्राप्नुवन्तीत्यदोष इति तावद् वयमवगच्छामः । तत्वं तु बहुश्रुता एव विदन्तीति । इह चैतानि क्षुल्लकभव
१ क्षुल्लकभवग्रहणं त्रिसमयहीनं जघन्यमुभयस्य । पल्यत्रिक समयानं उत्कृष्टोऽन्तरालकालोऽयम् ॥ ३३१७ ॥ २द्वी विग्रहे समयो समयः संघातनादि तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यस्थितिकालः ।। ३३१८ ।। ३ द्वे च शते षट्पञ्चाशदावलिकानां तु क्षुल्लभवग्रहणम् । जितराग-द्वेष-मोहै जिनवरीर्वनिर्दिष्टम् ॥ १॥ ४ विदिशो दिशं प्रथमे द्वितीये प्रविशति लाकमध्ये । तृतीये उपरि धावति नाडीबहिर्जायते चतुर्थे ॥ १॥
॥१२६४॥
JainEducationa.intern
For Personal and Price Use Only
Row.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
विशेषा
॥१२६॥
ग्रहणान्येकस्मिन्नुच्छासनिःश्वासे सातिरेकाणि सप्तदश मन्तव्यानि ; यत उक्तम्-"खुड्डागभवग्गहणा सत्तरस हवंति आणुपाणम्मि" . इत्यादि ॥ ३३१८ ॥
अथ 'पल्लतियं' इत्याद्युत्कृष्टसंघात-परिशाटोभयकालभावनामाहउक्कोसो समऊणो जो सो संघायणासमयहीणो । किह न दुसमयविहीणो साडणसमएऽवणीयम्मि ॥३३१९॥
इह यो देवकुर्वादिषुत्पन्न औदारिकशरीरस्य प्रथमसमये संघातं कृत्वा त्रीणि च पल्योपमानि उत्कृष्टमायुः परिपाल्य म्रियते, तस्य संघातसमयन्यूनानि त्रीणि पल्योपमान्युत्कृष्टः संघात-परिशाटोभयकालः प्राप्यते । अत्राह-ननु कथमेकेनैव समयेन न्यूनो१ ऽयमाभिधीयते, यावता यथा शरीरग्रहणप्रथमसमये सर्वसंघातस्तथा तन्मोक्षसमये सर्वपरिशाटोऽपि भवति । ततस्तस्मिन् परिशाटसमयेऽपनीते समययहीन एवासौ मामोतीति ॥ ३३१९ ॥
अत्र प्रतिविधित्सुराहभण्णइ भवचरिमम्मि वि समए संघायसाडणे चेव । परभवपढमे साडणमओ तदूणो न कालो त्ति ॥३३२०॥
भण्यतेऽत्रोत्तरम्-भवस्य चरमेऽपि समये संघात-परिशाटोभयमेव प्रवर्तते । यत्तु शरीरपुद्गलानां केवलं परिशाटनमेव, तत् परभवस्य प्रथमसमय एव मन्तव्यम्, 'परभनपढमे साढणं' इति निश्चयनयमताश्रयणात् । अतस्तेन परिशाटसमयेन न्यूनः संघातपरिशाटोभयकालो न भवतीति ॥३३२०॥
अत्र व्यवहारनयवादी प्रेरयतिजैइ परपढ़मे साडो निम्विग्गहओ य तम्मि संघाओ। नणु सव्वसाड-संघायणाओ समए विरुद्धाओ ॥३३२१॥
१ क्षुल्लकभवग्रहणानि सप्तदश भवन्ति प्राणापानयोः ( श्वासोच्छ्रासे) २ उत्कृष्टः समयोनो यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमयेऽपनीते ॥ ३३१९ ।। ३ भण्यते भवचरमेऽपि समये संघात-शाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ।। ३३२० ॥ ४ यदि परप्रथमे शाटो निर्विग्रहत्तश्च तस्मिन् संघातः । ननु सर्वशाट-संघातने समये विरुद्धे ॥३३२१॥
॥१२६५॥
For Personal and Price Use Only
Page #68
--------------------------------------------------------------------------
________________
विशेषा०
॥१२६६॥
Jain Educators in
भो निश्चयनयवादिन् ! यदि परभवप्रथमसमये शाटोऽभ्युपगम्यते, निर्विग्रहतश्च ऋजुश्रेण्या चोत्पद्यमानस्य तस्मिन्नेव समये संघात इष्यते, तदा नन्वहो सर्वशाटसंघात युगपदेकस्मिन्नेव समये विरुद्धौ तौ प्राप्नुतः, सर्वशाटस्य पूर्वभवशरीरसंबन्धित्वात् सर्वसंघातस्य च भवान्तरगतशरीरविषयत्वात्, भवद्भयशरीरयोश्च युगपत्सत्त्वस्य दुरविरुद्धत्वादिति ॥ ३३२१ ॥
_ निश्चयनयवादी प्रतिविधानमाह
जम्हा विगच्छमाणं वियं उप्पज्जमाणमुप्पण्णं । तो परभवाइसमए मुक्खा दाणाण न विरोहो ॥३३२२॥
यस्मात् पूर्वभवशरीरं परभवाद्यसमये विगच्छद् विगतम्, उत्पद्यमानं स्वग्रेतनभवशरीरमुत्पन्नम्, क्रियाकाल निष्ठाकालयो रभेदात् । ततस्तत्र मोक्षा-ऽऽदानयोरिष्यमाणयोर्न कश्चिद् विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनभवशरीरस्य तत्र सद्भावादिति ।। अपि च, मरणसमयः परभवाद्यसमयत्वेनाभ्युपगन्तव्य एव, अन्यथा दोषसंभवादित्याह
चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए । जइ न परभवो वि तहिं तो सो को होउ संसारी?॥३३२३॥
च्युतिसमये इहभवशरीरा ऽऽयुः पुद्गल सर्वपरिशाटसमये तावदिहभवो न भवति इहभवदेहस्यायुषश्च मुच्यमानत्वात् मुच्य मानस्य च सर्वथा विमोक्षात्, क्रियाकाल-निष्ठाकालयोरभेदादिति । 'जहात्तीए त्ति' यथाऽतीतजन्मनहिभवो नास्ति, अत्रत्यदेहाभावात्, तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहा भावस्याविशेषादित्यर्थः । एवं च सति यदि यस्मिंश्च्युतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु, इहभवत्वस्य भवद्युक्तित एव निषेधात्, परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् ? । संसारित्वेन च मुक्तव्यपदेशाभावाद् निर्व्यपदेश एवासौ स्यादिति ।। ३३२३ ।।
व्यवहारनयवादी प्राह
नै जह विग्गहकाले देहाभावे वि परभवग्गणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥३३२४॥ ननु यथा विग्रहका विग्रहेण परभवगमनकाले पारभविकदेहाभावेऽपि जीवस्य परभवग्रहणं नारकादिपारभविकव्यपदेशः,
११ यस्माद् विगच्छद् विगतमुत्पद्यमानमुश्पन्नम् । ततः परभवादिसमये मोक्षा-ऽऽदानयोर्न विरोधः ।। ३३२२ ।।
२ युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीते । यदि न परभवोऽपि तर्हि ततः स को भवतु संसारी ? ।। ३३२३ ।। ३ ननु यथा विग्रहकाले देहाभावेऽपि परभवमहणम् । तथा देहाभावेऽपि भवेदिह भवाऽपि को दोष: ? ।। ३३२४ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२६६॥
Page #69
--------------------------------------------------------------------------
________________
बृहदतिः ।
तथा च्युतिसमयेऽपीहभवशरीराभावेऽपीहभवोऽपि यदि भवेत्- इहव्यपदेशोपि यदि स्यात्, तर्हि को दोषः-न कश्चित् , न्यायस्य विशेषा०88 समानत्वादिति ॥ ३३२४ ॥ ॥१२६॥
निश्चयवादी प्रतिविधानमाहजै चिय विग्गहकालो देहाभावे वि तो परभवो सो। चुइसमए उ न देहो न विग्गहो जइस को होउ ?॥३३२५॥
हन्त ! यत एवापान्तरालगतो जीवस्य विग्रहकालो न तु पूर्वभवकालः, तत एव देहाभावेऽप्यसौ परभवः परभवसंबन्धित्वेन | व्यपदेश्यः, परभवायुष उदीर्णत्वात्, पूर्वभवायुषस्तु प्रागेव निर्णत्वात्, निरायुषश्च जीवस्य संसारेऽसंभवादिति । च्युतिसमये तु न पूर्वभवदेहः, तस्य त्यक्तत्वात नापि विग्रहः, वक्राभावात् । ययेवम्, तर्हि स ब्युतिसमय इहत्य-पारभविकभवसमयानां मध्यात् को भवतु ? इति कथ्यताम् । ननु प्रोक्तं मया, यथा विग्रहकाके परभवदेहाभावेऽपि परभवस्तथा च्युतिसमये इहत्यदेहाभावेऽपीहभवोऽस्तु, को दोषः । सत्ययुक्तमिदं त्वया, न तु युक्तम्, दृष्टान्त-दान्तिकयोवैषम्यात्, यथा हि क्युतिसमय इहत्यदेहाभावस्तथेहत्यायुः पोऽप्यभाव एव, तस्यापि निर्जीर्यमाणस्य निर्जीर्णत्वात्, ततः कथमसौ च्युतिसमय इहभवो भवतु, इहत्यायुष्कोदयाभावात् । । विग्रह काले तु युक्तं परभवत्वम् , परभवायुष्कोदयसद्भावादिति । तस्मात् परभवश्च्युतिसमयः परभवायुष्कोदयात्, विग्रहकाळवत्, अन्यथा तस्य निर्व्यपदेश्यत्वप्रसङ्गात् । अतः 'पैरभवपढमे साढणं' इति स्थितम् । तदेवमौदारिकसंघात परिशाटो भयानां काल उक्तः॥३३२५॥
अथ तेषामेवान्तरकालमभिधित्सुः संघातस्य तावज्जघन्यमन्तरकाळमाहसंघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहम्मि समया तइओ संघायणासमओ ॥ ३३२६ ॥ तेहणं खुडुभवं धरिउ परभवमविग्गहेणेव । गंतूण पढमसमए संघायाओ स विन्नेओ ॥ ३३२७ ॥
१ यदेव विग्रहकालो देहाभावेऽपि ततः परभवः सः ।च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ? ॥३३२५।। २ गाथा ३३२० । ३ संघातान्तरकालो जघन्यतः क्षुल्लकं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ३३२६ ॥ तेरूनं क्षुक्तभवं धृत्वा परभवमविप्रहेणैव । गत्वा प्रथमसमये संघातात् स विज्ञेयः ॥ ३३२७ ।।
११२६॥
Jan Educational InteAX
For Personal and
Use Only
Xww.jainabrary.org
Page #70
--------------------------------------------------------------------------
________________
विशेषा ॥१२६॥
666०००००.००००००००००००००००००००००००००००००००००००
व्याख्या-एकदौदारिकशरीरस्य संघातं कृत्वा पुनस्तत्संघातं कुर्वतस्विभिः समययूनं क्षुल्लकभवग्रहणं जघन्योऽन्तरकालः पाप्यते । स च यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः समयहूयं विग्रहे कृत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नस्तृतीयसमये औदारिकस्य संघातं कृत्वा यथोक्तैत्रिभिः समयैन्यूनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयं विधाय मृतो निर्विग्रहेणैव च ऋजुश्रेण्याग्रेतनभवे पृथिव्यादिपूत्पन्न औदारिकशरीरस्य संघातं करोति, तदा तस्य जन्तोरौदारिकशरीरसंघातस्य च त्रिसमयन्यूनक्षुल्लकभवग्रहणलक्षणो जघन्योऽन्तरकालो विज्ञेयः । इह च जघन्यान्तरकालस्य प्रतिपादयितुं प्रस्तुतत्वात प्रथम विग्रहण, अग्रेतनभये तु निर्विग्रहेणात्पादितः, अन्यथा मध्यपान्तरकाळप्रसङ्गादिति ।। ३३२६ ।। ३३२७ ॥
अथौदारिकस्यैवोत्कृष्टं संघातान्तरकालमाहउक्कोसं तेत्तीसं समयाहियपुवकोडिसहियाई । सो सागरोवमाइं अविग्गणेव संघायं ।। ३३२८ ॥ काऊण पुवकोडिं धरिउं सुरजिट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययओ तस्स ॥ ३३२९॥
व्याख्या-'सागरोपमाणि' इत्यस्य व्यवहितः संबन्धः । ततश्च त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यभ्यधिकानि 'औदारिकसंघातान्तरमुत्कृष्टं भवति' इति गम्यते । कदा पुनरयं संघातान्तरकालो लभ्यते ? इत्याह -स उक्तलक्षणः काल इह तृतीय समये संघातयत औदारिकशरीरस्य संघातं कुर्वतो लभ्यत इति द्वितीयगाथायां संटङ्कः । किं कृत्वा ? इत्याह-कुतश्चित् पूर्वभवादविग्रहेणेह तावद् मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोटिं विधृत्य पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्ठमायुष्कं त्रयस्त्रिंशत्सागरोपमलक्षणमनुत्तरसुरेष्वनुभूय ततश्च्युत्वा समयद्वयं विग्रहे विधायेति । अत्र च विग्रहसत्कसमयद्वयमध्यादेकः प्राक्तन. पूर्वकोट्या प्रक्षिप्यते । एवं च सति त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यधिकानि उत्कृष्टमौदारिकशरीरसंघातान्तरं सिद्धं | भवति । अस्य चोपलक्षणत्वात् पूर्वकोव्यायुषो मत्स्यस्याप्रतिष्ठाननरके समुत्पत्थं पुनर्मत्स्येषूत्पन्नस्यदमन्तरं मन्तव्यामिति ॥३३२८-२९॥
अथौदारिकस्यैव संघात-परिशाटोभयस्य जघन्यमुत्कृष्टं चान्तरकालमाह
१ उत्कृष्टं त्रयस्त्रिंशत समयाधिकपूर्वकोटिसाहितानि । स सागरोपमाण्यविग्रहेणैव संघातम् ॥ ३३२८ ॥ कृत्वा पूर्वकोटि धृत्वा सुरज्येष्ठमायुष्कं ततः । भोक्त्वेह तृतीये समये संघातयतस्तस्य ॥ ३३२९ ॥
॥१२६८॥
Jan E
nter
For Personal and Price Use Only
Page #71
--------------------------------------------------------------------------
________________
विशेषा०
॥१२६॥
उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उयहिनामाई ॥ ३३३०॥
संघात-परिशाटोभयस्यैका समयो जघन्यमन्तरं भवति । क ? | निर्विग्रहेण संघाते सति । इदमुक्तं भवति-इहौदारिकशरीरी। आयुष्पर्यन्तं यावत् संघात-परिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पद्यौदारिकस्यैव संघातं कृत्वा पुनरपि तदुभयमारभते । तस्य स एचैकः संघातसमयो जघन्यमुभयान्तरं भवति । परमं तूत्कृष्टमेतदन्तरं सह त्रिभिः समयैर्वर्तन्ते सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि सागरोपमाणि भवन्तीत्यर्थः ।। ३३३०॥
कदा पुनरेतानि प्राप्यन्ते ? इत्याह - अणुभविउं देवाइसु तेत्तीसमिहागयरस तइयम्मि । समए संघाययओ दुविहं साडंतरं वुच्छं ॥ ३३३१ ॥
देवादिषु, आदिशब्दादप्रतिष्ठाने च त्रयस्त्रिंशत्सागरोपमाण्यनुभूयेहागतस्य तृतीयसमये संघातयतो लभ्यते । अयमत्र भावार्थ:इह कश्चिद् मनुष्यादिः स्वभवचरमसमये संघात-परिशाटोभयं कृत्वाऽनुत्तरसुरेष्वप्रतिष्ठाने वा यदा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनर• पीह समयद्वयविग्रहेणागत्य तृतीयसमये औदारिकसंघातं कृत्वा तत उभयमारभते, तदा द्वौ विग्रहसमयावेकश्च संघातसमयो देवादि. भवसंबन्धीनि च त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टोभयान्तरे पाप्यन्त इति । तदेवमौदारिकविषयस्य संघातस्योभयस्य च जघन्यमुत्कृष्टं चा. न्तरमुक्तम् । अथ परिशाटस्य तदभिधित्सुराह-'दुविहमित्यादि' द्विविधं जघन्यमुत्कृष्ठं च शाटस्यान्तरं वक्ष्यत इति ॥ ३३३१ ॥
यथाप्रतिज्ञातमेवाहखुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुत्रकोडी य ॥ ३३३२ ॥
इहौदारिकशाटस्य चान्तरे जघन्यतः क्षुल्लकभवग्रहणं भवति । उत्कृष्टं तु तत् शाटान्तरं पूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति । अत्राह-नन्वेतद् नावगच्छामः, जघन्यपक्षे समयोनक्षुल्लकभवग्रहणप्राप्तेरुत्कृष्टपक्षेऽपि समयोनपूर्वकोट्यधिकत्रयस्त्रिंशत्सागरोपमावाप्तेरिति, तथाहि-यः क्षुल्लकभवग्रहणायुष्केषु वनस्पत्यादिघृत्पद्यते स 'परभवपढमे साडणं' इति वचनात् तस्य क्षुलकभव
१ उभयान्तरं जघन्यं समयो निर्विप्रहेण संघाते । परमं सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि ॥ ३३३० ।। २ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ ३३३१ ।। ३ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टकं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णा पूर्वकोटिश्च ।। ३३३२ ।। ४ गाथा ३३२. ।
॥१६॥
Jan Education inte XOX
For Personal and Price Use Only
RXww.jaineibrary.org
Page #72
--------------------------------------------------------------------------
________________
विशेषा०
बृहदत्तिः ।
॥१२७०॥
ग्रहणस्यादिसमये प्राक्तनौदारिकशरीरस्य सर्वशाटं करोति, ततः क्षुलुकभवग्रहणपर्यन्ते मृतः पुनरपि परभवाद्यसमये औदारिकस्य सर्व शार्ट विधत्ते, इत्येवमोदारिकशाटस्यावान्तरे जघन्यतः समयोनं क्षुल्लकभवग्रहणं प्रामोति, उत्कृष्टपक्षऽपि संयतमनुष्यः कश्चिद् मृतो देवभवाद्यसमये औदारिकस्य सर्वशाट कृत्वा त्रयस्त्रिंशत्सागरोपमाण्यनुत्तरसूरेष्वायुरतिवाह्य पूर्वकोट्यायुष्केषु मनुष्येषूत्पद्य मृतो यदा पुनरपि परभवाद्यसमय औदारिकस्य सर्वशाट करोति, पूर्वकोटिमध्याच समयो देवभवायुष्के क्षिप्यते, तदौदारिकस्य शाटस्यावान्तरे उत्कृ. टतः समयोनपूर्वकोव्यधिकानि त्रयस्त्रिंशत् सागरोपमाणि लभ्यन्ते, ततः कथमिदं नेतव्यम् ? इति। सत्यमुक्तम्, किन्त्विह क्षुल्लकभवग्रहणाघसमये परिशाटो नेष्यते, किन्तु पूर्वभवचरमसमये 'विगच्छद् विगतम्' इति व्यवहारनयमताश्रयणाद् देवभवाद्यसमयेऽपि परिशाटो न क्रियते, किन्तु संयतचरमसमये, अत्रापि व्यवहारनयमताश्रयणात् तत एव जघन्यपदे उत्कृष्टपदे चादी व्यवहारनयमताश्रयणे, पर्यन्ते तु निश्चयनयमताङ्गीकारे सर्वमपि भाष्यकारोक्तमविरोधेन गच्छतीति वृद्धा व्याचक्षते, तत्त्वं तु गम्भीरभाषितानां परमगुरव एव विदन्ति । तदेवमौदारिकसंघात-परिशाटोभयानां कालोऽन्तरं चोक्तम् ॥ ३३३२ ।।
अथ वैक्रियशरीरस्य जघन्यं संघातकाळमाहवेउब्वियसंघाओ समओ सो पुण विउव्वाईए । ओरालियाणमहवा देवाईणाइगहणम्मि ॥३३३३॥
वैक्रियशरीरस्य संघातो जघन्यत एकसमयः, स च 'ओरालियाणं ति' औदारिकशरीरिणामुत्तरवैक्रियकन्धिमतां तिर्यग्मनुष्याणां विकुर्वणमुत्तरवैक्रियकरणं तस्यादिर्विकुर्वणादिस्तस्मिन् विज्ञयः-तिरश्चो मनुष्यस्य बोत्तरवैक्रियं कुर्वत एकस्मिन् प्रथमसमये संघातो भवतीत्यर्थः । अथवा, देवादीनां देव-नारकाणां वैक्रियशरीरग्रहणस्यादावेकस्मिन् समये संघातो भवतीति ॥ ३३३३।। __ अथोत्कृष्ट वैक्रियसंघातकाळमाहउकोसो समयदुगं जो समयं विउविउं मओ बिइए । समए सुरेसु वच्चई निविग्गहओ तयं तस्स ॥३३३४॥ उत्कृष्टसंघातकाल: समयद्वयं भवति । 'तयं तस्स ति' तच्च समयद्वयं तस्य भवति य औदारिकशरीरी समयमेकमुत्तरक्रिय
१ वक्रियसंघातः समयः स पुनर्विकुर्वणादौ । औदारिकाणामथवा देवादीनामादिग्रहण ॥ ३३३३ ॥ २ उत्कृष्टः समयद्विकं यः समयं विकुळ मृतो द्वितीये । समये सुरेषु व्रजति निर्विप्रइतस्तत् तस्य ।। ३३३४ ॥
॥१२७०।
For Personal
Use Only
Page #73
--------------------------------------------------------------------------
________________
विशेषा०
॥१२१९॥
Jain Education inte
कृत्वा मृतो द्वितीयसमये निर्विग्रहेण ऋजुगत्या सुरेषु व्रजति । तत्र च प्रथमसमये वैक्रियस्य संघातं करोति । तस्यैको वैक्रिय संघात - समयोऽत्रत्यः, द्वितीयस्तु देवसंबन्धीति ।। ३३३४ ।।
अथ वैक्रियस्यैव जघन्यमुत्कृष्टं च संघातपरिशाटोभूय काळमाह -
उभयजहन्नं समओ सो पुण दुसमयवि उव्वियमयस्स । परमयराई संघायसमयहीणाई तेत्तीसं ॥ ३३३५ ॥
वैक्रिय संघात परिशाटोभयं जघन्यतः समयो भवति । स च समयद्वयं वैक्रियं कृत्वा मृतस्य द्रष्टव्यः । इदमुक्तं भवति -केनचिदौदारिकशरीरिणोत्तर वैक्रियमारब्धम् । स च तत्र प्रथमसमये संघातम्, द्वितीयसमये तु संघातपरिशाटोभयं कृत्वा यदा म्रियते तदा तस्य संघात परिशाटोभयस्य समयलक्षणो जघन्यकाल : प्राप्यत इति । परमुत्कृष्टमुभयं स्वस्थितिमानं तरीतुं लङ्घयितुमशक्यान्यतराणि सागरोपमाण्येकेन संघातसमयेन हीनानि त्रयस्त्रिंशदनुत्तर सुरेष्वप्रतिष्ठाननरके वा बोद्धव्यानीति । तदेवं वैक्रिय संघातस्यो - भयस्य च काल उक्तः, परिशाटनस्य त्वेकसमयलक्षणः कालः स्वयमेव द्रष्टव्यः ।। ३३३५ ।।
अथ वैक्रियसंघातस्य जघन्यमन्तरकालमाह -
संघायंतरसमओ समय विउव्वियमयरस तइयम्मि । सो दिवि संघाययओ तइए व मयस्स तइयम्मि ||३३३६ ||
वैक्रिय संघातस्य च जघन्यमन्तरं समयो भवति । स चौदारिकशरीरिणः समयमेकमुत्तरवेक्रियं कृत्वा मृतस्य द्वितीयं समयं विहे विषाय तृतीयसमये दिवि देवलोके संघातयतो वैक्रियशरीरसंघातं कुर्वतो विज्ञेयः । अत्र हि प्राक्तनोतर वैक्रिय संघातस्य देववैक्रियसंघातस्य च विग्रहसमयोऽन्तरं भवति । अथवा, तस्यौदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्र हेण च दिवि समुत्पन्नस्य तस्मिन्नेव तृतीयसमये देववैक्रियसंघातं कुर्वत एकः संघात - परिशाटोभयसमयः संघातान्तरं भवतीति । ३३३६ ।।
अथ वैक्रिय संघात - परिशाटोभयस्य शाटस्य च जघन्यमन्तरकालमाह -
उभयस्स चिर विउविजय मयस्स देवेसु विग्गहगयस्स । साडस्संतमुहुत्तं तिन्ह वि तरुकालमुक्कासं ॥ ३३३७॥
१ उभयजघन्यं समयः स पुनर्द्विसमयविकुर्वितमृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् ।। ३३३५ ।।
२ संघातान्तरसमयः समयविकुर्वितमृतस्य तृतीये । स दिवि संघातयतस्तृतीये वा मृतस्य तृतीये ।। ३३३६ ॥ ३ उभयस्य चिरं विकुर्व्य मृतस्य देवेषु विप्रगतस्य । शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुत्कृष्टम् || ३३३७ ॥
For Personal and Private Use Only
| बृहद्वृत्तिः ।
॥१३१९॥
Page #74
--------------------------------------------------------------------------
________________
.
.
विशेषा
॥१२२२॥
उभयस्य वैक्रियस्य संबन्धिनः संघात परिशाटलक्षणस्य 'समय एको जघन्यमन्तरं भवति' इत्यध्याहारः । कस्य जन्तोरिदम
बृहद्वृत्तिः । | वाप्यते ? इत्याह-चिरमन्तर्मुहूर्तमानं कालं विकुर्व्य वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः संघातसमयोऽन्तरे प्राप्य| ते । अयमत्र भावार्थः-य औदारिकशरीरी वैक्रियलब्धिमानुपकल्पितक्रियशरीरः परिपूर्ण तिर्यग्मनुष्यवैक्रियस्थितिकालं यावत् संघात-परिशाटौ विधाय म्रियते, अविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रियसंघातं करोति, द्वितीयादिसमयषु तु संघात-परिशाटी, तत्संबन्धिन उभयस्य चान्तरे स एवोक्तः संघातसमयो भवतीति । ननु यद्येवम्, 'चिर विउन्धिय मयस्स' इत्यत्र चिरग्रहणमपार्थकम्, इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रियसंघात-परिशाटौ कृत्वाविग्रहेण दिवि समुत्पद्यते, तेनैव प्रयोजनम्, किं चिर. शब्दविशेषणेन ? । सत्यम्, किन्तु प्रथमसमये मरणनिषेधार्थमित्यमुक्तम् । यदिवाऽनन्तरं वैक्रियसंघातान्तरं भावयता समयोजनत्वाद् द्वितीयादिसपयेष्वाकस्मिकसमाप्तक्रियस्यापि मरणमुक्तम्, अत्र त्वसमाप्तवैक्रियस्यापि मरणोपदर्शनेन किश्चित् प्रयोजनमिति ख्यापनार्थ चिरग्रहणेन परिपूर्णान्तर्मोहूर्तिकमनुष्यादिवैक्रियस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः । 'साडस्सान्तमुहुत्तं ति' एकदा वैक्रियसर्वशाटं कृत्वा पुनरपि तत्सर्वशाटं कुर्वतोऽन्तर्मुहूर्त जघन्यमन्तरं भवति । कथमिति चेत् । उच्यते - कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कचित् प्रयोजने वैक्रियशरीरं कृत्वा सर्वकार्यपर्यन्ते तस्य सर्वपरिशाट विधाय पुनरौदारिकशरीरमाश्रयति । तत्र चान्तर्मुः ।। हूत स्थित्वा पुनरप्युत्पन्नमयोजनो वैक्रियं करोति, अन्तर्मुहूर्त च तत्र स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य सर्वशाट करोति । एवं च सति वैक्रियशरीरशाटस्य (१) चान्तरे औदारिक-वैक्रियशरीरगतमन्तर्मुहूर्तद्वयं भवति । अनेन चान्तर्मुहूर्तद्वयेनापि बृहत्तरमेकमेवान्तर्मुहूर्त विवक्षितम् । अतो युज्यते जघन्य वैक्रियशाटान्तरमन्तर्मुहूर्तमिति । तदेवं वैक्रियसंघातोभयशाटानां जघन्योऽन्तरकाल उक्तः। अथ त्रयाणामप्येतेषामुत्कृष्टमन्तरकालमाह-'तिण्ह वीत्यादि' इह यदा कश्चिज्जीवो वैक्रियशरीरस्य संघातादित्रयं कृत्वा वनस्पतित्पद्यते, तत्र चानन्तकालमतिबाह्य तत उद्धृतः पुनरपि कचिद् वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति, तदा तत्संबन्धिनः संघात-परिशाटो. मयकक्षणस्य त्रयस्यापि स एवानन्तोत्सर्पिण्यवसर्पिणीरूपो वनस्पतिकालोऽन्तरे भवतीति ।। ३३३७ ।।
अथाहारकशरीरसंघात-परिशाट-तदुभयानां कालोऽन्तरं च वक्तव्यम्, तत्राहआहारोभयकालो दुविहोऽन्तरंतियं जहन्नं ति । अंतोमुहुत्तमुक्कोसमद्धपरियट्टमूणं च ॥ ३३३८ ॥
॥१२७२॥ १ आहारकोभयकालो द्विविधाऽन्तरात्रिकं जघन्यमिति । अन्तर्मुहूर्तमुत्कृष्टमर्धपरावर्त ऊनश्च ॥ ३३३८ ।।
Jan Edmont
For Personal and Price Use Only
Page #75
--------------------------------------------------------------------------
________________
॥१२७३॥
आहारकशरीरसंघातः परिशाटश्च प्रत्येकं सामयिको भवति । स च सुगमत्वाद् गाथायां न लिखितः स्वयमेव तु द्रष्टव्य इति । विशेषा ० संघात परिशाटोभयकालस्तु द्विविधः - उत्कृष्टतो जघन्यतश्च | संघात - परिशाटोभयानां यदन्तरत्रिकमन्तरकालत्रयं जघन्यम्, तदेतत् सर्वमन्तर्मुहूर्त कालमानमवगन्तव्यम्ः केवलं तदेवान्तर्मुहूर्त लघु बृहच्च तारतम्येनावसेयमिति । आहारकशरीरं ह्यन्तर्मुहूर्त कालस्थितिकमेव भवति ; अतस्तत्संबन्धिनः संघात परिशाटोभयस्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तकालभावित्वं सिद्धमेवेति । एकदा कृतं चाहारकशरीरं प्रयोजनसिद्धौ परित्यज्य चतुर्दशपूर्वधरो जघन्यतोऽन्तर्मुहूर्तात् पुनरप्युत्पन्न - प्रयोजनस्तत् करोति, अतस्तद्गतसंघात परिशाभयानां भवति जघन्यमन्तर्मुहूर्त्तमिति । उत्कृष्टं त्वन्तरं त्रयाणामपि संघात परिशाटो भयानां किञ्चिन्न्यूनार्ध पुद्गलपरावर्तरूपं भवति । इदं च यच्चतुर्दशपूर्वधर आहारकशरीरं कृत्वा प्रमादात् प्रतिपतितो वनस्पत्यादिषु यथोक्तकालं स्थित्वा पुनरपि चतुर्दश पूर्वधरत्वमवाप्याहारकशरीरं करोति तस्य द्रष्टव्यमिति ।। ३३३८ ।।
अथ तैजस-कार्मणविषयं संघातादिविचारं चिकीर्षुराह -
Jain Education Inte
'तेया-कम्माणं पुण संताणोऽणाइओ न संघाओ । भव्त्राण होज्ज साडो सेलेसीचरिमसमयम्मि || ३३३९ ॥ उभयमणाइ-निहणं संतं भव्वाण होज केसिंचि । अंतरमणाइभावा अच्चतविओगओ सिं ॥ ३३४० ॥
व्याख्या - तैजस- कार्मणयोः पुनः संघातस्तावद् न भवत्येव, तयोरनादिकालात् संतानेन प्रवृत्तत्वात् संघातस्य तु गृह्यमाणशरीरमथमसमयविषयत्वादिति प्रागप्युक्तम् । सर्वपरिशाटोऽपि तैजस-कार्मणयोरभव्यानां न भवत्येव तस्य त्यज्यमानशरीरविषयत्वात्, तेषां च तत्र्यागासंभवात् । भव्यानां तु केषाञ्चित् शैलेशी चरमसमये भवेत् शाटः । स च सामयिको द्रष्टव्यः । उभयं तु संघात परिशाटलक्षणम्, आदिश्च निधनं चादि-निधने, न विद्येते आदि-निधने यस्य तदनादि निधनमेवाभव्यानां भवति, तत्यागाभावात् । भव्यानां तु केषाञ्चित् सिद्धिगमनसमये सान्तमुभयं भवेत्, तदानीं सर्वथा तत्यागादन्तरं 'सिं ति' एतयोर्न भवत्येव, अभव्यानामनादिनिधनत्वात् तयोः, भव्यानां तु सनिधनत्वेऽप्यत्यन्तवियोगेन त्यागात् पुनस्तग्रहणाभावात् त्यक्तस्य पुनर्ग्रहणे चान्तरकालसंभवादिति । ३३३९ ।। ३३४० ।। संघात परिशाटवक्तव्यता समाप्ता || तदेवमुक्तं सज्जीवप्रयोगकरणम् ॥
१६०
१ तैजस-कार्मणयोः पुनः संतानोऽनादिको न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ।। ३३३९ ।। भयमनादि-निधनं सान्तं भव्यानां भवेत् केषाञ्चिदपि । अन्तरमनादिभावादत्यन्तवियोगतो नैतयोः ॥ ३३४० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
॥१२७३॥
Page #76
--------------------------------------------------------------------------
________________
विशेषा
॥१२१४॥
अथाजीवप्रयोगकरणमभिषित्सुराहअजीवाणं करणं नेयं पड-संख-सगड-थूणाणं । संघायण-पडिसाडणमुभयं तह नोभयं चेव ॥ ३३४१ ॥
अजीवानां करणं ज्ञेयम् । किं तत् ? इत्याह-संघातनं तन्तूनां पटे, परिशाटनमेव केवलं श्लक्षीकरणं शङ्खस्य, उभयं संघात-परिशाटलक्षणं तक्षण-कीलिकादियोगात् शकटस्य, 'नोभयं ति' संघात-परिशाटोभयनिषेधः स्थूणायाः, केवलोलकरणादिभावेन तदभावादिति ।। ३३४१ ॥
एवमन्यदपि यजीवप्रयोगादजीवानां क्रियते तत् सर्वमजीवकरणमिति दर्शयन्नाह - जें जं निज्जीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाई रूव-कम्माई वावि तदजीवकरणं ति ॥ ३३४२ ॥
एवं यद्यदजीवानां वस्त्र काष्ठ-पाषाणादीनां जीवप्रयोगाजीवव्यापारेण कुसुम्भ-मनिष्ठादिभिर्वर्णादि क्रियते, पुत्तलिकादिकं रूपकर्मादि विधीयते, तत् सर्वमजीवकरणमिति । तदेवमुक्तं द्रव्यकरणम् ॥ ३३४२ ॥
अथ क्षेत्रकरणमभिधित्सुराहइह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तम् । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥३३४३॥ होज व पज्जायाओ पन्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लोए सालिकरणाई ॥३३४॥ खेत्ते व जत्थ करणं ति खित्तकरणं तयं जहा सिद्धं । खित्तं पुण्णमिणं पुण्णकरणसंबंधमत्तेणं ॥ ३३४५॥
व्याख्या-इह द्रव्यमेव सद् नभः क्षेत्रं भण्यते । कृत इत्याह-'निवासेत्यादि' मात्रशब्दस्य व्यवहितः प्रयोगः, निवासपर्यायभावमात्रत इत्यर्थः । इदमुक्तं भवति-क्षि निवास-गत्योः' इति 'क्षियन्ति निवसन्ति जीवा अजीवाश्चात्र' इत्यौणादिके प्रत्यये क्षेत्रम्,
१ अजीवानां करणं ज्ञेयं पट-शङ्ख-शकट-स्थूणानाम् । संघातन-परिशाटनमुभयं तथा नोभयं चैव ।। ३३४१ ॥ २ यद् यद् निर्जीवानां क्रियते जीवप्रयोगतस्तत तत् । वर्णादि रूपकर्मादि वापि तदजीवकरणमिति ॥ ३३४२ ॥ ३ इह द्रव्यमेव निवासमाजपर्यायभावत: क्षेत्रम् । भण्यते नभो न तस्य च करणं निवृत्तितोऽभिहितम् ।। ३३४३ ॥ अवेद् वा पर्यायात पर्यायो येन द्रव्यतोऽनन्यः । उपचारमात्रता वा यथा लोके शालिकरणादि ॥ ३३४४ ॥ क्षेत्रे वा यत्र करणमिति क्षेत्रकरणं तदू यथा सिद्धम् । क्षेत्रं पुण्यमिदं पुण्यकरणसंबन्धमात्रेण ।। ३३४५ ॥
॥१२७४॥
Jan E
ine
For Personal and Price Use Only
T
ww.jainabrary.org
Page #77
--------------------------------------------------------------------------
________________
विशेषा०
बृहदत्तिः। ।
॥१२॥
इत्यस्मादन्वाद् द्रव्यमपि नभः क्षेत्रमुच्यते । तस्य च नमसो निर्वृत्तितो निष्पादनेनं करणं नाभिहितम्, अकृत्रिमत्वादस्येति । यदि तस्य करणं नास्ति, तहि करणभेदेषु पाठः किमर्थः ? इत्याशङ्कयाह --'होज्ज वेत्यादि' भवेद् वा क्षेत्रस्यापि करणं 'पज्जायाउ ति घट-पटादिसंयोग-वियोगादिपर्यायानाश्रित्येत्यर्थः । पर्याया हि सर्वेषामपि वस्तूनामनित्या इत्यतस्तेषां करणमपि संभवति । यदि नाम पर्यायाणां करणं संभवति, तर्हि द्रव्यस्य किमायातम् । इत्याह-पर्यायो येन द्रव्यादनन्योऽभिन्नस्तेन पर्यायस्य करणं द्रव्यस्यापि करणं भवत्येवेति । उपचारतो वा क्षेत्रकरणं भण्यते । 'जह लोए सालिकरणाइ त्ति' यथा लोके वक्तारो भवन्ति-'शालिक्षेत्रमिक्षुक्षेत्रं वा मया कृतम्' इत्यादि । अथवा 'क्षेत्रस्य करणम्' इति षष्ठीतत्पुरुषो न क्रियते, किन्तु क्षेत्रे करणं क्षेत्रकरणं सप्तमीतत्पुरुष इति दर्शयन्नाह'खेत्ते वेत्यादि' अथवा, यत्र क्षेत्रे करणं पुण्यादेस्तत् क्षेत्रकरणम् । यथा लोकेऽपि सिद्धमेतत् - 'पुण्यमिदमुजयन्त-शत्रुञ्जयादिक्षेत्रं, पुण्यकरणसंबन्धमात्रेण, तत्र हि ये दाना ऽनशनादिकं कुर्वन्ति, तेषां महत् पुण्यं भवति, इत्यतः पुण्यस्य तत्र करणात् पुण्य क्षेत्र तदिति । उक्तं क्षेत्रकरणम् ॥३३४३॥३३४४॥३३४५॥
अथ कालकरणं वाच्यम् । तत्र काळस्याप्यकृत्रिमत्वात् करणं नास्ति, द्रव्यपर्यायत्वविवक्षया तस्य तद् भवेद् वेति दर्शयतिजे वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ३३४६ ॥
यस्मात् प्रागुक्तस्वरूपो वर्तमानादिरूपः कालो द्रव्यस्यैव पर्यायः, पर्यायश्च द्रव्यादभिन्नः, ततो यथा द्रव्यस्य तथा तस्यापि करणं न विरुद्धम् । कथमित्याह-तेन कालेन, तस्य वा, तस्मिन् वेत्यादिभिः सर्वथा सर्वैरपि प्रकारैरिति ।। ३३४६।। __ अथवा, ज्योतिष्कमार्गप्रसिद्धमेदेह कालकरणं गृह्यत इति दर्शयतिअहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थिरमक्खायं ॥ ३३४७॥
अथवा, बव-बालबादिरूपं चन्द्रा-ऽऽदित्यादिज्योतिषिकदेवगतिविशेषेण यद् भवति तदिह कालकरणं गृह्यते । तत्र च ववादिरूपे कालकरगं सप्तविधं चरम्, अन्यान्यतिथिषु भावात् ; चतुर्विधं तु स्थिरमाख्यातम्, नियतास्वेव तिथिषु भावादिति ॥ ३३४७ ।। तत्र यत् सप्तविधं चरं तदाह
१ यद् वर्तनादिरूपः कालो द्रव्यस्यैव पर्याय: । ततस्तेन तस्य तस्मिन् वा न विरुद्ध सर्वथा करणम् ।। ३३४६ ।। २ अथवेह काळकरण बवादि ज्योतिषिकगतिविशेषण । सप्तविधं तत्र चरं चतुर्विध स्थिरमाख्यातम् ॥ ३३४७॥
॥१२०५॥
For Personal and
Use Only
Page #78
--------------------------------------------------------------------------
________________
विशेषा०
॥१२७६॥
बवं च बालवं चेव कोलवं तीइलो यणं । गरो हि वणियं चेव विट्ठी हवइ सत्तमा ॥ ३३४८॥
अस्य सप्तविधस्यापि चरस्य करणस्यानयनोपायमाहपैक्खतिहओ दुगुणिया दुरूवरहिया य सुक्तपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं ॥ ३३४९॥
कृष्णस्य शुक्लस्य वा प्रस्तुतपक्षस्य यास्तिथयोऽतिक्रान्तास्ता द्विगुणीक्रियन्ते । ततश्चागतराशेः सप्तभिर्भागो हियते । एवं च कृते यत् करणमागच्छति तत् प्रस्तुततिथौ कृष्णपक्षे दैवसिकं विज्ञेयम्, रूपाधिकं तु तदेव रात्रौ यथा कृष्णदशम्यां द्विगुणितायां विं. शतिर्भवति । ततः सप्तभिभीगे हृते षडवशेषा भवन्ति । तथा चेदं षष्ठं वणिजभिधानं दैवसिकं करणं कब्धम्, रूपे तत्र प्रक्षिप्ते रात्रिगतं विष्ट्यभिधानं सप्तमं करणं लभ्यते । एवमन्यत्रापि कृष्णपक्षे द्रष्टव्यम् । शुक्लपक्षे विशेषमाह-'दुरूवरहिया य सुक्तपक्खम्मि त्ति' शुक्लपक्षे द्विगुणिततिथिराशेद्वौं पात्येते, ततो देवसिकं करणमागच्छति, रूपाधिकं तु रात्रिगतं भवति; यथा शुक्लचतुर्थ्यां द्विगुणितायामष्टौ भवन्ति, द्वयोश्च पातितयोः षड् भवन्ति, सप्तभिश्च भागो न पूर्यते, ततस्तदेव दैवसिकं षष्ठं करणं लब्धम्, रूपे तु प्रक्षिप्त सप्तमं विष्थ्यभिधानं रात्रिगतं करणं लभ्यते । एवमन्यत्रापि शुक्लपक्षे भावनीयम् । इह च लोकप्रसिद्धकरणानयनोपायोऽन्योऽपि विद्यते, तद्यथा"तिहि दुगुणी, एकिहिं ऊणी, सत्चहिं हरणं, सेसं करणं" इति । अयमपि युक्तः, केवलमिह मास तिथयो द्विगुणयितव्याः, यच्चेहागच्छति तद् रात्रिकरणम्, रूपे तु पातिते दिवसगतं द्रष्टव्यमिति ॥ ३३४९ ॥ ___ अथ चतुर्विधं स्थिरकरणमाहसउणि चउप्पय नागं किंसुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणं सेसं तियं कमसो ॥३३५०॥
कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं करणं भवति, अमावास्यायां दिवसे चतुष्पदम, रात्रौ नागम्, प्रतिपदि दिवा किंस्तुघ्नम् । शेषरजनी दिनयोर्यथोक्तोपायतश्चरं करणमवसेयमिति ॥ ३३५० ॥
१ ववं च बालवं चैव कौलवस्तैतिलश्च । गरो हि वणिजश्चैव विष्टिर्भवति सप्तमी ।। ३३४८ ॥ २ पक्षतिथयो द्विगुणिता द्विरूपरहिताश्च शुक्लपक्षे । सप्तहृते देवसिकं तदेव रूपाधिकं रात्रौ ॥ ३३४९ ।। ३ तिथिर्द्विगुणा, एकेनोना, सप्तभिर्हरणं, शेष करणम् । ४ शकुनिश्चतुष्पादो नागः किंस्तुनश्च करणं स्थिरं चतुर्धा । बहुलचतुर्दशीरात्री शकुनिः शेष त्रिकं क्रमशः ॥ ३३५० ।।
॥१२७६॥
....४
For Personal and
Use Only
Page #79
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२७॥
Jain Educationa Intern
अथ भावकरणमाह ।
भावरस व भावेण व भावे करणं ति भावकरणं ति । तं जीवाजीवाणं पज्जायविसेसओ बहुहा || ३३५१ ॥ भावस्य पर्यायस्य करणं भावकरणम्, भावेन वा करणम्, भावे वा करणं भावकरणम् । तच्च जीवा-जीवानां पर्यायविशेषतः पयायविशेषानाश्रित्य बहुधा बहुभेदं भवतीति ।। ३३५१ ॥
तत्राल्पवक्तव्यत्वादजीवकरणं तावदाह
अवरप्पओगजं जं अजीवरूवाइपज्जयावत्थं । तमजीवभावकरणं तप्पज्जायप्पणाविक्खं । ३३५२ ॥
परमयोगाज्जातं परप्रयोगजं न परप्रयोगजमपरप्रयोगजं स्वाभाविकमित्यर्थः । यदपरप्रयोगजं तदजीवभावकरणमिति संबन्धः । कथंभूतम् ? इत्याह- 'अजीवरूवाइपज्जयावस्थं ति' अजीवानामचेन्द्रधनुरादीनां रूपादिपर्याया अजीवरूपादिपर्यायास्त एवावस्था स्वरूपं यस्याजीवभावकरणस्य तदजीवरूपादिपर्यायावस्थम् । परमयोगमन्तरेणैव यदभ्राद्यजीवानां स्वाभाविक रूप-रस-गन्ध-स्पर्शसंस्थानादिपर्यायकरणं तदजीवभावकरणमित्यर्थः । तर्हि द्रव्यवित्रसाकरणादस्य को भेदः १ इत्याशङ्कयाह - ' तपज्जायपणाविक्खं ति ' तेषामजीवानां पर्याया रूपादयस्तत्पर्यायास्तेषामर्पणं प्राधान्येन विवक्षणं तत्पर्यायार्पणं, तस्यापेक्षा यत्र तत् तत्पर्यायार्पणापेक्षम् । इदमुक्तं भवति - पूर्वं द्रव्यप्राधान्यविवक्षया द्रव्य विस्रसाकरणामिदमुक्तं भवति, इह तु रूपादिपर्यायप्राधान्यमपेक्ष्यैतदेव भावकरणमभिहितमिति ।। ३३५२ ।
इदं च 'तप्पज्जायपणाविक्खं' इत्यनेन दत्तमप्युत्तरमनवगच्छतः परस्य मतमाशङ्कयाह
को दव्वीस साकरणओ विसेसो इमरस नणु भणियं । इह पज्जायावेक्खा दव्त्रडियनयमयं तं च ॥३३५३॥ गतार्था ।। ३३५३ ।।
१ भावस्य वा भावेन वा भावे करणामिति भावकरणमिति । तज्जीवाजीवानां पर्यायविशेषतो बहुधा ।। ३३५१ ।। २ अपरप्रयोगजं यदजीवरूपादिपर्ययावस्थम् । तदजीवभावकरणं तत्पर्यीयार्पणापेक्षम् ।। ३३५२ ।। १३ को द्रव्यवित साकरणतो विशेषोऽस्य ननु भणितम् । इह पर्यायापेक्षा द्रव्यास्ति कनयमतं तच ।। ३३५३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
11229911
ww.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
विशेषा० ॥१२७८ ।।
Jain Education Inte
अथ जीवभावकरणमाह
ह जीवभावकरणं सुकरणं सुयाभिहाणं च । सुयकरणं दुवियप्पं लोइय लोउत्तरं चैव ॥ ३३५४ ॥ बद्धाबद्धं च पुणो सत्यासत्थोवएसभेयाओ । एक्केकं सद्दनिसीहकरणभेयं मुणेयव्वं ॥ ३३५५ ॥
व्याख्या - जीवस्य भावो जीवभावस्तस्य करणं जीवभावकरणम् । तच्च द्विविधम् श्रुतज्ञानभावकरणं, श्रुताभिधानं च-नोश्रुज्ञानभावकरणं चेत्यर्थः । आह- ननु यथा श्रुतज्ञानं जीवस्य भावस्तथा शेषज्ञानान्यपि विद्यन्ते, ततो मत्यादिज्ञान भावकरणमपि कस्माद् नोक्तम् ? | सत्यम्, किन्तु यथा परायत्तत्वाद् गुरूपदेश दिना श्रुतज्ञानं क्रियते, नैवं शेषज्ञानानि तेषां स्वावरणक्षयोपशम-क्षयाभ्यां स्वत एव जायमानत्वात् । एवं सम्यक्त्वादयोऽपि जीवभावा नैकान्तेन परायत्ताः तेषां नारकादिष्वन्यथा भावादिति । श्रुतज्ञानकरणमपि द्विविधम्-लौकिक लोकोत्तरं च । पुनरप्येकैकं द्विधा - बद्धमबद्धं च । तत्र गद्यपद्यरूपतया रचितं बद्धम् इदं च शास्त्रोपदेशरूपं भवति । यत् पुनरशास्त्रोपदेशरूपं कण्ठादेव श्रूयते, तदबद्धम् । इदं च बद्धमबद्धं चैकैकं द्विधा भवति - शब्दकरणम्, निशीथकरणं चेति ।। ३३५४ ।। ३३५५ ।।
अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाह
उत्ती ओ सद्दकरणं पगासबाढं च सरविसेसो वा । गूढत्थं तु निसीहं रहरससुत्तत्थमहवा जं ॥३३५६ ॥
'उसी ओ सदकरणं ति' उक्तिविशेषः शब्दकरणम्, अथवा, प्रकाशपाठं शब्दकरणम्, यदिवा, उदात्तादिस्वरविशेषः शब्दकरणमुध्यत इति । गूढो गुप्तोऽनवगम्यमानोऽर्थो यस्य तद् गूढार्थं पुनर्निशीथकरणमुच्यते; अथवा, यद् रहस्यसूत्रार्थं तद् निशीथकरणमभिधीयते यथा निशीथाध्ययनम् । रहस्यमप्रकाश्यं सूत्रमर्थश्च यस्य तद् रहस्य सूत्रार्थमिति समासः ।।३३५३ ।।
किं पुनस्तल्लौकिकं लोकोत्तरं चाबद्धश्रुतम् १ इत्याह
१ इह जीवभावकरणं श्रुतकरणं श्रुताभिधानं च । श्रुतकरणं द्विविकल्पं लौकिकं लोकोत्तरं चैव ।। ३३५४ ।। बद्धाबद्धं च पुनः शास्त्राशास्त्रोपदेशभेदात् । एकैकं शब्दनिशीथ करणभेदं ज्ञातव्यम् ।। ३३५५ ।। २ उक्तिस्तु शब्दकरणं प्रकाशगाढं च स्वरविशेषो वा । गूढार्थ तु नैशीथं रहस्यसूत्रार्थमथवा यत् ।। ३३५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १२७८ ॥
Page #81
--------------------------------------------------------------------------
________________
विशेषा०
बृहदत्तिः ।
॥१२७॥
लोए अणिबहाई अड्डिय-पच्चड्डियाई करणाई । पंचादेससयाई मरुदेवाईणि उत्तरिए ॥ ३३५७ ॥
लोकेऽनिबद्धान्युपदेशमात्ररूपाणि, न पुनः शास्त्रनिबद्धानि मल्लानां करणविशेषरूपाण्याडिका-प्रत्यड्डिकादीनि विज्ञेयानि । लोकोत्तरे त्वनिबद्धानि पञ्च शतान्यादेशानां बोद्धव्यानि । 'मरुदेवाईणि त्ति' मरुदेच्यादेश आदौ येषां तानि मरुदेव्यादीनि पश्चादेशशतानि यथाऽत्यन्तस्थावरानादिवनस्पतिकायादुनृत्य मरुदेवी प्रथमजिनमाता सिद्धति ॥ ३३५७ ॥
यदुक्तम् – 'उत्ती भो सद्दकरणं' इत्यादि, तत्र प्रेय परिहारं चाहभावकरणाहिगारे किमिहं सदाइदव्वकरणेणं । भण्णइ तत्थवि भावो विवक्खिओ तविसिट्ठो उ ॥ ३३५८ ॥
नन्विह भावकरणाधिकारे किमप्रस्तुतेन शब्दादिद्रव्यकरणोपन्यासेन ? । आदिशब्दः शब्दगतानेकभेदसंग्राहकः । भव्यतेऽत्रो. त्तरम्-तत्रापि शब्दद्रव्यकरणे भाव एव भावश्रुतमेव विवक्षितम् । कथंभूतो भावः ? तद्विशिष्टः शब्दविशिष्टः । अयमभिप्रायःप्रकाशपाठादिके शब्दकरणेऽपि न केवलशब्द एव विवक्षितः, किन्तु यत् तस्य कारणरूपं कार्यरूपं च भावश्रुतं तदेव शब्दविशिष्टमिह विवक्षितमित्यदोष इति ।। ३३५८ ॥ उक्तं श्रुतकरणम् ॥ ___ अथ नोश्रुतकरणमाह
नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तव-संजमकरणं मूलुत्तरगुणा वा ॥ ३३५९ ॥
नोशन्दस्य सर्वनिषेधवचनात् श्रुतव्यतिरिक्तं यत् तपः-संयमादिरूपस्य जीवभावस्य करणं तद् नोश्रुतभावकरणम् । तच्च द्विविधम् - गुणकरणम्, तथा, 'झुंजणाभिहाणं ति ' युज्यन्त इति योगा मनःप्रभृतयस्तेषां यत् करणं तद् योजनाभिधानं करणमिति । तत्र गुणकरणं तपः संयमयोः करणम् , अथवा, मूलगुणकरणम् , उत्तरगुणकरणं च गुणकरणमुच्यत इति ॥ ३३५९ ।। अथ योगकरणव्याख्यानमाह
१ लोकेऽनिबद्धानि अहिक-प्रत्यहिकानि करणानि । पञ्चादेशशतानि मरुदेवादीनि उत्तरस्मिन् ।। ३३५७ ॥ २ भावकरणाधिकारे किमिह शब्दादिद्रव्यकरणेन । भण्यते तत्रापि भावो विवक्षितस्तद्विशिष्टस्तु ।। ३३५८ ।। ३ नोश्रुतकरण द्विविधं गुणकरणं योजनाभिधानं च । गुणकरणं तपः-संयमकरणं मूलो-त्तरगुणा वा ॥ ३३५९ ।।
॥१३७॥
Jain Education
For Personal and
Use Only
Page #82
--------------------------------------------------------------------------
________________
विशेषा०
11875011
Jain Education Int
-वय-काय करिया पन्नरसविहा उ जुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ||३३६०॥
सत्यादिभेदतश्चतुर्विधं मनः, चतुर्विधं वचनम्, औदारिकामिश्रादिभेदात् सप्तविधः काय इत्येवमेतत्क्रियापि पञ्चदशविधा योजन - करणत्वेनावगन्तव्या । तदेवमवसितं भावकरणम् । तदवसाने चोक्तं नामादिभेदतः पद्विधमपि करणमिति । अथ विनेयः पृच्छतिननूक्तस्वरूपाणां नामादीनां षण्णां करणभेदानां मध्ये सामायिककरणमिदं किं भवेत् ? - कस्मिन् भेदेऽवतरेत् ? इत्यर्थः ॥ ३३३० ||
अत्र गुरुराह -
सेव्वं पि जहाजोगं नेयं भावकरणं विसेसेणं । सुयबद्ध - सद्दकरणं सुयसामाइयं न चारितं ॥ ३३६१ ॥
इदं सामायिककरणं सर्वमपि षड्विधमपि नामादिकरणं ज्ञेयम् - सर्वेष्वपि नामादिभेदेष्ववतरेदित्यर्थः । कथं १ यथायोगं यथासंभवम् । तत्र सम्यक्क- श्रुत- तपः संयमादिगुणानां जीवद्रव्यपर्यायत्वात् पर्यायस्य च द्रव्यानन्यत्वाद् द्रव्यकरणमिदं भवत्येव । एवं नामादिकरणताप्यस्य यथासंभवं भावनीया । भावकरणं त्विदं विशेषतो भवति, सम्यक्त्वादिसामायिकानां जीवभावत्वादिति । आह- ननु भावकरणं पूर्व बहुभेदमुक्तम्, तत् किं सर्वेष्वपि भावकरणभेदेषु सर्वमपि सामायिकमवतरति । नेत्याह- 'सुएत्यादि ' श्रुतकरणं, तथा बद्धश्रुतकरणं, शब्दकरणं च श्रुतसमायिकमेव भवति, तस्यैवैतद्भेदरूपताघटनात् न तु चारित्रसामायिकम् तस्यैतद्रूपासंभवादिति ।। ३३६१ ॥
चारित्रसामायिकं तर्हि कस्मिन् भावकरणभेदेऽवतरति ? इत्याह
गुणकरणं चारितं तव संजमगुणमयं ति काऊणं । संभवओ सुयकरणं सुपसत्थं जुंजणाकरणं ॥ ३३६२ ॥ कयाकयं केण कथं केसु व दव्वेसु कीरई वावि । काहे व कारओ नयओ करणं कइविहं कहं व ? ॥३३६३॥
१ मनो-वचन-कायक्रिया पश्चदशविधा तु योजनाकरणम् । सामायिककरणमिदं किं नामादीनां भवेत् ।। ३३६० ।।
२ सर्वमपि यथायोगं ज्ञेयं भावकरणं विशेषेण । श्रुत-बद्ध-शब्दकरणं श्रुतसामायिकं न चारित्रम् ।। ३३६१ ।।
३ गुणकरणं चारित्रं तपः- संयमगुणमयमिति कृत्वा । संभवतः श्रुतकरणं सुप्रशस्तं योजनाकरणम् ||३३६२ ।। कृताकृतं केन कृतं केषु वा द्रव्येषु क्रियते वापि । कदा वा कारको नयतः करणं कतिविधं कथं वा ? ।। ३३६३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२८०॥
Page #83
--------------------------------------------------------------------------
________________
विशेषा०
॥१२८१॥
Jain Education H
गुणकरणं चारित्रसामायिक गुणकरणलक्षणे नोश्रुतभावकरणे प्रथमभेद एतदवतरतीत्यर्थः तपः-संयमगुणात्मकमिति कृत्वा, संभवतो यथासंभवं श्रुतकरणमप्येतद् भवति । प्रशस्तव । श्रूपायाश्चारित्रभेदभूताया वाक्समितेरत्रावतारादिति । तथा, सुप्रशस्तं योजनाकरणमिति नोश्रुतभावकरण द्वितीय भेदेऽप्येतदव तरतीत्यर्थः सुप्रशस्तमनो वाक्कायरूपत्वाच्चारित्रस्य ।। इति चतुःषष्टिगाथार्थः ।। ३३६२ ।। इह च 'करणे भए य अंते' इत्यादिगाथायाः समनन्तरं 'नामं ठवणा दविए' इत्यादिका बन्यो गाथा नियुक्तौ दृश्यन्ते, ताश्व भाष्यकारेण प्रक्षेपरूपत्वादिना केनापि कारणेन प्रायो न लिखिताः, केवलं तदर्थ एव भाष्यगाथाभिर्लिखितः, तदत्र कारणं स्वधियाभ्यामिति । तदेवं व्याख्यातं 'करणे भए य अंते' इत्यादिगाथायाः करणलक्षणं प्रथमं पदम् । करणं चेह सामायिकस्यैव मस्तुतम्, 'करोमि मदन्त ! सामायिकम्' इति संबन्धात् । अतस्तदेव सामायिककरणमन्युत्पन्नविनेय वर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिर्निरूपयन्नाह - ' कयाकयमित्यादि' । ननु करणक्रियायाः पूर्व सामायिकं किं कृतं क्रियते, अकृतं वा ? उभयथापि वक्ष्यमाणदोषः । अत्रोत्तरमाह - 'कयाकयं ति' नैकान्तेन कृतं क्रियते, नाप्यकृतम्, किन्तु कृताकृतं क्रियत इति । तथा केन कृतमिति वक्तव्यम् । तथा, केषु द्रव्येष्विष्टादिषु क्रियते । कदा वा कारकोऽस्य भवति । 'नयउ त्ति' नैगमादिनयमतेनात्रोत्तरं वक्तव्यम् । तथा करणं कतिभेदमिति वाच्यम् । तथा, कथं केन प्रकारेणेदं सामायिकरणं लभ्यते इति चाभिधानीयम् । इति निर्युक्तिगाथासंक्षेपार्थः ॥ ३३६३ ॥
विस्तरार्थं तु भाष्यकार आह
'किं कयमकयं कीरइ किंचातो भणइ सव्वहा दोसो । कयमिह सम्भावाओ न कीरए चिरकयघडु व्व ॥ ३३६४|| निच्च किरियापसंगो किरिया वेफल्लमपरिणडा वा । अकय-कय- कज्जमाणव्ववएसाभावया निच्चे ॥ ३३६५ ॥ -
व्याख्या - किं कृतं क्रियते सामायिकम्, अकृतं वा १ । किञ्चातः १ - किमनेन प्रश्नेन ? इति गुरुणा प्रोक्ते भणति परः, सर्वथा पक्षद्वयेऽपि दोषः ; तथाहि कृतं तावद् न क्रियते, सद्भावादग्रेऽपि विद्यमानत्वात् चिरकृतघटवदिति । कृतस्य च करणे नित्यं क्रियायाः करणस्य प्रसङ्गः क्रियायाश्च वैफल्यम्, कृतत्वादेवेति । अथ कृतमपि क्रियते, तर्हि करणस्यापरिनिष्ठा, कृतत्वाविशेषादिति । १ किं कृतमकृतं क्रियते किञ्चातो भणति सर्वथा दोषः । कृतमिह सद्भावाद न क्रियते चिरकृतघट इव ।। ३३६४ ।। नित्यक्रिया प्रसङ्गः क्रियावैफल्यमपरिनिष्ठा वा । अकृत-कृत क्रियमाणव्यपदेशा भावता नित्ये ।। ३३६५ ॥
१६१
For Personal and Private Use Only
बृहद्वृत्तिः ।
||२-१
Page #84
--------------------------------------------------------------------------
________________
विशेषा १२॥
अपिच, 'कृतं क्रियते' इत्युच्यमाने वस्तुनः सर्वदैव सत्त्वमभ्युपगतं भवति, यच्च सर्वदा सत् तदाकाशवद् नित्यम्, नित्ये च वस्तुन्यकृतमिदम् , कृतं वा, क्रियमाणं वा इत्यादिव्यपदेशो न भवति, अनित्यत्वप्रसङ्गादिति ॥३३६४॥३३६५॥
अकृतपक्षमङ्गीकृत्याहअकयं पि नेय कीरइ अच्चताभावओ खपुफ्फं व । निच्चकिरियाइदोसा सविसेसयरा व सुत्तम्मि ॥ ३३६६ ॥ स्पष्टा ॥ ३३६६॥
अथ क्रियमाणं क्रियते, तत्राहसदसदुभयदोसाओ सव्वं कीरइन कजमाणं पि । इह सव्वहा न कीरइ सामाइयमओ कओ करणं ?॥३३६७॥
तत् क्रियमाणं वस्तु सदाऽसद् वा परिकल्प्येत ? । यदि सत्, तर्हि कृतपक्षोक्ताः सर्वेऽपि दोषाः प्रसजन्ति । असत्त्वपक्षे त्वक. तपक्षदोषानुषङ्गः । अथ सदसत् क्रियमाणमिष्यते, तदप्ययुक्तम्, उभयपक्षोक्तदोषप्रसङ्गादिति । एवं सर्वथा सर्वप्रकारैः सामायिकं न क्रियते । अतः कस्मात् तस्य करणम् । इति ॥ ३३६७ ॥
अत्रोत्तरमाहनणु सव्वहा न कीरइ पडिसेहम्मि वि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्ध केण सामइयं ? ॥ ३३६८ ॥ अह कयमकयं न कयं न कज्जमाणं कहं तहावि कयं । पडिसेहवयणमेयं तह सामइयं पि को दोसो १॥३३६९॥
व्याख्या-ननु सर्वथा सर्वप्रकारैः सामायिकं न कियत इत्येवं यस्त्वया प्रतिषेधो विधीयते, तत्रापि प्रतिषेधे समानमेवेदम्किमसौ कृतः क्रियते, अकृतः, क्रियमाणो चेत्यायुक्तन्यायेन सोऽपि सर्वथा न क्रियते । अतः प्रतिषेधाभावे केन प्रतिषिद्धं सामायिकम् ।
6600०......21
KXXYY
१ अकृतमपि नैव क्रियतेऽत्यन्ताभावतः खपुष्पमिव । नित्यक्रियादिदोषाः सविशेषतरा वा सूत्र ।। ३३६६ ।। २ सदसदुभयदोषेभ्यः सर्व क्रियते न क्रियमाणमपि । इह सर्वथा न क्रियते सामायिकमत: कुतः करणम् ? ॥ ३३६७ ।। ३ ननु सर्वथा न क्रियते प्रनिषेधेऽपि समान मेवेदम् । प्रतिषधस्याभावे प्रतिषिद्धं केन सामायिकम ।। ३३६८ ।। अथ कृतमकृतं न कृस न क्रियमाणं कथं तथापि कृतम् । प्रतिषेधवचनमेवेदं तथा सामायिकमपि को दोषः ॥ ३३६९ ।।
MPSC
ducationaK H
For Personal and
Use Only
Page #85
--------------------------------------------------------------------------
________________
बृहदन्तिः ।
विशेषा०1
न केनचित् । अतः क्रियत एवैतदिति । अथैवं ब्रूपे प्रतिषेधवचनमेतत् कृतं वा सत्, अकृतं वा सद् न कृतम् , नापि क्रियमाणं कृतम् , तथापि कृतं तावत् केनाप्युच्चारणादिना प्रकारेण । हन्त ! यथा केनापि प्रकारेण त्वयैतत् कृतं तथा सामायिकमपि केनापि प्रकारेण कृतम् , अतस्तत्रापि को दोषस्त्वया दीयते ? इति ॥ ३३६८ ॥ ३३६९ ॥
अथ कृताकृतपक्षं नयमतेनोपदय सिद्धान्तपक्षमुपदर्शयन्नाहअकयमसुद्धनयाणं निच्चत्तणओ नभं व सामइयं । सुद्धाण कयं घड इव कयाकयं समयसब्भावो ॥३३७०॥
द्रव्यार्थिकरूपाणामशुद्धनयानां नैगम-संग्रह-व्यवहाराणामकृतं सामायिकम्, नित्यत्वात्, नभोवदिति । शुद्धानां तु निश्चयनयरूपाणामृजुसूत्रादीनां कृतं तत्, घटवदिति । समयसद्भावस्त्वयम्- नैकान्तेन कृतं सामायिक क्रियते, नाप्यकृतम्, किन्तु कृताकृतं क्रियत इति ।। ३३७०॥
यदि वा, सिद्धान्तस्थित्या विवक्षावशात् कृतादिभिश्चतुर्भिभङ्गैः किश्चिद् वस्तु क्रियते, किश्चित् स्वेतैश्चतुर्भिरपि भङ्गैर्न क्रियत एवेति दर्शयन्नाह
कीरइ कयमकयं वा कयाकयं वेह कजमाणं वा । कजमिह विवक्खाए न कीरए सव्वहा किंचि ॥३३७१॥
इह किञ्चित् कार्य केनापि रूपेण कृतं क्रियते, केनचिद्रूपेणाकृतं क्रियते, केनापि तु रूपेण कृताकृतं क्रियते, केनचित् प्रकारेण क्रियमाणं वा किश्चित् क्रियते; अन्यत्तु किश्चिद् विवक्षया सर्वैरपि कृतादिभिः प्रकारैर्न क्रियत इति ॥ ३३७१ ॥
__ अत्र यथासंख्पमुदाहरणम्
सैवि त्ति कीरइ कओ कुंभो संठाणसत्तिओ अकओ। दोहि वि कयाकओ सो तस्समयं कज्जमाणो त्ति॥३३७२॥ पुवकओ उ घडतया परपज्जाएहिं तदुभएहिं च । कर्जतो य पडतया न कीरए सव्वहा कुंभो ॥३३७३॥
१ अकृतमशुद्धनयानां नित्यस्खता नभ इन सामायिकम् । शुद्धानां कृतं घट इव कृताकृतं समयसद्भावः ।। ३३७० ।। २ क्रियते कृतमकृतं वा कृत कृतं वेह क्रियमाणं वा । कायमिह विवक्षया न क्रियते सर्वथा किञ्चित् ।। ३३७१ ।। ३ रूपीति क्रियते कृतः कुम्भः संस्थानशक्तितोऽकृतः । द्वाभ्यामपि कृताकृतः स तत्समय क्रियमाण इति ॥ ३३७२ ।। पूर्वकृतस्तु घटतया परपर्यायैस्तदुभयश्च । क्रियमाणश्च पटतया न क्रियते सर्वथा कुम्भः ।। ३३७३ ।।
॥१२३॥
For Personal and
Use Only
A
w.jainabrary.org
Page #86
--------------------------------------------------------------------------
________________
16
विशेषा०
॥१४॥
० ०००००००००००००००००००००
व्याख्या-'रूपी' इति कृत्वा पूर्व कृत एव कुम्भस्तद्रूपतया क्रियते, मृत्पिण्डावस्थायामपि रूपादीनां सद्भावादिति । संस्थानजलाहरणशक्तिभ्यां पूर्वमकृतः क्रियते । रूपतया संस्थानशक्तितश्चेति रूपद्वयेनापि विवाक्षितोऽसौ पूर्व कृताकृतः क्रियते । तत्समयमुत्पत्तिसमये क्रियमाणोऽसौ क्रियत इति । पूर्वकृतस्तु पूर्व निष्पन्नो घटो घटतया घटपर्यायेण न क्रियते, परपर्यायैस्तु पटादिधर्मः पूर्वमकृतो घटो न क्रियते, परपर्यायैर्वस्तुनः कर्तुमशक्यत्वात् । तदुभयैस्तु स्व-परपर्यायैर्विवक्षितः कृताकृतोऽसौ न क्रियते, स्वपर्यायाणां पूर्वमेव कृतत्वात् ; परपर्यायाणां तु पूर्वमप्यकृतानां कर्तुमशक्यत्वात्। क्रियमाणश्चोत्पत्तिसमये कुम्भः पटतया न क्रियते, अशक्यत्वात् । तदेवं सर्वथा सर्वैरपि कृतादिप्रकारैः कुम्भो न क्रियते, यथोक्तविवक्षया कृतोऽकृतः कृताकृतः क्रियमाणश्च कुम्भो न क्रियत इत्यर्थः। तदेवं यथाभिहितविवक्षया क्रियमाणत्वमक्रियमाणत्वं च वस्तुनः प्रोक्तम् ॥ ३३७२ ॥ ३.३७३ ॥
अथवा, विवक्षान्तरेण सर्ववस्तूनां क्रियमाणत्वमक्रियमाणत्वं च दर्शयितुमाहवोमाइ निच्चयाओ न कीरइ दव्ययाइ वा सव्वं । कीरइ य कज्जमाणं समए सव्वं सपज्जयओ ॥ ३३७४ ॥
इह व्योमा-ऽऽत्म काल-दिगादिकं वस्तु न क्रियते, नित्यत्वात् । अथवा, व्याप्त्या सर्वमपि व्योमादि घट विद्युद्-वन-कुसुमादि च वस्तु न क्रियते, द्रव्यतया सर्वस्य सर्वदाऽवस्थितत्वात् । पर्यायतया तु प्रतिसमयं सर्व वस्तु क्रियमाणं क्रियते, सर्वस्यापि समये समयेऽपरापरस्वपर्यायाणामुत्पादादिति ।। ३३७४ ।।
समयसद्भाव व्यक्तीकरणपूर्वकं प्रकृतयोजनामाहउप्पाय-ट्ठिई-भंगरसभावओ इय कयाकयं सव्वं । सामाइयं पि एवं उपपायाइस्सहावं ति ॥ ३३७५ ॥
उत्पाद-स्थिति-मस्वभावत्वादित्युक्तप्रकारेण सर्वमपि वस्तु कृताकृतस्वरूपम्, एवं सामायिकमप्युत्पादादिस्वभावत्वात् कृताकृतस्वरूपं द्रष्टव्यम् । अत: 'कृताकृतं क्रियते' इति स्थितम् ॥ ३३७५ ।।
अत्र परः पाह
कककक
१ व्योमादि नित्यतातो न क्रियते द्रव्यतया वा सर्वम् । क्रियते च क्रियमाणं समय सर्व स्वपर्ययतः ।। ३३७४ ।। २ सत्पाद-स्थिति-भङ्गस्वभावत इति कृताकृतं सर्वम् । सामायिकमप्येवमुत्पादादिस्वभावमिति ।। ३३७५ ।।
॥१२४॥
Jain Educationa.Inter
For Personal and Price Use Only
Page #87
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वृत्तिः ।
॥१२॥
नेणु दव्वमणत्थंतरपज्जायंतरविसेसणेहिं जुज्जेज । उप्पायाइसहावं न उ सामाइयं गुणो जम्हा ॥ ३३७६ ॥ सो उप्पण्णो उप्पण्ण एव विगओ य विगय एवेह । किं सेसमस्स जेणिह कयाकयादेसया होज्जा ? ॥३३७७ ॥
ननु द्रव्यमनर्थान्तरभूतपर्यायान्तरविशेषणैरुत्पादादिस्वभावं युज्येत, न तु सामायिकम्, 'गुणो जम्ह त्ति' गुणमात्ररूपत्वादिति ।। स हि गुण उत्पन्नः समुत्पन्न एव, न तु विगतोऽवस्थितो वा; यदा तु विगतस्तदा विगत एव, न तूत्पन्नोऽवस्थितो वा । अतः किं शेषमस्योद्धतम् , येनेह कृताकृतादेशता कृताकृतरूपता स्यात् ? इति ॥ ३३७६ ॥ ३३७७ ॥
मूरिरुत्तरमाहजं चिय दवाणन्नो पज्जाओ तं च तिविहसब्भावं । तो सो वि तिरूवो च्चिय तत्तो य कयाकयसहावो ॥३३७८॥
यस्मादेव पर्यायो द्रव्यानन्यः, तच्च द्रव्यमुत्पाद-व्यय-ध्रौव्यलक्षगत्रिविधस्वभावम्, ततो द्रव्यानन्यत्वात् सोऽपि पर्यायनिरूप एव, अतश्च द्रव्यवत् कृताकृतस्वभावः स्यादेवेति ॥ ३३७८ ॥
अथवा, स्वतन्त्रस्यापि सामायिकगुणस्य त्रिरूपता घटत एवेति । कथम् ? इत्याहजहवा रूवंतरओ विगमुप्पाए वि रूवसामण्णं । निच्चं कयाकयमओ रूवं परपज्जयाओ वा ॥ ३३७९ ॥ तह परिणामंतरओ वय-विभवे वि परिणामसामण्णं । निच्चं कयाकयमओ सामइयं परगुणाओ वा ॥ ३३८० ॥
यथा वा घटादौ रक्तत्वादिरूपाच्छुक्लत्वादिरूपान्तरोत्पत्तौ पूर्वरूपस्य विगमे उत्तररूपस्योत्पादेऽपि रूपसामान्यं नित्यमवतिष्ठते, अतो रूपगुणस्य त्रिरूपता; अस्माच्च त्रैरूप्यात् कृताकृतं रूपं युज्यते । परपर्यायाद् वा परपर्यायमाश्रित्य कृताकृतं युज्यत इति ।
१ ननु द्रव्यमनर्थान्तरपर्यायान्तरविशेषणैयुज्येत । उत्पादादिस्वभावं न तु सामायिकं गुणो यस्मात् ।। ३३७६ ॥
स उत्पन्न उत्पन्न एव विगतश्च विगत एवेह । किं शेषमस्य येनेह कृताकृतादेशता भवेत् ? ।। ३३७७ ।। २ यदेव द्रव्यानन्यः पर्यायस्तच त्रिविधसद्भावम् । ततः सोऽपि त्रिरूप एव ततश्च कृताकृतस्वभावः ॥ ३३७८ ।। ३ यथावा रूपान्तरतो विगमोत्पादयोरपि रूपसामान्यम् । नित्यं कृताकृतमतो रूपं परपर्ययाद् वा ।। ३३७९ ॥ तथा परिणामान्तरतो व्यय-विभवयोरपि परिणामसामान्यम् । नित्यं कृताकृतमतः सामायिकं परगुणाद् वा ।।३३८०॥
॥१८॥
For Personal and
Use Only
Page #88
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वृत्तिः
॥१२८६॥
तथोत्तरोत्तरशुद्ध्या परिणमतः सामायिकगुणस्य परिणामान्तरात् परिणामोत्पत्तौ पूर्वपरिणामस्य व्यये विगमे, उत्तरपरिणामस्य तु विभवेऽप्युत्पादेऽपि परिणामसामान्यं नित्यमवतिष्ठते । ततः सामायिकगुणस्य त्रिरूपता । अस्माच्च त्रैरूप्यात् तस्य कृताकृतत्वम् : परगुणत्वाद् वा परगुणमाश्रित्य कृताकृतत्वमिति ॥३३७९॥३३८०॥
अथवा, अन्यथापि सामायिकस्य कृताकृतत्वं वक्तव्यम्, कथम् ? इत्याहदेव्वाइचउकं वा पडुच्च कयमकयमहव सामइयं । एगपुरिसाइओ कयमकयं नाणानराईहिं ॥ ३३८१ ॥
अथवा, द्रव्यादिचतुष्कं द्रव्य-क्षेत्र-काल-भावचतुष्टयं प्रतीत्य कृतमकृतं च सामायिक भावनीयम् । तथाहि-एक विवक्षितं पुरुषद्रव्यं प्रतीत्य कृतं सामायिकम्, सादिसपर्यवसितत्वात् । नानापुरुषद्रव्याण्याश्रित्य पुनरकृतम्, अनाद्यपर्यवसितत्वादिति । आदिशब्दाद् भरतैरावतक्षेत्राणि प्रतीत्य कृतम्, महाविदेहक्षेत्रेष्वकृतम्, अवच्छिन्नप्रवाहत्वेन नित्यत्वादिति । तथा, उत्सर्पिण्य-ऽवसर्पिणी
कालमाश्रित्य कृतम्, व्यवच्छिद्यमानत्वेनाऽनित्यत्वात् । नोउत्सर्पिण्यवसर्पिणीकालं त्वाश्रित्याकृतम्, अव्यवच्छिन्नत्वेन नित्यत्वात् । 9 भावं त्वेकपुरुषोपयोगं प्रतीत्य कृतम् , नानापुरुषोपयोगानाश्रित्य पुनरकृतम् । इत्येवं वा कृताकृतं सामायिकमिति ।। ३३८१ ॥ तदेवमुक्तं कृताकृतद्वारम् ॥
अथ 'केन कृतम्' इति द्वारं विवरीषुराहकण केयं ति य ववहारओ जिणिदेण गणहरेहिं च । तस्सामिणा उ निच्छयनयस्स तत्तो जओऽणनं ॥३३८२॥ पाठसिद्धा ॥ ३३८२॥ अत्राक्षेप-परिहारौ पाहनेणु निग्गमे कयं चिय केण कयं तं ति का पुणो पुच्छा । भण्णइ, स बज्झकत्ता इतरंगो विसेसेणं ॥३३८३॥
१ द्रव्यादिचतुष्क वा प्रतीत्य कृतमकृतमथवा सामायिकम् । एकपुरुषादितः कृतमकृतं नानानरादिभिः ॥ ३३८१ ।। २ केन कृतमिति च व्यवहारतो जिनेन्द्रेण गणधरैश्च । तत्स्वामिना तु निश्चयनयस्य तता यतोऽनन्यत् ॥ ३३८२ ॥ ३ ननु निर्गमे कृतमेव केन कृतं तदिति का पुनः पृच्छा ? । भण्यते, स बाह्यकर्ता इहान्तरङ्गो विशेषण ॥ ३३८३ ॥
॥१६॥
For Personal and
Use Only
mainsbrary.org
Page #89
--------------------------------------------------------------------------
________________
विशेषा.
॥१२॥
०००
आह-ननु 'उद्देसे निदेसे य निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने 'महावीरात् तन्निर्गतम् ' इत्यादिप्रतिपादनेन 'केन कृतं तत्' इत्येतद् गतमेवोक्तार्थमेव, पुनरपीह का पृच्छा। भण्यतेऽत्रोत्तरम् - स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्तः, इह तु विशेषेणान्तरङ्गकर्ता जिज्ञासितः । स च नैश्चयिकः सामायिकानुष्ठाता साध्वादिष्टव्यः, सामायिकपरिणामानन्यत्वादिति ॥३३८३॥
परिहारान्तरमाहअहवा सततकता तत्थेह पउज्जकारगोऽभिमओ । अहवेह सव्वकारगपरिणामाणन्नरूवो ति ॥ ३३८४ ॥
अथवा, तत्र निर्गमे भगवांस्तीर्थकरः खयंबुद्धत्वात् स्वतन्त्रकर्ताऽभिहितः, इह तस्यैव भगवतस्तीर्थकरस्य यः प्रयोज्यः प्रबोधनीयः सन् कारकः साध्वादिः स कर्ताऽभिमतः । अथवा, इह कर्ता सर्वकारकपरिणामानन्यरूपोऽभिमतः, स च साध्वादिरेव सामायिकानुष्ठाता मन्तव्यः; तथाहिसामायिक कुर्वन्नसौ कर्ता, क्रियमाणत्वेन च कर्मरूपात सामायिकादनन्यत्वात् कर्म, सामायिकं येना. ध्यवसायेन करणभूतेनासौ करोति तस्मादनन्यत्वात् करणम् । गुरुणा चास्मै सामायिक प्रदीयत इति संप्रदानम् , सामायिक चास्मात् शिष्य-प्रशिष्यपरम्परया प्रवर्तिष्यत इत्यपादानम् , खपरिणामे च सामायिकमव्यवच्छिन्नं धरतीत्यधिकरणमित्यवं सर्वकारकपरिणामानन्यरूपः कर्ता भवत्यसाविति । आह-ननु यद्यन्तरङ्गः प्रयोज्यः सर्वकारकपरिणामानन्यरूपश्च कर्ता साध्वादिरिह विवक्षितः, तर्हि 'जिनेन्द्रेण गणधरैश्च कृतं तत्' इति कस्मादुक्तम्, जिनेन्द्र गणधराणामिहाविवक्षितत्वात् । सत्यम्, किन्तु जिनेन्द्रस्यापि सामायिकस्यान्तरङ्गकर्तृत्वं सर्वकारकपरिणामानन्यरूपकर्तृत्वं प्रायो न विरुध्यते, तेनापि तस्यानुष्ठितत्वात्, गणधराणां तु प्रयोज्यकर्तृत्वमपि युज्यत एव, जिनेन्द्रप्रयोज्यत्वात् तेषामिति । अतो जिनेन्द्र-गणधराणामप्युपन्यासोऽत्र न विरुध्यत इति ॥३३८४॥ गतं 'केन कृतम्' इति द्वारम् ॥
अथ 'केषु द्रव्येषु तत् क्रियते' इति द्वारमभिधित्सुराहदेव्वेसु केसु कीरइ सामइयं नेगमो मणुण्णेसु । सयणाइएसु भासइ मणुण्णपरिणामकारणओ ॥ ३३८५ ॥
१ अथवा स्वतन्त्रकर्ता तत्रह प्रयोज्यकारकोऽभिमतः । अथवेह सर्वकारकपरिणामानन्यरूप इति ।। ३३८४ ।। २ द्रव्येषु केषु क्रियत सामायिक नैगमो मनोज्ञेषु । शयनादिकेषु भाषते मनोज्ञपरिणामकारणतः ।। ३३८५ ।।
॥१२॥
Jain Educationa.inta
For Personal and Price Use Only
Page #90
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२८॥
Jain Education is
'नेगंतेण मणुन्न मणुन्नपरिणामकारणं दव्वं । वभिचाराओ, सेसा बिंति तओ सव्वदव्त्रेसु || ३३८६ ॥
व्याख्या - केषु द्रव्येषु व्यवस्थितस्य सामायिकं क्रियते निर्वर्त्यते ? । अत्र नैगमनयो भाषते मनोज्ञेषु शयना ऽऽसनादिषु स्थितस्य तत् क्रियते, मनोज्ञपरिणामकारणत्वात् । तथा च कैश्चिदुक्तम्
"मैणुनं भोयणं भोच्चा मन्नं सयणासणं । मणुन्नम्म अगारम्मि मणुन्नं झायए मुणी ॥ १ ॥ "
इत्यादि । शेषास्तु संग्रहादयो ब्रुवते - नैकान्तेन मनोज्ञं द्रव्यं मनोज्ञपरिणामकारणं भवति, व्यभिचारात्, मनोज्ञेऽपि कस्यापि स्वाभिप्रायेणामनोज्ञपरिणामभावात्, अमनोज्ञेऽपि च कस्यापि मनोज्ञपरिणाम सद्भावात् । ततः सर्वद्रव्येषु व्यवस्थितस्य सामायिकं क्रियते ।। ३३८५ ।। ३३८६ ।।
अत्राक्षेप - परिहारावाद -
न भणिय मुग्धा केसु तीहं कओ पुणो पुच्छा ? । केसु ति तत्थ विसओ इह केसु डिअरस तल्लाभो ||३३८७॥
ननूपोद्घाते 'किं कइविहं' इत्यादिगाथायां 'केषु सामायिकं भवति' इति भणितमेव, इह कुतः पुनरपि पृच्छावसरः ? । नैवम्, तत्र हि केषु द्रव्यपर्यायाः सामायिकस्य विषये भवन्तीत्युक्तम् ; तथा च तत्र निर्वचनम् 'सव्वगयं सम्मत्तं' इत्यादि । इह तु कंषु द्रव्येषु स्थितस्य सामायिकलाभो भवतीत्युच्यत इति महान् भेद इति ।। ३३८७ ॥
यदि न पौनरुक्त्यम् तर्ह्यन्यदूषणम् । किं तत् : इत्याह
तो हि सव्वदव्वावत्थाणं जाइमित्तत्रयणाओ । धम्माइसव्वदव्वाधारो सव्वो जओऽवस्सं || ३३८८ ॥ ततस्तर्हि कथं सर्वद्रव्येष्ववस्थानं संभवति, येनोच्यते--' सेसा विंति तओ सव्वदव्वेसु' इति । न हि सर्वेष्वाकाशादिद्रव्येषु
१ नैकान्तेन मनोशं मनोज्ञपरिणामकारणं द्रव्यम् । व्यभिचारात् शेषा ब्रुवन्ति ततः सर्वद्रव्येषु ||३३८६ ॥
२ मनोज्ञं भोजनं भुक्त्वा मनोज्ञं शयनासनम् । मनोज्ञेऽगारे मनोज्ञं ध्यायति मुनिः ॥ १ ॥
३ ननु भणितमुपोते के ष्वितीह कुतः पुनः पृच्छा ? । केष्विति तत्र विषय इह केषु स्थितस्य तल्लाभः || ३३८७ ॥ ४ ततः कथं सर्वद्रव्यावस्थानं जातिमात्रवचनात् । धर्मादिसर्वद्रव्याधारः सर्वो यतोऽवश्यम् ।। ३३८८ ।।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१२८॥
Page #91
--------------------------------------------------------------------------
________________
विशेषा
॥१८॥
१९९९४..
कोऽप्यवतिष्ठत इति । उच्यते-जातिमात्रवचनात् सर्वद्रव्यमात्रस्येह विवक्षणात् , जातिमात्रं च सर्वद्रव्यैकदेशेऽपि प्राप्यत इति । ननु देशतोऽपि किं सर्वव्याधारः कोऽपि प्राप्यते । उच्यते--प्राप्यत एव, यतो धर्मास्तिकाया-ऽधर्मास्तिकाया-ऽऽकाशास्तिकायजीव-पुद्गलाधारः सर्वोऽप्यवश्यं जीवलोक इति परिहृतं प्रासनिक दूषणम् ॥ ३३८८ ॥
अथ प्रस्तुतर्यस्य परिहारान्तरमाह'विसओ व उवग्याए केसु त्ति इहं स एव हेउ ति । सद्धेय-नेय-किरियानिबंधणं जेण सामइयं ॥ ३३८९ ॥
अथवा, उपोद्धाते सर्वद्रव्याणि सामायिकस्य विषये भवन्तीत्युक्तम् । इह तु स एव सामायिकलाभः सर्वद्रव्येषु हेतुभूतेषु भवतीत्युच्यत इति । कथं पुनः सर्वाण्यपि द्रव्याणि सामायिकस्य हेतुर्भवन्ति ? इत्याह- 'सद्धयेत्यादि' श्रद्धेयानि च ज्ञेयानि च चारित्रक्रियाहेतुभूतानि च यानि द्रव्याणि तानिवन्धनं तहेतुकं येन सामायिकम् । न च श्रद्धयादिभ्योऽन्यानि सर्वव्याणीति, नापि विषयहेत्वोरेकत्वमवगन्तव्यम्, विषयस्य गोचररूपत्वात्, जीवघातनिवृत्तेः सर्वजीववद्धेतोरुपष्टम्भकत्वात्, अन्नादिवदिति ॥३३८९॥
अन्यदपि परिहारान्तरमाहअहवा कयाकयाइसु कजं केण व कयं च कत्तत्ति । केसु त्ति करणभावो तइयत्थे सत्तमि काउं ॥ ३३९.॥
अथवा, कृताकृतादिद्वारेषु प्रथमे कृताकृतद्वारे कळ यत् क्रियते तत् कार्य सामायिकमुक्तम्, 'केन कृतम्' इति च द्वितीयद्वारे सामायिकस्यैव कर्ता निर्दिष्टः, 'केषु' इति तृतीयद्वारे तु तृतीयार्थे सप्तषीं कृत्वा करणमभिहितम्, केद्रव्यैः करणभूते: सामायिक क्रियत इति नोपोद्घातेन सह पौनरुक्त्यमिति ॥ ३३९० ॥ ___ अथ 'कदा कारको भवति' इति नयनिरूपयन्नाह
उद्दिढे च्चिय नेगमनयस्स कत्ताऽणहिजमाणो वि । जं कारणमहेसो तम्मि य कज्जोवयारो त्ति ॥ ३३९१ ॥
१ विषयो वोपोहाते केवितीइ स एव हेतुरिति । श्रद्धेय-ज्ञेय-क्रियानिबन्धनं येन सामायिकम् ।। ३३८९ ।। २अथवा कृताकृतादिपु कार्य केन वा कृतं कर्तेति । केष्विति करणभावस्तृतीयार्थे सप्तमी कृत्वा ।। ३३९०॥ ३ सदिष्ट एवं नैगमनयस्य कर्ताऽनधीवानोऽपि । यत् कारणमुद्देशस्तस्मिंश्व कार्योपचार इति ॥ ३३९१ ।।
॥१८॥
Page #92
--------------------------------------------------------------------------
________________
विशेषा० १eon
इहोदिष्ट एव गुरुणा सामायिके मैगमनयस्यानधीयानोऽपि शिष्यस्तकर्ता भवति । भाह-ननु कार्यस्य कर्ता भवति, कार्य च सामायिकमुदेशस्थले नास्ति, तत् कथं तस्यासौ फर्ता भवति ? इत्याह-'जमित्यादि' यस्मात् सामायिककारणमुदेशः, तस्मिंश्यो देशलक्षणे कारणे कार्यस्य सामायिकस्योपचारः क्रियत इति सामायिकस्य कर्तासौ भवतीति ।। ३३९१ ॥
संग्रह व्यवहारनयमतमाहसंगह-ववहाराणं पच्चासन्नयरकारणत्तणओ । उहिट्ठम्मि तदत्थं गुरुपामूले समासीणो॥ ३३९२ ॥
संग्रह व्यवहारयोरुद्दिष्टे सामायिके सत्पठनार्थ गुरुपादमूळे समासीनः शिष्यः प्रत्यासनतरकारणत्वात् पूर्ववत् तत्र सामायिककार्योपचारतः कर्ता भवतीति ॥ ३३९२ ।।
ऋजुमूत्रमतमाहउज्जुसुयस्स पढंतो तं कुणमाणो वि निरुवओगो वि । आसन्नासाहारणकारण ओ सह-किरियाणं ॥ ३३९३ ॥
ऋजुसूत्रस्यानुपयुक्तोऽपि सामायिकं पठन् , तथा कुर्वस्तदर्थक्रियामनुतिष्ठन् सामायिकस्य कर्ता भवति, सामायिकासन्नतरा. साधारणकारणत्वात तद्विषयशब्द-क्रिययोरिति ॥ ३३९३ ॥
शब्दादिमतमाहसामाइओवउत्तो कत्ता सह-किरियाविउत्तो वि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥ ३३९४ ॥
शब्दादिनयानां सामायिकोपयुक्तः शब्द क्रियावियुक्तोऽपि सामायिककर्ता भवति, पेन यस्माद् मनोझो विशुद्धपरिणाम एव तेषां सामायिकमिति ।। ३३९४ ।।
___ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थसंबन्धनार्थमाह
.
.
.
.
.
.
१प्रह-व्यवहारयोः प्रत्यासम्मतरकारणत्वतः । उद्दिष्टे तदथे गुरुपादमूले समासीनः ॥ ३३९२ ।। २ रजुसूत्रस्य पठस्तत्कुर्वाणोऽपि निरुपयोगोऽपि । आसन्नासाधारणकारणतः शब्द-क्रिययोः ॥ ३३९३ ।। ३ सामायिकोपयुक्तः कर्ता शब्द-क्रियावियुक्त इति । शब्दादीनां मनोज्ञः परिणामो येन सामायिकम् ॥ ३३९४ ।।
॥१३
॥
Page #93
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वत्तिः
॥१२९९॥
कत्ता नयओऽभिहिओ अहवा नयउ त्ति नीइओ नेओ । सामाइयहे उपउज्जकारओ सो नओ य इमो ॥३३९५॥
तदेवं सामायिकस्य कर्ता नयतो नयैरभिहितः । अथवा, 'कदा वा कारकः' इत्यस्माद् नय इति पृथगेव द्वारम् । तत्र चायपी-नयतो नीतितो विधिना सामायिकस्य हेतुः कर्ता सामायिकस्य प्रयोज्यकारको ज्ञेयः । कः पुनरसौ नय इत्याह-स चायम् ॥ इति द्वात्रिंशद्गाथार्थः ।। ३३९५ ।।
अत्रापि 'उप्पणाणुप्पनं कयाकयं इत्य जइ नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यम् । एवमुत्तरत्रापीति॥ अथ तमेव नयमष्टमकारमाहआलोयणा य विणए खित्त दिसाभिग्गहे य काले य । रिक्ख-गुणसंपदा विय अभिवाहारे य अट्ठमए ॥३३९६॥
इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना, विनयश्च बाह्य आसनदानाऽभ्युत्थानादिः, अन्तरजस्तु बहुमानादिः, तथा, क्षेत्रमिक्षक्षेत्रादि, तथा, दिगभिग्रहश्च वक्ष्यमाणलक्षण:, कालच दिवसादिः, तथा, ऋक्षसंपद् नक्षत्रसंपदिति, गुणाः प्रियधर्मवादयः स्तत्संपत प्राप्तिरिति, अभिव्याहरणमभिव्याहारः कालिकादिश्रुतविषय उद्देश समुदेशादिरिति । अयं चाष्टमो नयः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ३३९६ ॥
अथालोचनानय भाष्यकारो विवृण्वन्नाहसामाइयत्थमुवसंपया गिहत्थरस होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥३३९७।। तत्र गृहस्थेआलोढयम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियरस देज नियमा न सेसाणं ॥३३९८॥
१ का नयतोऽभिहितोऽथवा नयत इति नीतितो ज्ञेयः । सामायिकहेतुप्रयोज्यकारकः स नयश्चायम् ॥ ३३९५ ।। २ आलोचना च विनयः क्षेत्र दिगभिप्रहश्व कालश्च । ऋक्ष-गुणसंपद अपि चाभिव्याहारश्चाष्टमकः ॥ ३३९६ ॥ ३ सामायिकार्थमुपसंपद् गृहस्थस्य भवेद् यतेवों । उभयस्य प्रयुक्तालोचितस्य सामायिकं दद्यात् ॥ ३३९७ ।।
आलोचित दीक्षाहस्य गृहिणश्चारित्रसामाविकम् । बालादिदोषराहतस्य दद्याद् नियमाद् न शेषाणाम् ।। ३३९८ ।।
१२८२॥
For Personal and
Use Only
Page #94
--------------------------------------------------------------------------
________________
विशेषा०
॥१२२॥
Jain Educationa h
स्पष्टे, नवरं आलोचिते आलोकिते विज्ञाते यथा द्रव्यतो ज्ञातोऽसौ न नपुंसकादिः, क्षेत्रतस्तु विज्ञातो यथा नायमनार्यः, कालस्त्ववगतो यथा शीतोष्णादिना न क्लाम्यति, भावतस्त्ववबुद्धो यथा नीरोगानलसादिरूपः । ततश्चैवमालोकिते निश्चिते च दी क्षार्हस्य बालादिदोषरहितस्य गृहिणश्चारित्रसामायिकं दद्यादिति ।। ३३९७ ।। ३३९८ ।।
ननु गृहस्थस्य सामायिक सूत्रार्थमुपसंपदित्यवगम्यते, श्रमणस्य तु व्रतग्रहणकाल एवाधीत सामायिकत्वात् कथं तदर्थमुपसंपद् भवेत् ? इत्याह
सामाइयत्थसवणोवसंपया साहुणो हवेजाहि । वाघायमेसकालं च पइ सुयत्थं पि होजाहि ॥ ३३९९ ॥
यदा गुरुः सूत्रमात्रविदेव भवति, सूत्रं चादत्वा परलोकीभूतो भवेत् तदा तच्छिष्यस्य साधोः सामायिकार्थश्रवणनिमित्तमन्यत्रोपसंपद् भवेत् । अथवा, 'सुयत्थं पि होज्जाहि त्ति' व्याघातमेष्यत्कालं वा प्रति तौ प्रतीत्येत्यर्थः सूत्रमात्रार्थमपि साधोरन्यत्रो पसंपद् भवेत् । इदमुक्तं भवति ग्लानभावेन व्यन्तरोपसर्गादिना वा व्याघातेन पतिते विस्मृते सामायिकसूत्रे, एष्यति वा दुःषमाकाले प्रज्ञामान्यादसमाप्त सामायिकसूत्रमात्रा अपि साधवो भविष्यन्तो निगुर्वभावीभवनादिना कारणेन सर्वस्यापि सामायिकसूत्रस्य पठनार्थम्, असमाप्तस्य वा समाप्त्यर्थमन्यत्र साधोरुपसंपद् भवेदिति ॥ ३३९९ ।। तदेवं चारित्रसामायिकमङ्गीकृत्य तदर्थश्रवणार्थं तत्सूत्रमात्र पठनार्थं वा साधोरन्यत्रोपसंपदुक्ता ॥
अथवा श्रुतसामायिकमङ्गीकृत्य समस्तद्वादशाङ्गसूत्रार्थोभयार्थमप्युपसंपद् भवेदिति दर्शयन्नाह -
सव्वं व बारसंग सुयसामइयं ति तदुभयत्थं ति । होज्जालोइयभावस्त देज्ज सुत्तं तदत्थं वा ॥ ३४०० ॥ अथवा, सर्वमपि द्वादशाङ्गं श्रुतसामायिकं भण्यते, अतस्तदुभयार्थं समस्तद्वादशाङ्गसूत्रार्थोभयनिमित्तमप्युपसंपद् भवेत् अत आलोचितभावस्य दत्तविशुद्धालेोचनस्य सूत्रमर्थं वा दद्यादिति ।। ३४०० ॥ उक्तमालोचनाद्वारम् ||
अथ विनयद्वारमभिधित्सुराह -
१ सामायिकार्थश्रवणोपसंपत् साधोर्भवेत् । व्याघातमेष्यत्कालं च प्रति सूत्रार्थमपि भवेत् ।। ३३९९ ।। २ सर्ववा द्वादशाङ्गं श्रुतखामायिकमिति तदुभयार्थमिति । भवेदालोचितभावस्य दद्यात् सूत्रं तदर्थं वा ॥। ३४०० ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२२॥
www.jaineibrary.org
Page #95
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२९३॥
Jain Educationa
आलोय सुरस विदेज विणीयस्स नाविणीयरस । न हि दिज्जइ आहरणं पलियत्तियकन्नहत्थस्स ॥३४०१ ॥
सुगमा || ३४०१ ॥
किमिति विनीतस्यैव दीयते १ इत्याह
अणुरत्तो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । उज्जुत्तो अपरितंतो इच्छियमत्थं लहइ साहू || ३४०२ ॥ सुबोधा, नवरं 'अति' अमोचकः, उद्युक्त उद्यमपरः, अपरिततो- आनेर्विण्ण इति ।। ३४०२ ।
क्षेत्रद्वारमभिधित्सुराह -
"विणयवओ विय कयमंगलस्त तदविग्धपारगमणाए । देज्ज सुकओवओगो खित्ताईसु सुपसत्थेसु || ३४०३ ॥ उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीर साणुणाए पयाहिणजले जिणहरे वा || ३४०४ ॥ दिज्ज न उ भग्ग-भामिय-मसाण सुन्नामणुन्नगेहेसु । छारंगारक्खयारामेज्झाइदव्वदुट्ठे || ३४०५ ॥
तिस्रोऽपि सुगमाः, नवरमिक्षुवणादीनां समीपे दद्यात् सामायिकम्, न तु भग्न भ्रमितगृहादिप्रदेशे | द्राक्षा-चन्दनलताद्याच्छादितप्रदेशो गम्भीरः । यत्र जल्पतां प्रतिशब्द उत्तिष्ठते स प्रदेशः सानुनाद इति || ३४०३ || ३४०४ || ३४०५ ।।
दिगभिग्रहद्वारमाह
व्वाभिमुो उत्तरमुहो व दिज्जाहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाइ जिणचेइयाई वा ॥ ३४०६ ॥
१ आलोचनशुद्धायापि दद्याद् विनीताय नाविनीताय । न हि दीयते आहरणं पलितत्रिककर्णहस्ताय ॥ ३०४१ ॥
२ अनुरक्तो भक्तिगतेोऽमोच्चकोऽनुवर्तको विशेषज्ञः । उद्युक्तोऽपरितान्त इष्टमर्थ लभते साधुः ।। ३४०२ ।।
३ विनयवतेऽपि च कृतमङ्गलाय तदविघ्नपारगमनाय । दद्यात् सुकृतोपयोगः क्षेत्रादिषु सुप्रशस्तेषु || ३४०३ || इक्षुवणे शालिवने पद्मसरसि कुसुमित वा वनखण्डे । गम्भीरे सानुनादे प्रदक्षिणजले जिनगृहे वा ।। ३४०४ ।। दद्याद् न तु भग्न भ्रान्त श्मशान शून्याऽमनोज्ञगेहेषु । क्षाराङ्गारावस्करामेध्यादि द्रव्यदुष्टेषु ।। ३४०५ ।। क. ग. 'ज्झामि ' । ५. ग. 'ध्यामि' । ४ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ।। ३४०६ ॥
For Personal and Private Use Only
बृहतिः ।
॥१२८३ ॥
Page #96
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषा. ॥१२॥
पाठसिदा ॥ ३४०६॥ कालद्वारमाहचाउदासिं पण्णरसिं वजेज अहमि च नवमि च । छहिं च चउाथ बारांस च सेसासु देजाहि ॥ ३४०७॥ सुबोधा ॥ ३४०७॥ ऋक्षद्वारमाहमियसिर अदा पुरसे तिन्नि य पुव्वाई मूलमस्सेसा । हत्थो चित्ता य तहा दस विद्धिकराइं नाणस्स ॥३४०८॥ संझागयं रविगयं विड्डे सेग्गरं वा विलंबं वा । राहुहयं गहभिण्णं च वजए सत्त नक्खत्ते ॥ ३४०९ ॥
मृगशिरम्प्रभृतिषु नक्षत्रेषु दद्यात् सामायिकम्, संध्यागतादीनि तु वर्जयेत् । तत्र संध्यागतं यत्र रविः स्थास्यति । 'यत्र नक्षत्रे मूस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं संध्यागतम्' इत्यन्ये । रविगतं यत्र रविस्तिष्ठति । पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा गन्तव्येऽपरया गच्छतो विडेरम्, सेग्ग्रहं च ग्रहाधिष्ठितम्, विलम्बि यद् भास्वता परिभुज्य मुक्तम्, राहुहतं यत्र ग्रहणमभूदिति । ग्रहभिन्न ग्रहविदारितमिति ॥ ३४०८ ॥ ३४०९ ॥
गुणसंपवारमाह"पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो देतो गुत्तो थिरव्वय जिइंदिओ उज्जू ॥३४१० ॥ असढो तुलासमाणो समिओ तह साहुसंगइरओ य । गुणसंपओववीओ जुग्गो सेसो अजुग्गो य ॥३४१॥
१ चतुर्दशी पञ्चदशी वर्जयदष्टमी च नवमीं च । षष्ठी च चतुर्थी च द्वादशी च शेषेषु दद्यात् ॥ ३४०७ ॥ २ मृगशिर आद्रा पुष्यं त्रीणि च पूर्वाणि मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥ ३४०८॥ संध्यागतं रविगतं विदरं संग्रहं विलम्बि वा । राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥ ३४०९।। प्रियधों हढधर्म: सविनोऽवद्यभीरुरशठश्च । क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजुः ॥ ३४१०॥ मशठस्तुलासमानः समितस्तथा साधुसङ्गतिरतश्च । गुणसंपदुपवीतो योग्यः शेषोऽयोग्यश्च ।। ३४११ ।।
॥१२
PO
Jan EducationainTXSI
For Personal and Price Use Only
Bowww.jaineibrary.org
Page #97
--------------------------------------------------------------------------
________________
विशेषा
मुगमे ॥ ३४१०॥ ३४११॥ अथाष्टममभिव्यवहारनयमाह'नेओऽभिव्वाहारोऽभिव्वाहणमहमरस साहुस्स । इयमुदिस्सामि सुत्तत्थोभयओ कालियसुयम्मि ॥३४१२॥ गुण-दव्व-पज्जवेहिं भूयावायम्मि गुरुसमाइहे । बेउद्दिढमियं मे इच्छामणुसासणं सीसो ॥ ३४१३ ॥
व्याख्या-अभिव्याहरणमभिव्याहारः सामायिकश्रुतोद्देशादिविषयो गुरुशिष्ययोरुक्ति प्रत्युक्तिविशेषो शेयः, तद्यथा-अह| पस्य साधोः कालिकश्रुते इदमङ्गं श्रुतस्कन्धमध्ययनमुद्देशकं वा 'उहिस्सामि' वाचयामि । कथम् ? इत्याह-सूत्रतः, अर्थतः, तदुभयतश्चेति । इह च सूचनात् सूत्रस्य, इयं भावना द्रष्टव्या-'इदमनादिकं पमोदिशत' इति शिष्येणोक्त गुरुर्वदति- 'उदिशामिः । ततः शिष्यो भणति-'संदिशत किं भणामि ? । गुरुराह-वन्दित्वा प्रवेदय' । ततः शिष्यो वदति- भवद्भिर्ममेदमङ्गादिकमुपदिष्टम्' | गुरुराह'उद्दिष्टं क्षमाश्रमणाना हस्तेन सूत्रेण, अर्थेन, तदुभयेन च । ततः शिष्य आह–'हरुछामोऽनुशास्तिम्' । ततश्च गुरुराह-'सम्यग् योगः कर्तव्यः' इति । अत्रेच्छाकार-क्षमाश्रमणदान-प्रतिपात-कायोत्सर्गकरणादिकः शेषो विधिः स्वयमेव द्रष्टव्यः । समुद्देशा ऽनुज्ञयोरप्ययमेव विधिः, नवरं तयोर्यथासंख्यं सम्यग् धारय' 'अन्येषां च प्रवेदय' इति गुरुवचनं द्रष्टव्यमिति। भूतवादो दृष्टिवादः, तत्राप्ययमेवोद्देशादि विधिः, केवलं द्रव्येण, गुणैः, पर्यायश्च 'उद्दिष्टमिदम्' इति गुरुः समादिशति । एवं च गुरुसमादिष्टे शिष्यो वदति-'उद्दिष्टमिदं मे, इच्छाम्यनुशास्तिम्' इत्यादीति । तदेवं व्याख्यातोऽभिव्याहारनयः, तब्याख्याने च व्याख्याता 'आलोयणा य विणए' इत्यादिपतिद्वारगाथा ॥ ३४१२ ॥ ३४१३ ॥
अथ मूलद्वारगाथायां यदुक्तम्-'करणं कतिविधस् । इति, सत्राहकरणं तब्वावारो गुरु-सीसाणं च उव्विहं तं च । उद्देसो वायमिआ तह समुद्देसणमणुन्ना ॥ ३४१४ ॥
१ शेयोऽभिव्याहारोऽभिव्याहरणमहमस्य साधोः । इदमुद्दिशामि सूत्रार्थोभयतः कालिकश्रुते ।। ३४१२।।
गुण-द्रव्य-पर्यायैर्भूतवादे गुरुसमादिष्टे । ब्रवीत्युद्दिष्टमिदं मे इच्छाम्यनुशासनं शिष्यः ।। ३४१३ ।। १ करणं तव्यापारी गुरु-शिष्ययोश्चतुर्विधं तथा । उद्देशो वाचनिका तथा समुदेशनमनुज्ञा ॥ ३४१४ ।।
॥११॥
Jain Educationalod
For Personal and Price Use Only
Aalwww.jaineibrary.org
Page #98
--------------------------------------------------------------------------
________________
विशेषा
हवृत्तिः।
गुरु शिष्ययोस्तद्विषयः सामायिकविषयो व्यापारः करणम् । स च गुरु-शिष्ययोस्तद्यापारश्चतुर्विधः, तच्चातुर्विध्यात् तत्स्वरूपं करणमपि चतुर्विधम् । तद्यथा-वाचयामि' इति गुरुपतिज्ञारूप उद्देशः, ततस्तत्मदत्तैव सूत्रस्य परिपाटीरूपा वाचना, तथा, समुद्देशः, अनुज्ञा चेति ॥ ३४१४॥
अत्राक्षेप-परिहारावाहनण भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगाहियकरणं इदमिह दाणग्गहणकाले ॥३४१५॥
ननु पूर्व नामादिभेदतोऽनेकविध करणमुक्तम्, इह किं पुनरपि भेदकथनगर्भ करणग्रहणम् ? । अत्रोच्यते-तत् प्रागुक्तं पूर्व गृहीतस्य दानग्रहणकालादुत्तीर्णस्य सामायिकस्य सिद्ध करणमुक्तम्, इदं विह गुरु-शिष्ययोर्दान-ग्रहणकाले उद्देशादिविधिना साध्यं करणमुच्यत इति विशेषः ॥ ३४१५॥
विशेषान्तरमाहपुव्वमविसेसियं वा इह गुरु-सीसकिरियाविसेसाओ । करणावसरो वायं णेगंतत्थं तु वच्चासो ॥ ३४१६ ॥
अथवा, पूर्वमविशेषितं करणमुक्तम्, इह तु तदेव गुरु-शिष्योक्तिक्रियाविशेषाद् विशेषितमुच्यते । अथवा, अयमेव गुरु-शिष्योक्ति-प्रत्युक्तिकाले सामायिककरणस्य भणनावसरः । तत्र तर्हि किमित्युक्तम् ? इति चेत् । उच्यते-अनेकान्तार्थ व्यत्यासोऽस्थानभणनम् । न ह्ययं नियमो यदन्यत्र वक्तव्यं तदत्र नोच्यते, विचित्रा च भगवतः सूत्रस्य कृतिरिति ।। ३४१६॥ गतं 'करणं कति. विधम् ?' इति द्वारम् ॥
इदानीं 'कथम् । इति द्वारमभिधित्सुराहलब्भइ कह ति भणिए सुयसामइयं जहा नमोक्कारो । सेसाई तदावरणक्खयओ समओऽहवोभयओ ॥३४१७॥ 'कथं सामायिकं लभ्यते ?' इति भणिते सत्युच्यते-श्रुतसामायिकं तावद् यथा नमस्कारः पूर्वमुक्तस्तथा लभ्यते, नमस्कार
१ ननु भणितमनेकविधं पूर्व करणमिह किं पुनर्ग्रहणम् । तत् पूर्वगृहीतकरणमिदमिह दानग्रहणकाले ॥ ३४१५ ।। २ पूर्वमविशेषितं वेह गुरु-शिष्यक्रियाविशेषात् । करणावसरो वायमनेकान्तार्थ तु व्यत्यासः ।। ३४१६ ॥ ३लभ्यते कथामिति भाणते श्रुतसामायिकं यथा नमस्कारः । शेषामि तदावरणक्षयतः शमतोऽथवोभयतः ॥ ३४१७ ।।
॥१३९६॥
For Personal and Price Use Only
Page #99
--------------------------------------------------------------------------
________________
विशेषा ०
॥१२९७ ॥
Jain Educatora in
स्यापि श्रुतान्तर्गतत्वात् । नमस्कारलाभश्च पूर्वमित्यमुक्तः -
'मैइ सुयनाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहारं सव्व देसोबधाईणि ॥ १ ॥ सव्वैसु सव्वधासु हसु देसोवघाइयाणं च । भाएहिं मुंचमाणो समए समए अणतेहिं ॥ २ ॥
पढमं लहइ नकारं इक्किक्कं वण्णमेवमण्णं पि । कमसो वियुज्झमाणो लहइ समत्तं नमोकारं ॥ ३ ॥'
इह च सम्यग्दृशामेव नमस्कारो भवतीत्येतावन्मात्रेणैव दर्शनमोहनीयस्य क्षयोपशम उक्तः, मुख्यवृत्या तु नमस्कारस्य श्रुतरूपत्वात्, तदावरणक्षयोपशमादेवासौ लभ्यत इत्युक्तं द्रष्टव्यम् । एवं श्रुतसामायिकमपि मति श्रुतक्षयोपशमाल्लभ्यत इति दृश्यम् । शेषाणि सम्यक्त्व देश विरति सर्वविरतिसामायिकानि तदावरणस्य यथासंभवं क्षयतः शमतः - उपशमत इत्यर्थः, अथवोभयतः क्षयोपशमाद् भवन्तीति द्रष्टव्यमिति ।। ३४१७ ।।
अत्राक्षेप परिहारावाद -
नैणु भणियमुवक्कमया खओवसमओ पुणो उवग्धाए । लब्भइ कहूं ति भणियं इह कह का पुणो पुच्छा ? ॥३४१८ ॥
आह - ननु पूर्वमत्रैवोपक्रमतोपक्रमप्रस्तावे 'भवे खओवसमिए दुबाळसंगं पि होई सुयनाणं' तथा ''बीयकसायाणुदए अपच्चक्खाणनामधिज्जाणं' तथा 'तैइयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं, देसिक्कदेसविरई' तथा, बारसविहे कसाए खविए उवसामि व जोएहिं लग्भइ चरिचलंभो' इत्यादिवचनात् तदावरणस्य क्षयोपशमात् क्षयादिभ्यश्च सम्यक्त्वा दिसामायिकानि लभ्यन्त इति भणितम् पुनरपि चोपोद्धाते किं कइविहं' इत्यादिगाथायां ' कथं सामायिकं लभ्यते ?' 'मानुष्यादिभ्यः' इति
"
१६३
१ मति श्रुतज्ञानावरणं दर्शनमोदं च तदुपघातीनि । तत्कानि द्विविधानि सर्व देशोपघातीनि ॥ १ ॥
सर्वेषु सर्वघातिषु तेषु देशेोपघातिकानां च । भागैमुच्यमानः समये समयेऽनन्तैः ॥ २ ॥
प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् || ३ ||
२ ननु भणितमुपक्रमता क्षयोपशमतः पुनरुपद्धाते । लभ्यते कथमिति भणितमिह कथं का पुनः पृच्छा ? ।। ३४१८ ॥
३ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । ४ द्वितीय कषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । ५ तृतीयकपायाणामुये प्रत्याख्यानावरण नामधेयानां देशैकदेशविरतिम् । ६ द्वादशविधे कषाये क्षपिते औपशमिके वा योगेर्लभ्यते चारित्रलाभः ।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१२९७॥
Page #100
--------------------------------------------------------------------------
________________
बृहद्वचिः ।
२
विशेषाभणितम् । ततश्चेह 'कथं सामायिक लभ्यते' इति का पुनः पृच्छा ?-पुनरुक्तत्वाद् नेयमिह युज्यत इति भावः ॥ ३४१८॥
परिहारमाह॥१२॥
भणिए खओवसमओ स एव लब्भइ कहमुवग्घाए । सो चेव खओवसमो इह कोर्स होज कम्माणं ? ॥३४१९॥
'भावे खोवसमिए' इत्यादिनापक्रमे 'क्षयोपशमादिहेतोः सामायिकं लभ्यते' इति भणिते पुनरुपोद्धाते ' स एव क्षयोपशमादिहेतुः कथं लभ्यते ?' 'मानुष्यादिसामग्रीतः' इत्युक्तम् । इह तु ' स एव क्षयोपशमादिः केषां कर्मणां भवेत् ?' इति विचिन्त्यत इति स्थानत्रयभणनस्यापि विषयविभाग इति ॥ ३४१९ ॥ तदेवं व्याख्यातं कृताकृतादिद्वारैः करणम् ॥ ३४१९ ॥
अथ 'करोमि भदन्त ! सामायिकम्' इत्यत्र विनेयपृच्छामाशङ्कयोत्तरमाहको कारओ करितो किं कम्मं जंतु कीरई तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते ? ॥३४२०॥
कोऽत्र तावत् कारकः ? इति कथ्यताम् । सूरिराह-वतन्त्रत्वात् कुर्वन् समायिकस्य कर्ता । कर्म तर्हि किमत्र ? इत्याह-यत् तेन क्रियते । तुशब्दात् किं करणम् ? । उच्यते-मन:प्रभृति । एवमुक्ते सत्याह - ते तव सूर ! किं कारकः करणं च, चशब्दात् कम चेत्येतत्त्रयं परस्परमन्यद् भिन्नम्, अनन्यद् वाभिन्नं भवति ? इति ॥ ३४२० ।।
एतदेव विवृण्वन्नाह - को कारउ त्ति भणिए होइ करतो त्ति भण्णए गुरुणा। किं कम्मं ति य भणिए भण्णइ जं कीरए तेणं ॥३४२१॥ गतार्था ॥ ३४२१॥ अत्र 'का कारकः?' इत्यादित एवं प्रश्नमक्षममाणः परस्तावदाहकेणं कयं ति य कत्ता नणु भणियं तत्थ का पुणो पुच्छा ?। तविवरणं चिय इमं केणं ति व होज मा करणं ॥३४२२॥
१ भणिते क्षयोपशमतः स एव लभ्यते कथमुपोद्धाते । स एव क्षयोपशम इह केषां भवेत् कर्मणाम् ? ॥३४१९।। २ कः कारक: कुर्वन् किं कर्म यत्तु क्रियते तेन । किं कारकश्च करणं च भवत्यन्यदनन्यत् ते १ ॥३४२०॥ ३ कः कारक इति भणिते भवति कुर्वनिति भण्यते गुरुणा । किं कर्मेति च भाणिते भण्यते यत् क्रियते तेन ॥३४२१॥ ४ केन कृतमिति च कर्ता ननु भणितं तत्र का पुनः पृच्छा । तद्विवरणमेवेदं केनेति वा भूद् मा करणम् ॥ ३४२२ ।।
| ॥१२॥
Jun Educational
For Personal and Price Use Only
Page #101
--------------------------------------------------------------------------
________________
आह-ननु 'कयाकर्य' इत्यादिगाथार्या 'केन कृतम्' इति द्वितीयद्वारे 'का' इति भणितमेव, तत्र का पुनरपीह कर्तः विशेषा०18 प्रच्छा ? । सत्यम्, 'केन कृतम्' इत्यत्र कर्तरि करणे च तृतीया संभवति, अतस्तद्विवरणमेवेदम्-'केन' इत्यत्र कर्तरि ततीया, मा1881
१e
भूत् करणमिति ॥ ३४२२॥
अथवा, तेष्वेव कृताकृतादिद्वारेषु सामायिकस्य कर्तारं कर्म करणभावं च श्रुत्वा कुलाल-घट दण्डानामिव प्रस्तुते कर्ल कर्म-करणानां प्रविभागमपश्यन् पृच्छति-कः कारक: सामायिकस्य ? इत्यत्रोत्तरं कुर्वन्नयमस्य कारकः, किं पुनः कर्म ? इत्यत्रोत्तरम-यत तेन का क्रियते; तुशब्दाद् मनःप्रभृति करणं च द्रष्टव्यम् । एतदेवाह
अहवा कयाकयाइसु कत्तारं कम्म करणभावं च । सामाइयस्स सोउं कुलाल-घड-दण्डगाणं व ॥ ३४२३ ॥ पविभागमपेच्छंतो पुच्छइ को कारओ करेंतोऽयं । किं कम्मं जं कीरइ तो तेण सहेण करणं च ॥ ३४५४ ॥ द्वे अपि गतार्थे ।। ३४२३ ।। ३४२४ ॥ अत्राक्षेपमाहकिं कारओ य करणं च होइ कम्मं च ते चसदाओ। अन्नमणन्नं, भण्णइ किंचाह न सव्वहा जुत्तं ॥३४२५॥
कारक करणं चशब्दात् कर्म च ते तव सूरे ! परस्परं किमन्यद् भिन्नम्, अनन्यदभिन्नमिति ? । भण्यतेऽनोत्तरम- किंचातःकिमनेन तब पृष्टेन ? इति । अत्राह पर:-अन्यत्वमनन्यत्वं वेति द्वयोरेकमपि सर्वथा न युक्तमिति ॥ ३४२५॥
अत्रान्यत्वे तावद् दूषणमाहअन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मा-मिच्छाऽविससोऽयं ॥ ३४२६॥
१ अथवा कृताकृतादिषु कतारं कर्म करणभावं च । सामायिकस्य श्रुत्वा कुलाळ-घट-दण्डकानामिव ।। ३४२३ ॥
प्रविभागमपश्यन् पृच्छति कः कारक: कुर्वन्नयम् । किं कर्म यत् क्रियते ततस्तेन शब्देन करणं च ।। ३४२४ ॥ २कि कारकश्च करणं च भवति कर्म च ते चशब्दात् । अन्यदनन्यत्, भण्यते किचाहन सर्वथा युक्तम् ॥ ३४२५ ।। ३अन्यत्वे समभावाभावात् तत्त्रयोजनाभावः । प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यग-मिथ्याऽविशेषोऽयम् ॥ ३४२६ ।।
॥१२॥
Jan Education
.
ww.jainmibrary.org
Page #102
--------------------------------------------------------------------------
________________
विशेषा ०
॥१३००॥
Jain Education in
कर्मभूतस्य सामायिकस्य कर्तुर्जीवादन्यत्वे मिथ्यादृष्टेरिव 'से' तस्य कर्तृजीवस्य सामायिकजन्यसमभावाभाव एव स्यात्, अन्यत्वाविशेषात् । ततश्च तत्प्रयोजनभूतस्य मोक्षसुखस्याभाव एव प्राप्नोति । अपरं च अयं कृतसामायिकः सम्यग्दृष्टिः, अयं तु मिथ्यादृष्टिः, इत्ययमविशेष एव स्यात्, उभयोरपि सामायिकस्यान्यत्वाविशेषादिति ।। ३४२६ ।।
पर एवाचार्यमाशङ्कते -
हवा मई भिन्ने विघणेण सघणो त्ति होई ववएसो । सघणो य घणाभागी जह तह सामाइयस्सामी ॥ ३४२७॥ अथवा, अत्र सूरे! तवेयं मतिः स्यात् भिन्नेनापि धनेन 'सधनः' इति व्यपदेशो लोके भवति, अपरं चासौ सघनो धनाभागी धनफलभोक्ता यथा दृश्यते तथा भिन्नस्यापि सामायिकस्य स्वामी सामायिकवांस्तत्फलभोक्ता भविष्यति, न्यायस्य समानत्वादिति ॥ ३४२७ ॥
तदेतत् परः परिहरति-
"तं न जओ जीवगुणो सामाइयं तेण विफलया तस्स । अन्नत्तणओ जुत्ता परसामाइयस्स वाऽफलया || ३४२८ ॥
तदेतत् सूरे | स्वदुक्तं न यतो जीवगुणः सामायिकम् तेन जीवगुणस्य सामायिकस्य गुणिनो जीवादन्यत्वे विफलता निष्फ लता युक्ता, धनं तु धनिनो गुणो न भवति, तेन तस्य भिन्नस्यापि सफलताऽस्त्विति भावः, यथा परसामायिकस्य विवक्षितजीवमपेक्ष्यान्यत्वादफलतेति ॥ ३४२८ ।।
अपि च,
जैइ भिन्नं भावे वितओ तस्सभावरहिउ ति । अन्नाणी च्चिय निच्चं अंधो व समं पईवेण ॥ ३४२९ ॥ यदि कर्तुर्जीवादभिन्नं सामायिकम्, तदा तद्भावेऽपि भिन्नसम्यक्त्वादिसामायिकप्रस्तावेऽपि तकोऽसौ कर्तृजीवस्तत्स्वभावरहितः सम्यक्त्वादिसामायिकस्वभावरहित इति कृत्वाऽज्ञान्येव स्यात् यथा भिन्नेन प्रदीपेन समं वर्तमानोऽपि स्वस्वभावभूतचक्षु
१ अथवा मतिभिन्नेनापि धनेन सधन इति भवति व्यपदेशः । सधनश्च धनाभागी यथा तथा सामायिकस्वामी ।। ३४२७ ॥ २ तद् न यतो जीवगुणः सामायिकं तेन विफलता तस्य । अन्यत्वतो युक्ता परसामायिकस्येवाफलता ।। ३४२८ ।। १३ यदि भिन्नं तद्भावेऽपि सकस्तत्स्वभावरहित इति । अज्ञान्येव नित्यमन्ध इव समं प्रदीपेन ॥ ३४२९ ।।
For Personal and Private Use Only
बृहद्वृतिः ।
॥१३००॥
Page #103
--------------------------------------------------------------------------
________________
विशेषा.
बृहदत्तिः ।
॥१३०१॥
विकलोऽन्ध इति ॥ ३४२९ ॥
अथानन्यत्वपक्षं दूषयमाहएकत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदिक्कया कप्पणा वावि ॥ ३४३० ॥
सामायिक-तद्वतोरेकत्वेऽनन्यत्वे तन्नाशे सामायिकनाशे सामायिकवतो जीवस्यापि नाशः पामोति, घटस्वरूपनाशे घटस्येव, संभवे बोत्पत्तौ वा सामायिकस्य, जीवस्यापि भवनमुत्पत्तिमत्त्वं स्यात् । न च तस्य तदिष्यते, नित्यत्वात् । तथा, कर्तृ कर्म-करणकारकाणां संकरदोषः, तदेकता वा स्यात्, कल्पनामात्ररूपता वा कारकाणां भवेदिति ।। ३४३० ।।
अत्राचार्य उत्तरमाहआया हु कारओ मे सामाइयकम्म करणमाया य । तम्हा आया सामाइयं च परिणामओ इकं ॥ ३४३१ ॥
आत्मैव तावत् सामायिकस्य कारकः कर्ता मे मम, सामायिकमेव क्रियमाणत्वात् कर्म सामायिककर्म तदप्यात्मैव, न पुनस्तद्वयतिरिक्तमन्यत् किश्चिदिति, चशब्दाद् मनःप्रभृतिकं करणमप्यात्मैव । तस्मादात्मा सामायिकं चशब्दात् करणं चेति त्रितयमप्येतदेकमेव । कथम् । परिणामतः-आत्मपरिणामरूपत्वात् । न हि सामाथिकं मनाप्रभृति करणं चात्मपरिणामरूपत्वमतिक्रम्य वर्तते । अतस्त्रितयमपि परिणामरूपतयैकमेवेदमिति ॥ ३४३१ ।।
एतदेव व्याचिख्यासुराहजै नाणाइसभावं सामाइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणन्नया जं च ॥ ३४३२ ॥
यस्मात् सामायिक सामान्येन ज्ञान-दर्शन-चारित्रस्वभावम्, करणमपि मनःप्रभृतिकं योगमाह परमगुरुः, उभयं चैतदात्मनः खपरिणामः, परिणाम तद्वतोश्च यस्मादनन्यरूपतैवेति ॥ ३४३२ ।। ततः किम् ? इत्याह
१ एकत्वे तमाशे नाशो जीवस्य संभवे भवनम् । कारकसंकरदोषस्तदेकता कल्पना वापि ॥ ३४३०॥ २ आत्मा खलु कारको मे सामायिककर्म करणमात्मा च । तस्मादात्मा सामायिकं च परिणामत एकम् ॥ ३४३१ ॥ ३ यज्ज्ञानादिखभावं सामायिकं योगमाह करणं च । उभयं च स्वपरिणामः परिणामानन्यता यच्च ।। ३४३२ ।।
4॥१३०१॥
JainEducational
For Personal and
Use Only
www.jaineesbrary.org
Page #104
--------------------------------------------------------------------------
________________
विशेषा
॥१३०२॥
'तेणाया सामइयं करणं चसहओ न भिन्नाई। नणु भणियमणण्णत्ते तन्नासे जीवनासो त्ति ॥ ३४३३ ॥
तेन तस्मादात्मा सामायिकं, चशब्दात् करणं च मनःप्रभृति, न परस्परमेतानि भिन्नानि । आह-नन्वेवमनन्यत्वे 'तन्नाशे जीवनाश:' इत्यादिकं दूषणं भणितमेवेति ॥ ३४३३ ।।
अत्र सूरिराहजइ तप्पजयनासो को दोसो होइ सव्वहा नस्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ ॥ ३४३४॥
स चासौ सामायिकादिरूपः पर्यायश्च तत्पर्यायस्तत्पर्यायेण तत्पर्यायरूपेण नाशो जीवस्य तत्पर्यायनाशो यदि भवति, तदा भवतु नाम, को दोषः। यस्तु पर्यायविनाशे जीवस्य सर्वथा नाशः स नास्ति नेष्यते, यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्माऽनन्तपर्यायः । ततश्चैकस्य सामायिकादिपर्यायस्य नाशेऽपि कथं तस्य सर्वथा नाशा, शेषानन्तपर्यायैर्विशिष्टस्य तस्य सर्वदाऽवस्थानात् ? इति ॥ ३४३४ ॥
न केवलमात्मा, किन्तु सर्वमपि वस्तु जैनानामुत्पाद-व्यय-नित्यतास्वरूपमेवेति दर्शयन्नाह - सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य मुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥ ३४३५॥ प्रागसकृद् भाविताथैवेति ॥ ३४३५॥ यदप्युक्तम् - कारकैकत्वम्-कारकैकता पामोति' अत्राप्याहएक चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥ ३४३६ ॥ एकमेव हि वस्तु परिणामवशेन कारकान्तरता पामोति; तथाहि-एक एव देवदत्तः कटादिकर्तृत्वेन परिणतः कर्ता, स एव
१ तेनात्मा सामायिकं करणं चशब्दतो न भिन्नानि । ननु भणितमनन्यत्वे तन्नाशे जीवनाश इति ।। ३४३३ ।। २ यदि तत्पर्ययनाशः को दोषो भवति सर्वथा नास्ति । यत् स उपाय-व्यय-ध्रुवधर्मानन्तपर्यायः ॥ ३४३४ ॥ ३ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावः ।। ३४३५ ।। ४ एकमेव च वस्तु परिणामवशेन कारकान्तरताम् । प्राप्नोति तेनादोषो विवक्षया कारकं यश्च ।। ३४३६ ।।
॥१३०२॥
Jan Educational
For Personal and Price Use Only
XAl
Page #105
--------------------------------------------------------------------------
________________
विशेषा
ઘરે રૂમ
यज्ञदत्तादिप्रयोजककरणतया परिणतत्वात् करणम्, दिलणां दृश्यमानतया परिणतत्वात् कर्म, ताम्बूलादिदानग्रहणतया परिणतत्वात् संप्रदानम्, स एव निष्पन्नकटस्य मोचनेन परिणतत्वादपादानम्, कटक्रियाधारत्वेन च परिणतत्वादधिकरणमिति । एवमन्यत्रापि भावनीयम् । तेन कारकसंकरादिको न दोषः, विवक्षातश्च यस्मात् कारकाणि भवन्ति, तस्मात् कल्पनायामप्यदोष एवेति ॥ ३४३६ ॥
तथाहिकुंभो विसिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥ ३४३७ ॥ जह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगो वि तिसहावो सामाइयकारओ एवं ॥ ३४३८ ॥
व्याख्या-कुम्भो विशीर्यमाणो विशरणक्रियायाः कर्तृत्वेन विवक्षितः कर्ता भवति । स एव च विशरणक्रियाव्याप्यत्वेन विवक्ष्यमाणः कर्म संपद्यते, 'तेन घटपर्यायेण कृत्वा विशीर्यते' इति करणत्वेन विवक्ष्यमाणः स एव करणं संज्ञायते । एवं यथैकोऽपि पदार्थो विवक्षया नानाकारकभावं लभते, यथा वा मत्यादिज्ञानादनन्योऽभिन्नो ज्ञानी जीवो निजकात्मविषयः स्वसंवेदनरूपो य उपयोगस्तत्काल एकोऽपि त्रिस्वभावो भवति; तथाहि-स्वोपयोग उपयुज्यमानोऽसौ कर्ता भवति, संवेद्यमानत्वेन तु कर्म, करणभूतज्ञानानन्यत्वाच्च करणमिति । एवं सामायिककारक एकोऽपि विवक्षया कर्तृ कर्म-करणस्वभावो द्रष्टव्य इति ॥ ३४३७ ॥ ३४३८ ॥ तदेवं करणं व्याख्यातम्, तद्वयाख्याने च 'करोमि' इति सामायिकस्य प्रथमावयवो व्याख्यातः ॥
अथ 'भदन्त !' इति द्वितीयावयवं व्याचिख्यासुराहभेदि कल्लाण-सुहत्थो धाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो हो य कल्लं किलारुग्गं ॥ ३४३९ ॥ तं तच्चं निव्वाणं कारण कजोवयारओ वावि । तस्साहणमणसद्दो सहत्थो अहव गच्चत्थो ॥ ३४४०॥
१ कुम्भो विशीर्यमाणः कर्ता कर्म स एव करणं च । नानाकारकभावं लभते यथैको विवक्षया ।। ३४३७ ॥
यथा वा ज्ञानानन्यो ज्ञानी निजकोपयोगकाले । एकोऽपि त्रिस्वभावः सामायिककारक एवम् ॥ ३४३८ ॥ २ भदि कल्याण-सुखार्थों धातुस्तस्य च भदन्तशब्दोऽयम् । स भदन्तः कल्याणः सुखश्च कल्यं किलारोग्यम् ॥ ३४३९॥ तत् तथ्य निर्वाणं कारणे कार्योपचारतो वापि । तत्साधनमणशब्दः शब्दार्थोऽथवा गत्यर्थः ॥ ३४४०॥
॥१३०३॥
10.
For Personal and
Use Only
KAww.janabrary.org
Page #106
--------------------------------------------------------------------------
________________
विशेषा०
॥१३०४॥
Jain Education h
कैल्लमणइ त्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणात्रेइ व जं तो कल्लाणो स चायरिओ ||३४४१॥ ६२३ बृहद्वृत्तिः । व्याख्या -' भदि कल्याणे सुखे च' इति भदिधातुः कल्याणार्थ ः सुखार्थश्च । तस्य मदिधातोर्भदन्त इत्यौणादिकमत्यये भदन्तशब्दोऽयं निष्पद्यते । ततः स्थितमिदं स भदन्तः कल्याणः सुखश्च । तत्र कल्याणशब्दव्युत्पादनार्थमाह-'कल्लं किलारुगं' उच्यत इति । तच्चारोग्यं तथ्यं निरुपचरितं निर्वाणमेवावगन्तव्यम् अथवा, कारणे कार्योपचारात् तत्साधनं दर्शन-ज्ञान चारित्रलक्षणं निर्वाणकारणमवसेयम् । अणशब्दस्तु अणधातोरुभयार्थत्वात् शब्दार्थो गत्यर्थो वा द्रष्टव्य इति । ततश्च कल्यं यथोक्तमारोग्यमणति गच्छत्यन्तर्भूतण्यर्थत्वेनापरान् गमयति, बुध्यते स्वयं, बोधयति वा परान् । शब्दार्थत्वेऽपि कल्यमणति स्वयं भणति, परैश्च भाणयति यस्मात् तस्मात् कल्याणः । स चेहाचार्यो गुरुबद्धव्य इति ।। ३४३९ ।। ३४४० ।। ३४४१ ।।
अथवा, कलधातुः शब्दार्थः संख्यानार्थो वा 'कल शब्द संख्यानयो:' इति धातुपाठात् तस्य 'कल्यम्' इति निपात्यते । ततश्च कल्यं शब्दं शब्दशास्त्रं संख्यानं वा गणितं यस्पादणति शब्दयति प्रतिपादयते बुध्यते बोधयति वा, तेन तस्मात् कल्याणो गुरुरित्येतदेवाह -
अहवा कल सद्दत्थो संखाणत्थो य तस्स कल्लं ति । सदं संखाणं वा जमणइ तेणं च कल्लाणो ॥ ३४४२ ॥ तार्था ।। ३४४२
सुखस्तर्हि कथमाचार्यः १ इत्याह-
पसंत्थाखाणिदियाणि सुद्धिंदिओ सुहोऽभिमओ । वस्सिंदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥ ३४४३ ॥ सुहमहवा निव्वाणं तच्चं सेसमुवयारओऽभिमयं । तस्साहणं गुरु त्तिय सुहमने पाणसण्ण व्व ॥ ३४४४ ॥
१ कल्यमणतीति गच्छति गमयति वा बुध्यते वा बोधयति वेति । भणति भाणयति वा यत् ततः कल्याणः स आचार्यः ॥ ३४४१ ॥ २ अथवा कल शब्दार्थः सख्यानार्थश्च तस्य कल्यमिति । शब्द संख्यानं वा यदणति तेन च कल्याण: ।। ३४४२ ॥
३ सुप्रशंसार्थः खानीन्द्रियाणि शुद्धेन्द्रियः सुखोऽभिमतः । वश्येन्द्रियो यदुक्तम सुखोऽजितेन्द्रियोऽभिमतः ।। ३४४३ ।। सुखमथवा निर्वाणं तथ्यं शेषमुपचारतोऽभिमतम् । तत्साधनं गुरुरिति च सुखमन्ने प्राणसंज्ञेव || ३४४४ ॥
For Personal and Private Use Only
॥१३०४॥
Page #107
--------------------------------------------------------------------------
________________
विशेषा ०
१३०५
Jain Educatora Interna
सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि शोभनानि खानि यस्यासौ सुखः शुद्धेन्द्रियोऽभिमतः । किमुक्तं भवति १ - वश्येन्द्रियो निर्विकारेन्द्रिय इति यदुक्तं भवतिः अजितेन्द्रियस्त्वसुखोऽभिमत इति । अथवा, सुखयतीति सुखं तथ्यं निरुपचरितं निर्वाणमुच्यते, शेषं तु सांसारिकमुपचारतः सुखमभिमतम् । ततोऽस्य द्विविधस्यापि सुखस्य साधनं कारणं गुरुरित्यसौ सुखम्, कारणे कार्यो वचारात्, अन्ने भक्तं प्राणसंज्ञावदिति, 'अन्नं प्राणाः' 'दृष्टिस्तन्दुला:' इत्यादिवद् यथोक्तोभयरूपसुखहेतुत्वात् सुखो गुरुरित्यर्थः ॥ ३४४३ ।। ३४४४ ।।
अथवा, अन्यथा सुखशब्दार्थमाह
जं च सियं खेहितोऽणुग्गहरूवं तओ सुहं तं च । अभयाई तप्पयाया सुहमिह तब्भत्तिभावाओ || ३४४५ ॥
1
यद्वा, सुष्ठु इतं प्राप्तं स्वितं खेभ्य इन्द्रियेभ्यः स्वैरिन्द्रियैः करणभूतैरित्यर्थः, निपातनात् सुखमुच्यते । तत् कुतः प्राप्तम् ? इत्याह- ततो गुरुसकाशात् । तच 'सर्वे जीवा न हन्तव्याः' इत्यादिगुरुकृतानुग्रहरूपमभयप्रदानादि द्रष्टव्यम् । आदिशब्दाज्ज्ञानादिपरिग्रहः । गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति । अतस्तत्प्रदाताऽभयादिप्रदाता गुरुरपीह सुखम्, तद्भ क्तिभावात् सुखोपचार त्- कारणे कार्योपचारादित्यर्थः ॥ ३४४५ ॥
तदेवं 'करोमि भदन्त !' इति व्याख्यातम् । अथवा ' भन्ते ' इति नेदं 'भदन्त' इत्यामन्त्रणम्, किन्तु 'भदन्त ' इति कया व्युत्पत्या ? इत्याह
अहवा भय सेवाए तस्स भयंतो चि सेवए जम्हा । सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं ॥ ३४४६॥
अथवा, 'भज-श्रिञ् सेवायाम्' इति भजघातुः, तस्य भजते सेवत इति भजन्तः, तस्य संबोधनं हे भजन्त गुरो ! । स चेह कस्मात् ? | उच्यते – यस्मात् सेवते । कान् ? । शिवगतीन् सिद्धिगतिं प्राप्तान; अथवा, दर्शन-ज्ञान- चारित्रलक्षणं शिवमार्ग मोक्षमार्गम् । अथवा, सेव्यश्च यस्मादसौ तदर्थिनां मोक्षमार्गार्थिनाम्, तस्माद् भज्यते सेव्यत इति भजन्त इत्युच्यत इति ।। ३४४६ ॥
१६४
१ यच स्वितं खेभ्योऽनुग्रहरूपं ततः सुखं तच्च । अभयादि तत्प्रदाता सुखमिह तद्भक्तिभावात् ।। ३४४५ ।। २ अथवा भज सेवायां तस्य 'भयन्तो' इति सेवते यस्मात् । शिवगतीन् शिवमार्ग सेव्यश्च यतस्तदर्थिनाम् || ३४४६ ।।
For Personal and Private Use Only
बृहद्वृत्ति ।।
४ ॥९३०५॥
janelbrary.org
Page #108
--------------------------------------------------------------------------
________________
विशेषा०
॥१३०६ ॥
Jain Educationa h
अथवा, भान्ती भ्राजन्तो वा गुरुरुच्यते, कथम् ? इत्याह
अहवा भा भाजो वा दित्तीए होइ तस्स भतो त्ति | भाजंतो चायरिओ सो नाण-तोगुणजुईए ॥ ३४४७ ॥ अथवा, भाषातुधातुर्वा ' दित्तीए ति ' दीप्तौ पठ्यते, तस्य भान्तो भ्राजन्त इति वा भवति । स चैवंभूतः कः : इत्याहआचार्यः । स च कथं भाति भ्राजते वा ? इत्याह-ज्ञान- तपोगुणदीप्त्येति ॥ ३४४७ ॥
अथवा, भ्रान्तो भगवान् वाऽसाविति दर्शयन्नाह -
अहवा भतोऽत्रेओ जं मिच्छत्ताइबंधहेऊओ | अहवेसरियाइभगो विज्जइ से तेण भगवंतो ॥ ३४४८ ॥
अथवा, ‘भ्रम अनवस्थाने' इत्यस्य धातोर्भ्रान्त इत्युच्यते, यस्मादपेतोऽसौ मिथ्यात्वादिवन्धहेतुभ्य इति । अथवा, ऐश्वर्यादिकः षड़िधो भगो विद्यते 'से' तस्य, तेन भगवान् गुरुरिति ॥ ३४४८ ॥
अथवा, भवान्तो भयान्तो वाऽयमित्यादर्शयन्नाह -
राइभवस्स व अंतो जं तेण सेो भवतो त्ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ ३४४९ ॥
अथवा, यस्माद् नारकादिभवस्यान्तहेतुत्वादन्वोऽसौ तेन भवान्त इति । अथवा, भयस्यान्तो भयान्तो भवति, भयं च त्रास उच्यत इति ॥ ३४४९ ॥
अथ भयं विशेषतोऽपि व्याचिख्यासुराह
नाइ छविहं तं भावभयं सतहेहलोगाई । इहलोगजं सभवओ पर लोगभयं परभवाओ || ३४५० ॥
१ अथवा भा भ्राजो वा दीप्तो भवति तस्य 'तो' इति । भ्राजंश्चाचार्यः स ज्ञान- तपोगुणसुत्या ॥ ३४४७ ॥
२ अथवा 'तो' अपेतो यद् मिथ्यात्वादिवन्धहेतुभ्यः । अथवैश्वर्यादिभगो विद्यते तस्य तेन 'भगवंतो' ।। ३४४८ ॥ ३ नैरयिकादिभवस्य वाऽन्तो यत् तेन स भवंतो ' इति । अथवा भयस्यान्तो भवति 'भयंतो भयं त्रासः ॥ ३४४९ ॥ ४ नामादि षड्विधं तद् भावभयं सप्तलोकादि । इहलोकजं स्वभवतः परलोकभयं परभवात् ॥ २४५० ।।
For Personal and Private Use Only
बृहद्वतिः ।
।। १३०६ ॥
www.janbrary.org
Page #109
--------------------------------------------------------------------------
________________
विशेषा०
१३०७॥
Jain Educationa h
'किं चणमादाणं तब्भयं तु नासहरणाइओ नेयं । बज्झनिमित्ताभावा जं भयमाकम्हिमं तं ति ॥ ३४५१ ॥ असिलोगभयमजसओ दुज्जीवमाजीवियाभयं नाम । पाणपरिच्चायभयं मरणभयं नाम सत्तमयं ॥ ३४५२ ॥
व्याख्या - नाम-स्थापना- द्रव्य-क्षेत्र काल-भावभेदात् तत् षड्विधं भयम् । तत्राद्याः पश्च भेदाः सुव्याख्येयाः । भावभयं त्विह "ईह-परलोयायाणमकम्हा आजीव मरणमसिकोए" इति वचनात् सप्तधा भवति, तथा चाह - 'इहलोगाइ त्ति' । तत्रेहलोकजं भयं स्वभवतः स्वभवात्, यथा मनुष्यस्य मनुष्यात्, तिरश्वस्तिर्यग्भ्य इत्यादि । परलोकभयं तु परभवाद, यथा मनुष्यादेस्तिर्यगादिभ्यः । किश्चनं दैव्यादानमुच्यते तद्भयं तु न्यासहरणादिभ्यो ज्ञेयम् । यत्र तु बाह्यनिमित्ताभावादकस्मादेव भवति तदाकस्मिकम् । अश्लोकोऽश्लाघा तद्भयं त्वयश इति । आजीविकाभयं तु दुर्जीविकाभयम् । मरणं तु नाम यत् सप्तमं भयं तत् प्राणपरित्यागमयमिति ।। ३४५० ।। ३४५१ ।। ३४५२ ।।
अथान्तशब्दव्युत्पादनार्थमाह
अम गच्चाइसु तस्सेह अमणमंतोऽवसाणमेगत्थं । अमइ व जं तेणं तो भयरस अंतो भयंतो चि ॥ ३४५३ ॥ अम रोगे वा अंतो रोगो भंगो विणासपज्जाओ । जं भवभयभंगो सो तओ भवतो भयंतो य ।। ३४५४ ॥
व्याख्या - अमधातुर्गत्यादिष्वर्थेषु पठ्यते, तस्येद्दान्त इति रूपं भवति, अमनमन्तोऽवसानमित्येकार्थम् । अमतीति वा यस्मात् तेनान्त इति कर्तरि साध्यते, भयस्यान्तो भयान्त इति । अथवा, 'अम रोगे' रोगो भने, ततश्चान्तो रोगो भङ्गो विनाश इति पर्यायशब्दा एत इत्यर्थः । एवं च सति यस्माद् भवस्य भयस्य च भङ्गहेतुत्वाद् भङ्गोऽसौ गुरुस्ततो भवान्तो भयान्तश्चेति ।। ३४५३ ।। ३४५४॥ ननु भवद्भिर्व्युत्पादितानां भदन्तादिशब्दानां स्थाने कथं 'भंते' इति निष्पद्यते १ इत्याह -
१ किश्चनमादानं तद्भयं तु न्यासहरणादितो ज्ञेयम् । बाह्यनिमित्ताभावाद् यद् भयमाकस्मिकं तदिति ॥ ३४५१ ॥ अश्लोकभयमयशो दौर्जीव माजीविकाभयं नाम । प्राणपरित्यागभयं मरणभयं नाम सप्तमकम् ॥ ३४५२ ।।
२ इह-परलोकाऽऽदानान्य कस्मादाजीविका मरणमश्लोकः । ३ ज. 'द्रव्यमादा' ।
४ अम गत्यादिषु तस्येहाम नमन्वोऽवसानमेकार्थम् । अमति वा यत् तेनान्तो भयस्यान्तों 'भयंतो ' इति ।। ३४५३ ॥ अम रोगे वा अन्तो रोगो भङ्गो विनाशपर्यायः । यद् भवभयभङ्गः स ततो ' भवंतो 'भयंतो' च ॥ ३४५४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३०७॥
Page #110
--------------------------------------------------------------------------
________________
विशेषा० ॥१३०८ ॥
Jain Education fr
एत्थ भयंताई पागयवागरणलक्खणगईए । संभवओ पत्तेयं द-य-ग-वगाराइलोवाओ || ३४५५ ॥ हस्सेकारंतादेसओ य भंते त्ति सव्वसामण्णं । गुरुआमंतणवयणं विहियं सामाइयाईए ॥ ३४५६ ||
व्याख्या - अत्र भदन्तादीनाम्, आदिशब्दाद् भजन्त-भान्त-भ्राजन्त भ्रान्त भगवन्त भवन्त भयान्तपरिग्रहः, प्राकृतव्याकरणलक्षणगत्या यथासंभवं प्रत्येकं द-य-ग-वकाराद्यक्षर लोपात्, तथा इस्वैकारान्तादेशतश्च 'भंते त्ति' सर्वसामान्यं पदं 'निष्पद्यते ' इति शेषः । तत्र ‘भदन्त' इत्यत्र दकारस्य, 'भयान्त' इत्यत्र यकारस्य, 'भगवन्त' इत्यत्र गवकारयोर्लोपः कर्तव्यः, आदिशब्दाद् 'भजन्त ' इत्यादिषु काराद्यक्षराणां लोपो द्रष्टव्यः, 'भांत' इत्यादिषु भादीनां हस्वत्वादेशः, 'भंत' इति पदेऽवस्थिते अन्त एकारादेशः कर्तव्य इति । 'भन्ते' इत्येतच्च पदं गुर्वामन्त्रणवचनं सामायिक सूत्रस्यादी विहितमिति ॥ ३४५५ ।। ३४५६ ।।
'भदन्त' इति पदस्यामन्त्रणवचनतामेव भावयति -
आमंतेइ करेमि भंते सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणं ति ? ॥ ३४५७ ॥ ‘करेमि भंते ! सामाइयं' इत्येवं शिष्योऽयमामन्त्रयति गुरुम् । आह परः - ननु गुरोरामन्त्रणवचनमिदमादौ विहितम् इत्यत्र किं कारणम् ? इत्येतत् कथ्यतामिति ।। ३४५७ ।।
सूरिराह
अण्णइ गुरुकुलवासे वर्स गहत्थं जहा गुणत्थीह । निश्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहिंयं ॥३४५८॥ नाणस्स हाइ भागी थिरतरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३४५९ ॥
१ अत्र भदन्तादीनां प्राकृतव्याकरणलक्षणगत्या । संभवतः प्रत्येकं दन्य-ग-वकारादिलोपात् ॥ ३४५५ ॥ ह्रस्वैकारान्तादेशतश्च 'भंत' इति सर्वसामान्यम् । गुर्वमन्त्रणवचनं विहितं सामायिकादौ ।। ३४५६ ||
२ आमन्त्रयति 'करोमि भगवन् ! सामायिकम्' इति शिष्योऽयम् । आहामन्त्रणवचनं गुरोः किंकारणमिदमिति ? || ३४५७ ॥ ३ भव्यते गुरुकुलबासे वसन् ग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् || ३४५८ ॥ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्र च । धन्या यावत्कथां गुरुकुलवासं न मुञ्चन्ति ।। ३४५९ ।।
For Personal and Private Use Only
बृहद्दीतः ।
॥१३०८/
Page #111
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वति ।
॥१३०॥
'गीयावासो रई धम्मे अणाययणवजणं । निग्गहो य कसायाणं एवं धीराण सासणं ॥ ३४६० ।। रूपकत्रयं पाठसिद्धम् ॥ ३४५८ ॥ ३४५९ ॥ ३४६० ॥ अपिच, आवस्सयं पि निच्च गुरुपामूलम्मि देसियं होइ । वीसु पि हु संवसओ कारणओ जदभिसेज्जाए ॥ ३४६१ ॥
अनेन गुर्वामन्त्रणवचनेनावश्यक प्रतिक्रमणं गुरुपादमूल एव नित्य कर्तव्यमिति दर्शितं भवति, यद् यस्मादभिशय्यायां द्वितीयेवसतावित्यर्थः कारणतः कारणवशाद् विष्वपि पृथगपि संवसतः साधोः 'कल्पग्रन्थे इयं सामाचारी प्रोक्ता' इति शेषः । का पुनरियं कल्पसामाचारी ? इति । उच्यते-"जइ खुडुलगा वसही तो अन्नस्थ गंतूण करपया साहुणो वसंति" । तत्राचार्यसमीपे “पहिकमिउं पाउसियकालग्गहणोत्तरं कालं" मूत्रग्रहणार्थपौरुषी कृत्वाऽन्यस्यां गच्छन्ति; अथान्तरा वापदादिभयम्, ततोऽर्थपौरुषी दापयन्ति । ततः सूत्रपौरुषीपपि कालमपि तथा चरमं कायोत्सर्ग द्वितीयमाद्यं यावत् तिष्ठत्यपि सहस्ररश्मौ तत्र यान्तीति ॥३४६१॥
न केवलं प्रतिक्रमणम्, किन्त्वेवमेव शेषायपि सर्वाणि साधोरवश्यं कर्तव्यान्यावश्यकानि गुरूनापृच्छय कर्तव्यानीत्येतज्ज्ञा. पितमामन्त्रणवचनात् , येन सर्वेषामप्यावश्यकानां सामायिकमेवादौ मतम्, भदन्तश्च यस्मात् तदादौ निर्दिष्टस्तेनानुवर्तते तकोऽऽसौ सर्वे प्वप्यावश्यकेषु । कथम् ? इत्याह-इदमिदं च करोमि भदन्त ! इति । एतदेवाह
एवं चिय सव्वावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥ ३४६२ ॥ सामाइयमाइमयं भदंतसहो य जं तदाईए । तेणाणुवत्तइ तओ करेमि भंते त्ति सव्वेसु ॥ ३४६३ ॥ गतार्थे ।। ३४६२ ।। ३४६३ ।।
१ गीतावासो रतिधर्मेऽनायतनवर्जनम् । निग्रहश्च कषायाणामेतद् धीराणां शासनम् ॥ ३४६०॥ २ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि खलु संवसतः कारणतो यदभिशय्यायाम् ॥ ३४६१ ।। १ एवमेव सर्वावश्यकाम्यापुच्छय कार्याणि । आज्ञपितमामन्त्रणवचनादू येन सर्वेषाम् ॥ ३४६२ ।। सामायिकमादिमकं भदन्तशब्दश्च यत् तदादौ । तेनानुवर्तते सकः 'करेमि भंते ' इति सर्वेषु ॥ ३४६३ ॥
॥१३०॥
Page #112
--------------------------------------------------------------------------
________________
विशेषा०
दत्तिः ।
॥१३१०॥
किमिति गुरूनापृच्छयैव सर्वावश्यकानि कर्तव्यानि ? इत्याह'किच्चाकिच्चं गुरवो विदंति विणयपाडिवत्तिहेउं च । उस्सासाई पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ ३४६४ ॥ पाठसिद्धा ॥ ३४६४ ॥ यत्र तर्हि गुरुन भवति तत्र किं विधेयम् ? इत्याहगुरुविरहम्मि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सफलं ॥ ३४६५ ॥ रन्नो व परोक्खस्स वि जह सेवा मतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेऊ ॥३४६६॥ अहवा गुरुगुणनाणोवओगओ भावगुरुसमाएसो । इह विणयमूलधम्मोवएसणत्थं जओऽभिहियं ॥ ३४६७ ॥ विणओ सासणे मूलं विणीओ संजओ भवे । विणया उ विप्पमुक्कस्स कओ धम्मो को तवो ? ॥ ३४६८ ॥ विणओवयारमणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणा किरिया ॥ ३४६९ ॥ पाठसिद्धा एवेति ॥ ३४६५ ॥ ३४६६ ॥ ३४६७ ॥ ३४६८ ॥ ३४६९ ।। अथवा, नेदं गुरोरामन्त्रणम्, किन्त्वात्मन एवेति दर्शयतिआयामंतणमहवाऽवसेसकिरियाविसग्गओ तं च । सामाइएगकिरियानिमायगं तदुवओगाओ ॥ ३४७० ॥
१ कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतोश्च । उच्छ्रासादि प्रमोक्तुं तदनापृच्छादि प्रतिषिद्धम् ।। ३४६४ ॥ २ गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थ च । जिनविरहे इव जिनविम्बसवणामन्त्रणं सफलम् ।। ३४६५ ।। राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः ।। ३४६६ ।। अथवा गुरुगुणज्ञानोपयोगतो भावगुरुसमादेशः । इह विनयमूलधर्मोपदेशनार्थ यतोऽभिहितम् ।। ३४६७ ।। धिनयः शासने मूलं विनीत: संयता भवेत् । विनयात्तु विप्रमुक्तस्य कुतो धर्म: कुतस्तपः ? ।। ३४६८ ।। विनयोपचारमनसो भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधना क्रिया ।। ३४६९ ।। ३ आत्मामन्त्रणमथवाऽवशेष क्रियाविसर्गतस्तच्च । सामायिकैकक्रियानियामकं तदुपयोगात् ॥३४७०।।
88॥१३१०॥
Page #113
--------------------------------------------------------------------------
________________
४००४
विशेषा.
nिo
४१३११॥
अथवा, आत्मन आत्मजीवस्यामन्त्रणमिदम्-हे भो जीव ! सामायिक करोम्यहम् । कथम् । अवशेषक्रियाविसर्गतः सर्वा अपि क्रिया विसृज्येत्यर्थः । तच्चात्मामन्त्रणं सामायिकैकक्रियाया नियामक नियमार्थम्, तदुपयोगात् तस्यामेवैकस्यां सामायिककिया. यामुपयोगादिति ॥ ३४७० ।।
एवं च सति किमुक्तं भवति ? इत्याहएवं च सव्वकिरियाऽसंवन्नया तदुवउत्तकरणं च । वक्खायं होइ निसीहियाओ किरिओवओगु व्व ॥३४७१॥
एवं च सति सर्वासामपि प्रत्युपेक्षणादिक्रियाणां परस्परमसंपन्नताऽन्योन्यमनावाधता, तस्यामेव मारब्धकक्रियायामुपयुक्तकरणं चात्मामन्त्रणेन व्याख्यातं विशेषेण कथितं भवति, यथा नैषधिक्या नैषेधिकरणेन बाह्यक्रियानिषेधतो वसत्यभ्यन्तरकियोपयोग एव कथितो भवत्येवमिहापीति ॥ ३४७१ ।।
अथवा, जिन-सिद्धायामन्त्रणार्थोऽयं भदन्तशब्द इति दर्शयतिअहवा जहसंभवओ भदंतसद्दो जिणाइसक्खीणं । आमंतणाभिधाई तस्सक्खिजे थिरव्वयया ॥ ३४७२ ॥ गहियं जिणाइसक्खं मइ त्ति तल्लज्ज-गोरव-भयाओ। सामाइयाइयारे परिहरओ तं थिर होइ ॥ ३४७३ ॥
व्याख्या-अथवा, यथासंभवतो ये केचनातिशयज्ञानिनो जिन-सिद्धादयः संभवन्ति, तेषां जिनादीनां साक्षिणामामन्त्रणाभिधायी भदन्तशब्दः, 'भो भो जिनादयो भदन्ताः । युष्मत्साक्षिकं करोम्यहं सामायिकम् इति । तत्साक्षिकत्वे च सामायिककर्तुः स्थिरव्रतता भवतीति । कथम् ? इत्याह-जिनादिसाक्षिकं गृहीतं मया सामायिकम्, अतः परिपालनीयमेवेदम्, इत्यनया वासनया सामायिकातिचारान् परिहरतस्तस्य तत् सामायिकव्रतं स्थिरं भवति । कुतः ? इत्याह - 'तल्लज्जेत्यादि' तेषां जिनादीनां सत्का या लज्जा, तेषु च यद् गौरवं यो बहुमानः, यच्च तदीयं भयं तस्मादिति ॥ ३४७२ ॥ ३४७३॥
१११००००००००००००००००००ककककठठत
१ एवं च सर्वक्रियासंपन्नता तदुपयुक्तकरणं च । व्याख्यातं भवति नैषेधिक्या क्रियोपयोग इव ॥ ३४७१ ।। २ अथवा यथासंभवतो भदन्तशब्दो जिनादिसाक्षिणाम् । आमन्त्रणामिधायी तत्साक्ष्ये स्थिरवतता ॥ ३४७२ ।। गृहीतं जिनादिसाक्ष्ये मतिरिति तल्लज्जा-गौरव-भयात् । सामायिकातिचारान् परिहरतस्तत् स्थिरं भवति ॥ ३४७३ ।।
॥१३११॥
Jain Educationain
For Personal and Price Use Only
18
w
ww.jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वत्तिः ।
॥१३१२॥
अथवा, भदन्तशब्दोऽयं नामन्त्रणार्थः, किन्तु सामायिकस्यैव विशेषणार्थ इति दर्शयन्नाहअहवा भंतं च तयं सामइयं चेइ भंतसामइयं । पत्तमलक्खणमेवं भंतेसामाइयं तं च ॥ ३४७४ ॥
भदन्तं च तत् सामायिकं च भदन्तसामायिक करोम्यहम्-कल्याणप्रापकं सुखावहं च यत् सामायिकं तदहं करोमि नान्यदि त्यर्थः । 'भंतेसापाइयं' इत्यत्र तु यदेवमेकारान्तत्वं तदेतदलक्षणमलाक्षणिकमतो लुप्यत इति । 'तं च त्ति' तच किमर्थमेवं विशिष्यते ? ।। ३४७४ ॥
किमन्यदपि सामायिक विद्यते ? इत्याहनामाइवुदासत्थं नणु सो सावज्जजोगविरई ओ । गम्मइ भण्णइ न जओ तत्थवि नामाइसब्भावो ॥ ३४७५ ॥
नाम-स्थापनादिसामायिकव्युदासार्थमिदमेवं विशिष्यते, नामादिसामायिकानां कल्याणप्रापकत्व-सुखावहत्वाभावात् , भदन्तविशेषणादू भावसामायिकमिह गृह्यत इति भावः । आह-नन्वसौ नामादिव्युदासः 'सावज जोगं पञ्चक्खामि' इत्यादिवचनात् सावघयोगविरतिर्गम्यते । न हि सावद्ययोगविरतिरूपाणि नामादिसामायिकानि भवन्तीति । भण्यतेऽत्रोत्तरम्-'न त्ति' न त्वद्वचो युज्यते, तत्रापि सावद्ययोगविरतौ नाम-स्थापनादिरूपसंपवात् । इदमुक्तं भवति-यदि भावसायद्ययोगविरतिरसौ गृह्यते, तदा भवेत् साध्यसिद्धिः, न चैतदस्ति, नियामकाभावात्ः भदन्तविशेषणे तु सामायिकस्येयमपि भावरूपा गम्यते, नामादिरूपसावद्ययोगविरतेर्भदन्तसामायि. करूपत्वायोगादिति ॥ ३४७५ ॥
अथवा, भंते' शब्दात् षष्ठी द्रष्टव्येति दर्शयन्नाहभंतस्स व सामइयं भंतेसामाइयं जिणाभिहियं । न परप्पणीयसामाइयं ति भंतेविसेसणओ ॥ ३४७६ ॥ अथवा, 'करेमि भंतेसामाइयं' इत्यत्र भदन्तस्य भगवतः संबन्धि सामायिकमई करोमीत्येवं च द्रष्टव्यम् । ततश्च 'भंते' इति
१ अथवा भदन्तं च तत् सामायिकं चेति भदन्तसामयिकम् । प्राप्तमलक्षणमेवं 'भंत'सामायिकं तच ॥ ३४७४ ।। २नामादिव्युदासाथै ननु स सावद्ययोगविरतिस्तु । गम्यते भव्यते न यतस्तत्रापि नामादिसद्भावः ।। ३४७५ ।। ३ भदन्तस्य वा सामायिक भन्तेसामायिकं जिनाभिहितम् । न परप्रणीतसामायिकमिति भदन्तविशेषणतः ॥ ३४७६ ।।
॥१३१२॥
Page #115
--------------------------------------------------------------------------
________________
विशेषा
॥१३१३॥
विशेषणाजिनाभिहितं सामायिक करोम्यहम् , न पुनः परमणीतं कुतीर्थिकमरूपितमिति ॥ ३४७६ ॥ तदेवं 'करणे भए य अंते' इति पदत्रयं व्याख्यातम् ॥
अथ 'सामायिकम् ' इति चतुर्थपदं व्याचिख्यासुराहराग-दोसविरहिओ समो त्ति अयणं अयो त्ति गमणं ति । समगमणं ति समाओ स एव सामाइयं नाम ॥३४७७॥ अहवा भवं समाए निव्वत्तं तेण तम्मयं वावि । जं तप्पओयणं वा तेण व सामाइयं नेयं ॥ ३४७८ ॥ अहवा समाई सम्मत्त-नाण-चरणाई तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नाम ॥ ३४७९ ॥ अहवा समस्स आओ गुणाण लाभो त्ति जो समाओ सो । अहवा समाणमाओ नेओ सामाइयं नाम ॥३४८०॥ प्रागपि निरुक्तिद्वारे प्रायश्चर्चितार्थाः, सुगमाश्चेति ॥ ३४७७ ॥ ३४७८ ॥ ३४७९ ॥ ३४८० ॥ अथवा, अन्यथा व्युत्पत्तिरित्याहअहवा सामं मित्ती तत्थ अओ तण सामाओ । अहवा सामस्साओ लाभो सामाइयं नाम ॥ ३४८१ ॥ सम्ममओ वा समओ सामाइयमुभयविद्धिभावाओ । अहवा सम्मस्साओ लाभो सामाइयं होइ ॥ ३४८२ ॥
अथवा, सर्वजीवेषु मैत्री साम भण्यते, तत्र साम्निं अयो गमनं, साम्ना वाऽयो गमनं वर्तनं सामायः, अथवा, सान्न आयो छाभः सामायः स एव सामायिक नामेति । अथवा, सम्यगर्थसंशब्दपूर्वकोऽयधातुः, सम्यगयनं वर्तनं समयः, समय एव स्वार्थि
१ राग-द्वेषविरहितः सम इत्ययनमय इति गमनमिति । समगमनमिति समायः स एव सामायिकं नाम ॥ ३४७७ ।। अथवा भवं समाये निर्वृत्तं तेन तन्मयं वापि । यत् तत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयम् ॥ ३४७८ ।। अथवा समानि सम्यक्त्व-ज्ञान-चरणानि तेषु तैर्वा । अयनमयः समायः स एव सामायिकं नाम ॥ ३४७९ ।। अथवा समस्यायो गुणानां लाभ इति यः समायः सः । अथवा समानामायो शेयः सामायिकं नाम || ३४८० ।। २ अथवा सा मैत्री तत्रायस्तेन मामायः । अथवा साम्न आयो लाभः सामायिकं नाम ।। ३४८१ ।। ३ सम्यगयो वा समयः सामायिकमुभयवृद्धिभावात् । अथवा साम्यस्यायो लाभः सामायिकं भवति ।। ३४८२ ।।
॥१३१३॥
Page #116
--------------------------------------------------------------------------
________________
विशेषा.
ne बृहद्वात्तः।
॥१३१४॥
केकञ्यत्ययोपादानादुभयत्र वृदिभावाच्च सामायिकम् अथवा, सम्यगायो लाभः समायः, स एव सामायिकम् अथवा समस्य भावः साम्यम्, साम्यस्यायो निपातनात सामायः, स एव सामायिकामिति ।। ३४८२ ॥ ३४८२ ॥
अथवा, अन्यथा निरुक्तविधिरुच्यत इत्याहअहवा निरुत्तविहिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेयं सामाइयं नेयं ॥ ३४८३ ॥
अथवा, निरुक्तविधिना बहुव्युत्पत्तिकमेतत् सामायिक ज्ञेयं ज्ञातव्यमिति । कथम् ? इति । अत्रोच्यते- इकशब्दो देशीवचनः क्यापि प्रवेशार्थे वर्तते । आत्मोपमया परेषां दुःखस्याकरणं सामेह गृह्यते, तस्य साम्न इकं यदात्मनि प्रवेशनम्, नकारस्यायादेशनि. पातनात्, तत् सामायिकम् । तथा, सम्यग्दर्शन-ज्ञान चारित्रत्रयस्य परस्परं योजनं सम्यगिहोच्यते, निर्वाणसाधकत्वेन तद्योगस्यैव परमार्थतः सम्यग्रूपत्वात्, तस्य सम्यग्दर्शनादिरूपस्य 'सम्यग् इत्येतस्यात्मनि यदिकं प्रवेशनं, यकारादेरयादेशनिपातने सकारस्य च दीर्घत्वे, तत् सामायिकम् । तथा, राग-द्वेषमाध्यस्थ्यमात्मनः सर्वत्र तुल्यरूपेण वर्तनं सममुच्यते, तस्य समस्यात्मनि यदिकं प्रवेशनम्, समशब्दादयागमे सकारस्य दीर्घत्वे, तत् सामायिकमिति ॥ ३४८३ ।।
अथ सर्वशब्दं व्याचिख्यासुराहकिं पुण तं सामइयं सव्वसावज्जजोगविरइ त्ति । सियए स तेण सव्वो तं सव्वं कइवहं सव्वं ? ॥३४८४॥
किं पुनस्तद् यथोक्तशब्दार्थ सामायिकम् ? इत्यत्राह-सर्वसावद्ययोगविरतिरिति । अथ सर्व इति का शब्दार्थः ? । उच्यते'मृ गतौ' इत्यस्य धातोः स्रियते स इति, स्त्रियतेऽनेनेति वौणादिके वप्रत्यले सर्वः पदार्थो, वस्तुनि तु वाक्ये तत् सर्व वस्त्विति भवति । कतिविधं पुनरिदं सर्व भवति ॥ इत्यष्टाशीतिगाथार्थः ॥ ३४८४ ।।
अथ 'कतिविधं सर्वम् ? इति प्रश्नोत्तरमाहनाम ठवणा दविए आएसे चेव निरवसेस च । तह सव्वधत्तासव्वं च भावसव्वं च सत्तमयं १३४८५॥
१ अथवा निरुक्तविधिना साम सम्यक् समं च यत् तस्य । इकमात्मनि प्रवेशनमतत सामायिकं ज्ञेयम् ।। ३४८४ ॥ २ किं पुनस्तत् सामायिक सर्वसावद्ययोगविरतिरिति । सियते स तेन सर्वस्तत् सर्व कतिविध सर्वम् ? ।। ३४८५ ॥ ३ नाम स्थापना द्रव्यमादेशश्व निरवशेष च । तथा सर्वधत्तासर्व च भावसर्व च सक्षमकम् ।। ३४८५ ।
कककककककककक ४४०४०००००००...
4॥१३१४॥
Jain Educational
For Personal and
Use Only
Page #117
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वत्तिः ।
॥१३१५॥
62
नापसर्वम्, स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, तथा, सर्वधत्तासर्वम्, भावसर्वं च सप्तमम् । इति निर्यु क्तिगाथार्थः ॥ ३४८५॥
तत्र नाम स्थापनासर्व सुगमम्, द्रव्यस तु ज्ञ भव्यशरीरव्यतिरिक्तं व्याचिख्यासुराहकैसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ। व्वे तद्देसम्मि य सव्वासव्वे च उभंगो ॥ ३४८६ ॥ सव्वासव्वे दव्वे देसम्मि य नायमंगुलिदव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥ ३४८७ ॥
व्याख्या-इहाङ्गुल्यादिद्रव्यं यदा कृत्स्नं सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते । एवं तस्याङ्गुल्यादिद्रव्यस्य पर्वादिको देशो निजावयवपरिपूर्णत्वविवक्षया सर्वोऽभिमतः । वाशब्दोऽत्राषिशब्दार्थे व्याख्यातः । एतदेव चाङ्गुल्यादिद्रव्यं तदेशो वा यदाऽपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं द्रष्टव्यम् । ततश्च द्रव्ये तदेशे च सर्वासर्वत्वेन विवक्षिते चतुर्भङ्गो भङ्गचतुष्टयं भवति तद्यथा-द्रव्यं सर्व देशोऽपि सर्वः, द्रव्यं सर्व देशोऽसर्वः, देशः सर्वो द्रव्यमसर्वम्, देशोऽसो द्रव्यमप्यसर्वमिति । अत्र द्रव्यस्य सर्वत्वेऽसर्वत्वे च देशस्यापि सर्वत्वेऽसर्वत्वे च यथाक्रमं ज्ञातमुदाहरणम् तद्यथा-अङ्गुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसत्रमुच्यते, तदेव देशोनं विवक्षितं द्रव्यासर्वमभिधीयते, पर्व पुनः संपूर्ण विवक्षितं देशसर्व विवक्षितम्, पबैंकदेशस्तु देशासर्वमिति ॥ ३४८६ ॥ ३४८७ ॥ उक्त द्रव्यसर्वम् ॥
अथादेशसर्वमाहआएसो उवयारो सो बहुतरए पहाणतरए वा । देसे वि जहा सव्वं भत्तं भुत्तं गओ गामो ॥ ३४८८ ॥
आदेश उपचारः, स च बहुतरे प्रधानतरे वा देशोऽपि सर्वतया प्रवर्तते, तद्यथा-परिगृहीतभक्तमध्याद् बहुतरे मुक्त सत्यादिश्यते-'सर्वमनेन भुक्तम्' इति । प्रधानतरादेशे च कतिपयपुरुषेषु गतेषु शेषेष्ववतिष्ठमानेष्वप्यादिश्यते लोके यथा 'गतः सर्वो ग्रामः' इति ॥ ३४८८ ।।
१ कृत्स्नं द्रव्ये सर्व देशो वा विवक्षयाभिमतः । द्रव्ये तदेशे च सासर्वे चतुर्भङ्गी ॥ ३४८६ ।।
सर्वासर्वे द्रव्ये देश च ज्ञातमकुलद्रव्यम् । संपूर्ण देशोनं पर्व पकदेशश्च ।। ३४८७ ।। २ आदेश उपचारः स बहुतरके प्रधानतर के वा । देशेऽपि यथा सर्व भक्तं भुक्तं गतो प्रामः ॥ ३४८८ ॥
॥१३१
For Personal and Private Use Only
Page #118
--------------------------------------------------------------------------
________________
विशेषा ०
॥१३१६॥
Jain Educational
निरवशेष सर्वमाह
दुविहं तु निरवसेसं सव्वासेसं तदेक्कदेसो य । सव्वासेसं सव्वे अणिमिसनयणा जहा देवा || ३४८९ || तसा परिसेसं सव्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥ ३४९० ॥
व्याख्या - निरवशेषं पुनर्द्विविधम् - विवक्षितसर्ववस्तुनिरवशेषं तद्देशनिरवशेषं च । तत्र सर्वनिरवशेषं यथा सर्वेऽनिमिषनयना देवाः । इहानिमिषनयनत्वमपरिशेषेष्वपि देवेषु वर्तते, सनिमिषत्वस्य तेष्वभावादिति । तद्देशापरिशेषं तु यथा-सर्वेऽप्यसित वर्णाः कृष्णा असुराः, यथा वा ज्योतिष्काळया देवाः सर्वे किल तेजोलेश्याकाः । इहासुरा ज्योतिष्काळयाच देवाः समस्तदेवानां प्रत्येकमेकदेशे वर्तन्ते तेषु सर्वेषु यथासंख्यं कृष्णवर्णत्वं तेजोलेश्यायुक्तत्वं च वर्तत इति देशापरिशेषं मन्तव्यमिति || ३४८९|| ३४९० ||
अथ सर्वभत्तासर्वमाह -
जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्त त्ति । सव्वे वि सव्वधत्तासव्वं जमओ परं णन्नं ॥ ३४९१ ॥
इह सर्वमपि लोके यदस्ति तत् सर्व जीवाचाजीवाश्थ, तत् सर्व धत्ते धारयति येन कारणेन तेन सा विवक्षा निपातनात् सर्वधत्ता, सैव चेह जीवाजीवरूपा विवक्षा सर्वधत्तासर्वमुच्यते यस्मादतो जीवाजीवराशिद्वयात् परं नान्यत् किश्चिदस्तीति ॥ ३४९१ ॥ आह- ननु द्रव्यसर्वस्यादेशसर्वस्य निरवशेष सर्वस्य सर्वधत्ता सर्वस्य च कः प्रतिविशेषः १ इत्याहअह दव्वन्यमेगं दव्वाधारं ति भिन्नमन्नेहिं । एगाणेगाधारोक्यारभेएण चादसं ॥ ३४९२ ॥ भिण्णमसेसं जमिहेगजाइविसयं ति सव्वधताओ । भिन्ना य सव्वधत्ता सव्वाधारो त्ति सव्वेसिं ॥ ३४९३॥
१ द्विविधं तु निरवशेषं सर्वशेषं तदेकदेशञ्च । सर्वाशिषं सर्वेऽनिमिषनयना यथा देवाः ।। ३४८९ ।। तद्देशापरिशेषं सर्वेऽसुरा यथाऽसितवर्णाः । यथा ज्योतिरालया वा सर्वे किल तेजोलेश्याकाः ।। ३४९० ।। २ जीवाजीवाः सर्वे तद् धते तेन सर्वधत्तति । सर्वस्मिन्नपि सर्वधत्तासर्व यदतः परं नान्यत् ॥ ३४९१ || ३ अथ द्रव्य सर्वमेकं द्रव्याधारमिति भिन्नमन्यैः । एकानेकाधारोपचारभेदेन चादेशः || ३४९२ ॥ भिन्नमशेषं यदि है कनातिविषयमिति सर्वधत्तातः । भिन्ना च सर्वधत्ता सर्वाधार इति सर्वेभ्यः || ३४९३ ।।
For Personal and Private Use Only
बृहद्वृचिः ।
॥१३१६॥
Page #119
--------------------------------------------------------------------------
________________
१९९९.९००
विशेषा०
५१३१७॥
व्याख्या-अथ 'द्रव्यसादीनां भेद उच्यते' इति शेषः । तत्र द्रव्यसर्व तावदेकद्रव्याधारमुक्तमित्यन्येभ्यो भिन्नम्, तेषां तद्रूपत्वाभावात् । आदेशसर्व त्वेकानेकद्रव्याधारमिति कृत्वा तथोपचारभेदेन च 'भिन्नमन्येभ्यः' इति वर्तत इति । अशेषसमपि सर्वधत्तासर्वस्मात् पूर्वोक्ताभ्यां च भिन्नम्, यस्मादेकजातिविषयं तदिति । सर्वधत्तापि सर्वेभ्यः पूर्वेभ्यो भिन्ना, सर्ववस्त्वाधारत्वादिति ।। ३४९२-९३ ॥
अय भावसर्वमाहकम्मोदयस्सहावो सव्वो असुहो सुहो य ओदइओ । मोहोवसमसहावो सव्वो उवसामिओ भावो ॥३४९४॥ कम्मक्खयस्सहावो खइओ सव्वो य मीसओ मीसो । अह सव्वदव्वपरिणइरूवो परिणामिओ सव्वो ॥३४९५॥ सुगमे ।। ३४९४ ॥ ३४९५॥ ननु सप्तविधसर्वमध्यात् केनात्राधिकारः ? इत्याहअहिगयमसेससव्वं विसेसओ सेसयं जहाजोगं । गरहियमवजमुत्तं पावं सह तेण सावजं ॥ ३४९६ ॥
इह 'सर्व सावधं योग प्रत्याख्यामि' इति संबन्धाद् निरवशेषसर्व विशेषतोऽधिकृतम्, शेषकं तु षड्विधं सर्व यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयमिति । तदेवं 'करणे भए य अंते सामाइय सन्चए' इत्यादिम्लद्वारगाथायाः पञ्च पदानि व्याख्यातानि । अथ षष्ठं सावधपदं व्याचिख्यासुराह-'गरहियमित्यादि' गर्हितं निन्धं वस्त्ववद्यमुक्तम्, तच्छेह पापम्, सह तेनावयेन वर्तत इति सावधस्तं सावधं योग 'प्रत्याख्यामि' इति वक्ष्यमाणं गम्यत इति ॥ ३४९६ ॥
अथवा, अन्यथा सावधशब्दो व्युत्पाद्यत इत्याहअहवेह वजणिज्जं वजं पावं ति सहसकारस्स । दिग्घत्तादेसाओ सह वजेणं ति सावजं ॥ ३४९७ ॥
१ कर्मोदयस्वभावः सोऽशुभः शुभश्चौदायकः । मोहोपशमस्वभावः सर्व औपशामिको भावः ।। ३४९४ ।।
कर्मक्षयस्वभावः क्षायिक: सर्वश्च मिश्रको मिश्रः । अथ सर्वद्रव्यपरिणतिरूप: पारिणामिकः सर्वः ।। ३४९५ ।। २ अधिगतमशेषसर्व विशेषतः शषकं यथायोगम् । गाईतमवद्यमुक्तं पापं सह तेन सावद्यम् ॥ ३४९६ ।। ३ अथवह वर्जनीयं वय पापमिति सहसकारस्य । दीर्घत्वादेशात् यह वज्येनेति सवर्ण्यम् ॥ ३४९७ ॥
॥१३१॥
6600
For Personal and Price Use Only
Page #120
--------------------------------------------------------------------------
________________
विशेषा
बृहदतिः ।
॥१३॥
अथवा, इह वर्जनीयं वर्ण्यत इति वयं पापमुच्यते, सह वर्थेन वर्तत इति सहस्य सभावात् समकारस्य च प्राकृतत्वेन दीर्घत्वविधानात् सावर्षीमित्युक्तं सवपः सपापो योगस्तं सवय॑मिति ॥ ३४९७ ॥
योगपदव्याख्यानार्थमाहजोगो जोयणमायकिरिया समाधाणमायवावारो । जीवेण जुज्जए वा जओ समाहिज्जए सो त्ति ॥ ३४९८ ॥ जं तेण जुज्जए वा स कम्मुणा जं च जुज्जए तम्मि | तो जोगो सो य मओ तिविहो कायाइवावारो ॥३४९९॥
व्याख्या-'युजि योगे' 'युज समाधौ वा' योजनं योग आत्मकर्मसंबन्ध इत्यर्थः । अथवा, आत्मनश्चलन-स्पन्दनादिक्रियया सभ्यगाधानं योजनं योगः सकर्मक आत्मव्यापार इत्यर्थः। अथवा, जीवेन सह युज्यते समाधीयते संबध्यते स यस्मात्, ततो योगो जीवव्यापार एवेति । अथवा, स आत्मा तेन कृत्वा कर्मणा सह युज्यते यस्मात् ततो योगः । अथवा, यस्मात् तस्मिन् योगे सत्यात्मा कर्मणा युज्यते ततो योगः । स च त्रिविधः कायादिव्यापारो मतः-मनो-वाक् कायव्यापार इत्यर्थः ।। ३४९८ ।। ३४९९ ।।
अथ सर्वादिपदानां क्रियया सह संबन्धं कुर्वन्नाह -- सव्वा सावजो त्ति य जोगो संबज्झए तयं सव्वं । सावज जोगं ति य पच्चक्खामि त्ति वजेमि ॥३५००॥ सर्बो निरवशेषः सावद्ययोग इति संबध्यते । तं सर्व सावद्ययोगं प्रत्याख्यामीति क्रिया प्रत्याचक्षे वा वर्जयामीत्यर्थः।।३५००॥ इह प्रत्याख्यामि प्रत्याचक्षे चेति क्रियाद्वयेऽपि सावद्ययोगस्य प्रत्याख्यानं गम्यते, अतस्तदेव प्रत्याख्यानं व्याचिख्यासुराहपइसहो पडिसेहे अक्खाणं खावणाऽभिहाणं वा । पडिसेहस्सक्खाणं पच्चक्खाणं निवित्ति त्ति ॥ ३५०१ ॥
प्रतिशब्दोऽत्र प्रतिषेधे वर्तते, आख्यानं त्वाभिमुख्येन वाऽऽदरेण वा ख्यापना प्रकथनं, चक्षिपक्षेऽभिधानं वा, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिः ॥ इति गाथाषोडशकार्थः ॥ ३५०१॥
१ योगो योजनमात्माक्रिया समाधानमात्मव्यापार: । जीवेन युज्यते वा यतः समाधीयते स इति || ३४९८ ॥ यत् तेन युज्यते वा कर्मणा यच युज्यते तस्मिन् । ततो योगः स च मतस्विविधः कायादिव्यापारः ।। ३४९९ ॥ सर्वः सावध इति च योगः संबध्यते तत् सर्वम् । सावधं योगमिति च प्रत्याख्यामीति वर्जयामि || ३५०० ॥ ३ प्रतिशब्दः प्रतिषेधे आख्यानं ख्यापनाऽभिधानं वा । प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ ३५०१॥
॥१३१८॥
For Personal and
Use Only
Page #121
--------------------------------------------------------------------------
________________
विशेषा ०
४१३१९॥
Jain Education h
अथ प्रत्याख्यानमेव भेदतो निरूपयन्नाह -
नाठवणा दविए अइत्यपडिसेहभावओ तं च । नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवा || ३५०२ ||
तच्च मत्वाख्यानं नाम-स्थापना- द्रव्याऽदित्था प्रतिषेध-भावतः षोढा, तत्र प्रत्याख्यानमिति यदभिधानं तद् नामरूपं प्रत्याख्यानं नामपत्याख्यानमुच्यते । 'अगार ति' बहिर्मुखहस्ताका र करण मूर्ध्वाङ्गुलिकम्पमान हस्ता कारकरणं वा, अक्षादौ निक्षेपो वा स्थापनाप्रत्याख्यानम् ।। इति नियुक्तिगाथा संक्षेपार्थः ।। ३५०२ ।।
द्रव्यप्रत्याख्यान स्वरूपं भाष्यकारः माह -
देव्वरस व दव्वाण व दव्वन्भूयस्स दव्वहेउं वा । दव्वं पच्चक्खाणं निण्हाईणं व सव्वं पि || ३५०३ ॥
द्रव्यस्य वा सचित्तादेः, द्रव्याणां वा सचित्तादीनां प्रत्याख्यानं द्रव्यप्रत्याख्यानं द्रव्यभूतस्य वा भावरहितस्याभव्यादेः प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा द्रव्यहेतुकं द्रव्यलाभार्थं प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा, निवादीनां यत् प्रत्याख्यानं, तत् सर्वमपि द्रव्यप्रत्याख्यानमुच्यत इति ।। ३५०३ ।।
अदित्थाप्रत्याख्यानं प्रतिषेधमत्याख्यानं चाह-
भिक्ख अदाणमइत्था पडिसेहो रोगिणो व्व किरियाए । सिद्धं पञ्च्चक्खाओ जह रोगी सव्वविजेहिं ॥३५०४||
भिक्षाचराणां भिक्षायामतिगच्छेति वचनात् अदित्थावचनाद् वादानमतिगच्छप्रत्याख्यानमादित्याप्रत्याख्यानं चेति । असाध्य रोगिणः क्रियायाः प्रत्याख्यानं प्रतिषेधः प्रतिषेधप्रत्याख्यानमुच्यते। सिद्धं चैतल्लोकेऽपि यथा वक्तारस्तत्र भवन्ति - 'प्रत्याख्यातोऽयं रोगी सर्ववैद्यैः' इति । अस्य स्थाने निर्युक्तौ क्वचिद् निर्विषयाज्ञानरूपं क्षेत्रप्रत्याख्यानं दृश्यत इति ।। ३५०४ ।
भावप्रत्याख्यानमाह
१ नाम स्थापना द्रव्या-ऽदित्था प्रतिषेध-भावतस्तच । नामाभिधानमुक्तं स्थापनाऽऽकाराक्ष निक्षेपौ || ३५०२ ॥ २ द्रव्यस्य वा द्रव्याणां वा द्रव्यभूतस्य वा द्रव्यहेतोर्वा । द्रव्यप्रत्याख्यानं निहत्रादीनां वा सर्वमपि || ३५०३ ।। ३ भिक्षादानमदित्था प्रतिषेधो रोगिण इव क्रियायाः । सिद्धं प्रत्याख्यातो यथा रोगी सर्ववैद्यैः ।। ३५०४ ।।
For Personal and Private Use Only
1001
बृहद्वृत्तिः ।
॥१३१९॥
Page #122
--------------------------------------------------------------------------
________________
विशेषा.
॥१३२०॥
भावस्म भावओ भावहेउमह भाव एवं वाभिमयं । पच्चक्खाणं दुविहं तं सुयमिह नोसुयं चेव ॥ ३५०५ ॥
बृहद्वृत्तिः । पुव्वं नोपुव्वसुयं पच्चक्खाणं ति पुव्वसुयमुत्तं । आउरपच्चक्खाणाइयं च नोपुव्वसुयमुत्तं ॥ ३५०६ ॥ नोसुयपच्चक्खाणं मूलुत्तरगुणविहाणओ दुविहं । सव्वे देसे य मयं इह सव्वं सव्वसदाओ ॥ ३५०७ ॥
व्याख्या -भावस्य सावधयोगपरिणामस्य प्रत्याख्यानं भावप्रत्याख्यान, भावतो वा शुभपरिणामोत्पादात् प्रत्याख्यानं भावपत्याख्यानम्, भावहेतोर्वा सर्वकर्मक्षयार्थ, भाव एव वा सावद्ययोगविरतिलक्षणे प्रत्याख्यानं भावप्रत्याख्यानमभिमतम् । तच्च द्विविधम् - भुतभावप्रत्याख्यानम् , नोश्रुतभावप्रत्याख्यानं चेति । श्रुतभावप्रत्याख्यानं पुनरपि द्विविधम् -'पुच्वं ति' पूर्वश्रुतप्रत्याख्यानम्, 'नोपुच्चसुयं ति' नोपूर्वश्रुतप्रत्याख्यानं चेति। तत्र पच्चक्खाणं वि' इहैकदेशेन समुदायस्य गम्यमानत्वाद् यत् प्रत्याख्यानसंज्ञितं । नवमं पूर्व तत् पूर्वश्रुतप्रत्याख्यानमुक्तम् , आतुरप्रत्याख्यानादिकं तु श्रुतं नोपूर्वश्रुतप्रत्याख्यानमुक्तम्, तस्य पूर्वगतबाह्यत्वेन पूर्वश्रुतत्वायोगादिति । यत्तु श्रुतनिषेधरूपं नोश्रुतमत्याख्यानं तदपि मूळोत्तरगुणविधानाद् मूलोत्तरगुणभेदाद् द्विविधम् मूलगुणप्रत्याख्यानम् , उत्तरगुणप्रत्याख्यानं चेत्यर्थः । इदमप्येकै द्विविधं पतम्-सर्वतो देशतश्च । इह च सर्व सर्वमूलगुणप्रत्याख्यानं सर्वोत्तरगुणप्रत्याख्यानं चाधिकृतम् । कुतः ? इत्याह-सव्वसद्दाउ त्ति' 'सव्वं सावजं जोग' इत्यत्र सर्वशब्दोपादानादित्यर्थः ॥३५०५॥३५०६॥३५०७॥ ___ अथ 'यावज्जीवया' इति पदं व्याचिख्यासुराहजीवो त्ति जीवणं पाणधारणं जीवियं ति पजाया । गहियं न जीवदव्वं गहियं वा पजयविसिढे ॥३५.८॥
इह 'यावज्जीवो यस्यां प्रत्याख्यानक्रियायां सा यावज्जीवा तया सर्व सावा योग प्रत्याख्यामीति किलायमर्थोऽभिप्रेत इति । जीव इति किमुच्यते ? इत्याह--जीवनमिति, जीवनं पाणधारणं जीवितमिति च पर्यायाः । यथाश्रुतसंबन्धेन तु 'जीवति' इति जीव इति जीवद्रव्यमिह न गृहतिम्, वक्ष्यमाणदोषसंभवात् । गृहीतं वा जीवद्रव्यमपि । किं निर्विशिष्टम् । नेत्याह-पर्यायविशिष्टम् -
१ भावस्य भावतो भावहेतोरथ भाव एव वाभिमतम् । प्रत्याख्यानं द्विविधं तत् श्रुतमिह नोश्रुतं चैव ।। ३५०५ ।। पूर्व नोपूर्वश्रुतं प्रत्याख्यानमिति पूर्वश्रुतमुक्तम् । आतुरप्रत्याख्यानाविकं च नोपूर्वश्रुतमुक्तम् ॥ ३५०६ ।। नोश्रुतप्रत्याख्यानं मूलोत्तरगुणविधानतो द्विविधम् । सर्वतो देशतश्च मतमिह सर्व सर्वशब्दात् ॥ ३५०७ ॥
॥१३२०॥ २ जीव इति जीवनं प्राणधारणं जीवितमिति पर्यायाः । गृहीतं न जीवद्रव्यं गृहीतं वा पर्यायविशिष्टम् ।। ३५०८ ॥
JanEducational
For Personal and Price Use Only
Page #123
--------------------------------------------------------------------------
________________
विशेषा
॥१३२९॥
इहथवजीवितपर्यायविशेषितमित्यर्थ:-यावदिहभवजीवितविशिष्टो जीवस्तिष्ठति तावत् स्यास्याम्यहम्, न विहभवजीवितेऽपगत इति भावः ॥ ३५०८।।
जीवद्रव्यग्रहणे तु को दोष: स्यात् ? इत्याहईहरा जीवजीवं ति जीवदव्वग्गहणे मयस्सावि । पच्चक्खाणं पावइ गहियमओ जीवियं तं च ॥ ३५०९ ॥
इतरथा 'यावज्जीवस्' इत्यत्राविशेषितजीवग्रहणे मृतस्यापि प्रत्याख्यानं मामोति, अविशेषितजीवद्रव्यस्य सर्वदैव भावात् । अतो जीवशब्देन जीवितमिह गृहीतम् । तच्च नामादिभेदभिन्नमित्युत्तरेण संबन्ध इति ॥ ३५०९ ॥
सानेव जीवितस्य नामादिभेदानाहनाम ठवणा दविए ओहे भव तब्भवे य भोगे य । संजम-जसम-संजमजीवियमिइ तविभागोऽयं ॥३५१०॥
नामजीवितम्, स्थापनाजीवितम्, द्रव्यजीवितम्, ओघजीवितम्, भवजीवितम्, तद्भवजीवितम्, भोगजीवितम्, संयमजीवितम्, यशाजावितम्, असंयमजीवितम्, इत्येप तस्य जीवितस्य विभागो भेदः ॥ इति द्वारगाथासंक्षेपार्थ इति ॥३५१०॥
अत्र नाम-स्थापनाजीविते सुगमे, अतो द्रव्यजीवितस्वरूपं विवरीषुराहदैव्ये हिरण्ण-भेसज्ज-भत्त-पुत्ताई जीवियनिमित्तं । जं दवजीवियं तं दव्वस्स व जीवियमवत्था ॥ ३५११॥
'दब्वे त्ति' द्रव्यजीविते विचार्ये तद् द्रव्यजीवितं, यत् किम् ? इत्याह-'जति' यत् कनक-भेपज-भक्त-पुत्रादिकं जीवितनिमित्तं जीवितोपष्टम्भकारकम् । अथवा, सचित्ता वित्तभेदभिन्नस्य द्रव्यस्यैव ययाऽवस्थया 'जीवति पारदः' 'जीवति विपम्' 'जीवत्यभ्रकम्' 'जीवति लोहम्' इत्येवं ताम्र-सुवर्णादिष्वपि वाच्यम्, 'न पुनरेतदद्यापि मृतम्' इत्यादिव्यपदेशः प्रवर्तते सा विशिष्टा काचिदवस्था द्रव्यजीवितमुच्यत इति ।। ३५११ ॥
१ इतरथा यावजीवमिति जीवद्रव्यग्रहणे मृतस्यापि । प्रत्याख्यानं प्राप्नोति गृहीतमतो जावितं तच ।। ३२०९ ।। २ नाम स्थापना द्रव्यमोघो भवस्तद्भतश्च भोगश्च । संयम-यशो-संयमजीवितमिति तद्विभागोऽयम् ।। ३५१०॥ ३ द्रव्ये हिरण्य-भैषज्य-भक्त-पुत्रादि जीवितनिमित्तम् । यद् द्रव्यजीवितं तद् द्रव्यस्य वा जीवितमवस्था ।। ३५११ ।।
॥१३॥
१६६
Per Personal and
Use Only
Page #124
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वृत्तिः ।
॥१३२२॥
अथौघ -- भवजीवितयोविवरणमाह - आउस्सद्दब्बतया सामन्नं पाणधारणमिहोहो । भवजीवियं च उद्धा नेरइयाईण जावत्था ॥ ३५१२ ॥
आयुष आयुमात्ररूपस्य कर्मणः संबन्धीनि यानि सन्ति जीवस्य सत्तावर्तीनि द्रव्याणि तान्यायुःसद्व्याणि तद्भाव आयु:सद्व्यता तयाऽऽयुःसद्रव्यतया संसारे परिभ्रमतो जीवस्य यत् सामान्य माणधारणं यदाश्रित्य सिद्धा एच मृता उच्यन्ते, न संसारिणः, तदिह संसारिणां जीवितसामान्यमात्ररूपमोघ ओघजीवितमुच्यत इति । भवन्ति प्राणिनोऽस्मिन्निति भवः संसारस्तत्रावस्थितिहेतु भूतं भवानीवितम्, तच्चतुर्धा । किं पुनस्तत् ! इत्याह-नारकादीनां या जन्मनः प्रथमसमयाचरमसमयं यावदवस्थाऽवस्थितिरवस्थानं तद्धतुत्वात् सा भवजीवितमिति ॥ ३५१२ ॥ तद्भवजीवितं भोगजीवितं चाह
तब्भवजीवियमोरालियाण जं तब्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥ ३५१३ ॥ पुनः पुनस्तत्रैव विवक्षिते भवे उत्पन्नास्तद्भवोत्पमास्तेषां तद्भवोत्पन्नानां यज्जीवितं तत् तद्भवजीवितमुच्यते । तच्चौदारिकशरीरिणां तिर्यग् मनुष्याणामेवावगन्तव्यम् । तत्रैकेन्द्रियाणां पुनः पुनस्तत्रैवै केन्द्रियभव उत्पद्यमानानामनन्तानि भवग्रहणान्येतदुत्कृष्टतो. ऽवसेयम् । द्वीन्द्रियाणां तु संख्यातानि भवग्रहणानि । पञ्चेन्द्रियतिरश्वां मनुष्याणां च सप्ताष्टौ चा भवग्रहणानीति मन्तव्यम् । जघन्यतस्तु सर्वत्र द्वे भवग्रहणे । चक्रियशरीरिणां तु देव-नारकाणामिदं न संभवत्येव, पुनः पुनस्तत्रैवोत्पत्यभावादिति । चक्रधरादीनां तु भोगपुरुषाणां सुरवराणां च देवानां जीवितं भोगजीवितामिति ॥ ३५१३ ॥
शेषजीवितानि तु त्रीण्याहसेंजमजीवियमिसीणं असंजमजीवियमविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगम्मि ॥३५१॥
१ आयुःसध्यतया सामान्य प्राणधारणमिहोघः । भवजीवितं चतुर्धा नैरायिकादीनां यावस्था ॥ ३५१२ ॥ २ तद्भवजीवितमौदारिकाणां यत् तद्भवोपपन्नानाम् । चक्रधरादीनां भोगजीवितं सुरवराणं च ।। ३५१३ ॥ ३ क. ग. ज. 'रंगणाणं'। ४ संयमजीवितमूषीणामसंयमजीवितमविरतानाम् । यशाजीवितं यशोनामतो जिनादीनां लोके ।। ३५१४ ॥
॥१३२२॥
Page #125
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वतिः
१३२३॥
पाठसिद्धा, नवरं 'इसीणं ति' ऋषीणां यतीनामिति । 'जसनामउ ति' यशोनामकर्मोदयादित्यर्थः ॥ ३५१४ ॥ नन्वेषां मध्यात् किं जीवितमिहाधिकृतम् ? इत्याहनरभवजीवियमहिगयं विसेसओ, सेसयं जहाजोगं । जावज्जीवामि तयं ता पच्चक्खामि सावज ॥ ३५१५ ॥
भवजीवितरूपं नरभवजीवितं मनुष्यभवजीवितं विशेषतोऽत्राधिकृतम्, मनुष्याणामेव चारित्रसामायिकाधिकारात, शेषं नामादिजीवितं यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयम् । ततश्च स एव मनुष्यः प्रतिजानीते-यावदनेन नरभवजीवितेन जीवामि. तावत् तकं सावद्ययोगं प्रत्याख्यामीति ॥ ३५१५ ।। __ अथवा, यावच्छब्दस्यार्थमाहजावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीव जीवणपरिमाणं जत्तियं मि त्ति ॥ ३५१६ ॥ जावज्जीवमिहारेण मरणमज्जायओ न तं कालं । अवधारणे वि आवज्जीवणमेवेह न ओ परओ ॥ ३५१७ ॥
व्याख्या- इह यावदयं शब्दनिष्वर्थेषु वर्तते; तद्यथा-पस्मिाणे, पर्यादायाम्, अवधारणे चेति। तत्र परिमाणार्थ तावदाहयावज्जीवमिति । किमुक्तं भवति । यावद् मे जीवनपरिमाणमिहभवायुष्कस्य परिमाणं तावन्तं कालं प्रत्याचक्ष इति । मर्यादार्थमाइयावज्जीवमित्यादि । अत्र यावज्जीवमिनि किमुक्तं भवति । आरेण मरणमर्यादाया अर्वा प्रत्याचक्षे, न पुनस्तत्कालं प्रत्याख्यान| ग्रहणकाल एव, किन्तु मरणसीमां यावत प्रत्याख्यामीति । अवधारणेऽपि - यावदिहभवजीवितं तावदेव प्रत्याचक्षे, न तु परतः, देवाद्यवस्थायामविरतत्वे प्रत्याख्यानभङ्गप्रसङ्गात् । 'परतो मुत्कलम्' इति विधिरपि न कर्त्तव्यः, भोगाशंसादोषानुषङ्गादिति स्वयमेव द्रष्टव्यमिति ।। ३५१६ ।। ३५१७ ।।
अत्राक्षेप-परिहारावाह--
१ नरभवजीवितमधिगतं विशेषत:, शेषकं यथायोगम् । यावजीवामि तत् तावत् प्रत्याख्यामि सावद्यम् ।। ३५१५ ।। २यावदयं परिमाणे मर्यादायामवधारण चेति । यावर्जवं जीवनपारमाणं यावद् मे इति ।। ३५१६।।। यावजीवमिहारण मरणमर्यादात्तो न तत्कालम् । अवधारणेऽपि यावजीवन मेवेह न तु परतः ॥३५१७॥
१३२३॥
For Personal
use only
Page #126
--------------------------------------------------------------------------
________________
विशेषा०
हदृचि।
॥१३२४॥
जावजीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पच्चयओ वा जा जावज्जीवया ताए ॥ ३५१८ ॥
ननूक्तन्यायेन यावज्जीवमिति निर्देश प्राप्ते 'यावज्जीवया' इति निर्देशः किमर्थं भगवता सूत्रकृता विहितः ?' इति शेषः । अत्र परिहारमाह-'लिंगवचासो तिलिङ्गव्यत्ययोऽत्र भगवतोऽभिमतः, तनेत्थं निर्देशः कृत इत्यर्थः। अथवा, यावज्जीवशब्दाद् भावमत्यय उत्पाद्यते, ततश्चेत्थं भावप्रत्यये उत्पादिते या 'यावज्जीवता' इति निष्पद्यते, तया यावज्जीवतया 'प्रत्याख्यामि' इति संबध्यत इति ॥ ३५१८॥
नन्वित्थमपि 'यावज्जीवतया' इति प्राप्ते 'यावज्जीवया' इति कथं भवति ? इत्याह - जावजीवतया इति जावजीवाए वण्णलोवाओ। जावजीवो जीसे जावज्जीवाहवा सा उ ॥ ३५१९ ॥
'यावज्जीवतया' इति निर्देश प्राप्ते यत् 'यावज्जीवया' इत्युक्तम्, तत् तकारलक्षणवर्णलोपादिति द्रष्टव्यम् । तृतीयं परिहारमाह-अथवा, जीवनं जीवो यावज्जीवो यस्यां सा यावज्जीवति बहुव्रीहिस्तया 'यावज्जीवया' इत्येवं द्रष्टव्यमिति ।। ३५१९ ।।
अत्र विनेयपृच्छामुत्तरं चाहका पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएऽहं पञ्चक्खामीति सावजं ॥ ३५२० ॥
का पुनः पूर्वोक्तबहुव्रीहावन्यपदार्थे संबध्यते ? इत्याह-प्रत्याख्यानक्रियेति । तया यावज्जीवया प्रत्याख्यानक्रियया सर्व सावद्ययोगमहं 'प्रत्याख्यामि' इति संबन्ध इति ॥ ३५२०॥
परिहारान्तरमाइजीवणमहवा जीवा जावज्जीवा पुग व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥३५२१॥
१ यावज्जीवं प्राप्ते 'यावजीवया' लिङ्गव्यत्यासः । भावप्रत्ययतो वा या यावज्जीवता तया ।। ३५१८ ।। २ यावज्जीवतयेति 'यावज्जीवया' वर्णछोपात । यावजीवो यस्यां यावज्जीवाऽथवा सा तु ।। ३५१९॥ ३ का पुनः सा संबध्यते प्रत्याख्यानक्रिया तया सर्वम् । यावजीवयाऽई प्रत्याख्यामीति सावद्यम् ॥ ३५२०॥ ४ विनमथवा जीवा यावजीचा पुरेव साया । तया प्राकृतवचने यावज्जीवया तृतीयेयम् ।। ३१२१ ।।
8॥२३२४॥
For Personal
use only
MAayo
Page #127
--------------------------------------------------------------------------
________________
विशेषा
१३२॥
अथवा, जीवनं जीवेति स्त्रीलिङ्गाभिधायक एवायं शब्दः साध्यते, न तु जीव इति पुंलिङ्गाभिधायकः । ततश्च यथा पुरा पूर्व तथात्राप्यर्थ वाप्यर्थत्रयवृत्तिना यावच्छब्देन सह समासे सा यावज्जीवा ज्ञेया नद्यथा-यावत्परिमाणा जीवा यावज्जीवाएवं मर्यादा-ऽवधारणयोरपि समासः कार्यः, तया यावज्जीवया प्रत्याख्यामिः प्राकृतवचने च पर्यन्त एकारनिर्देशेन तृतीयेयमवसेयेति ॥ ३५२१ ।। __ अथ 'त्रिविधं त्रिविधेन' इत्यस्य व्याख्यानार्थमाहपच्चक्खामि त्ति मओ उत्तमपुरिसेगवयणओ कत्ता। तिणि विहा जस्स तओ तिविहो जोगो मओऽहिगओ॥३५२२॥ तं तिविहं बिइयाए पच्चक्खेयमिह कम्मभावाओ । तिण्णि विहा जस्स तयं तिविहं तिविहेण तेणं ति ॥३५२३॥
व्याख्या-इह 'प्रत्याख्यामि' इति वर्तमानाया उत्तमपुरुषैकवचननिर्देशात् कर्ताऽभिमतः । तिम्रो विधा विधानानि भेदा यस्य तकोऽसौ त्रिविधो मनो वाक्-कायव्यापारलक्षणो योग इहाधिकृतो मन्तव्य इति । तं त्रिविधं योगमिह सूत्रे प्रत्याख्येयत्वेन कर्मभावाद् द्वितीयया विभक्त्या 'निर्दिशति' इति शेषः । तदनेन 'त्रिविधम्' इति व्याख्यातम् । अथ 'त्रिविधेन' इति व्याचिख्यासुराह-'तिण्णी त्यादि' तिस्रो विधा भेदा यस्य तत् त्रिविधं 'करणम्' इति गम्यते, तेन त्रिविधेन करणेन 'प्रत्याख्यामि' इति प्रक्रमः ॥३५२२॥३५२३॥
ननु 'तेन' इत्येतावन्मात्रनिर्देशात् 'करणेन' इति कथं लभ्यते ? इत्याह-- तेणेति साधकतमं करणं तइयाभिहाणओऽभिमयं । केण तिविहेण भणिए मणेण वायाए काएणं ॥३५२४॥
'तेन' इति तृतीयाविभक्त्यभिधानात् साधकतमं करणमाभिमतम् । अतस्तेन 'त्रिविधेन करणेन' इत्यनन्तरगाथायां व्याख्यातम् । केन पुनस्त्रिविधन करणेन ? इति विनेयेन भणिते पृष्टे सति सूत्रावयवमाह-'मणेण वायाए कारणं' इति ॥३५२४॥
अत्र मनाकरणव्याख्यानमाहमैणणं व मन्नए वाऽणेण मणो तेण दव्वओ तं च । तज्जोग्गपोग्गलमयं भावमणो भण्णए मंता ॥३५२५॥
१ प्रत्याख्यामीति मत उत्तमपुरुषैकवचनतः कर्ता । तिस्रो विधा यस्य सकस्त्रिविधो योगो मतोऽधिकृतः ॥ ३५२२ ।।
तत् त्रिविधं द्वितीयया प्रत्याख्येयमिह कर्मभावात् । तिम्रो विधा यस्य तत् त्रिविधं त्रिविधेन तेनेति ॥३५२३।। २ तेनति साधकतमं करणं तृतीयाभिधानतोऽभिमतम् । केन त्रिविधेन भणिते मनसा वाचा कायेन ॥३५२४|| ३ मननं वा मन्यते वानेन मनस्तेन द्रव्यतस्तव । तद्योग्यपुगळमयं भावमनो भण्यते मन्ता ॥३५२५।।
॥१३२५
For Personal and Price Use Only
Page #128
--------------------------------------------------------------------------
________________
विशेषा ०
॥१३२६ ॥
Jain Education h
'मन ज्ञाने' 'मनु बोधने' वा, मननम्, मन्यते वाऽनेनेति मनस्तेन मन उच्यते । तच्च द्रव्यतो द्रव्यमनस्तद्योग्यपुद्गलमयं द्रष्टव्यम् । भावमनस्तु मन्ता जीवो भण्यते । इदमुक्तं भवति-मनो द्विविधम्-द्रव्यमनः, भावमनश्च । तत्र यत् तद्योग्यैर्मननयोग्यैर्मनो वर्गणाभ्यो गृहीतैरनन्तेः पुद्गलैर्निर्वृत्तं तद् द्रव्यमनो भण्यते । यत्तु तज्जन्यं मननं चिन्तनं तद् भावमनोऽभिधीयते, इह तु तदव्यतिरिक्तत्वाद् मन्ता rial भावनस्त्वेनेोक्त इति ॥ ३५२५ ॥
वाक्करणमाह
ari वागुच्चए वाsee त्ति वायत्ति दव्वओ सा य । तज्जोग्गपोग्गला जे गहिया तप्परिणया भावो ॥३५२६ ॥ वचनं वारा, उच्यते वाऽनयेति वाग् । सा च द्रव्यतो द्रव्यवागतद्योग्या भावयोग्या भाषावर्गणाभ्यो गृहीताः पुगळा इति । ये तु तत्परिणता भाषात्वेन परिणता उच्यमानाः पुद्गलाः सा भावो भाववागिति ||३५२६ ||
कायकरणमाह
जीवरस निवासाओ पोग्गलचयओ य सरणधम्माओ । काओऽवयवसमाहाणओ य दव्व-भावमओ || ३५२७॥ तज्जोग्गपुग्गला जे मुक्का य पओगपरिणया जाव । सो होइ दव्वकाओ बद्धा पुण भावओ काओ || ३५२८ ॥
व्याख्या- 'चिव् चयने' इति धातोश्चयनं कायः चीयतेऽनेनेति वा कायो निवास- चिति-शरीरो-पसमाधानेषु, “आदेश कः” इत्यनेनादेरिह ककारः, अत एवाह - जीवस्य काये निवासात्, पुद्गलानां चयात्, प्रतिक्षणं च विशरणधर्मकत्वात् शिर-उरो बाहा द्यवयवानामिह सम्यगाधानाच्च कत्वविधानहेतवो निवासादयोऽर्था मन्तव्याः । स च कायो द्रव्य भावमयो बोद्धव्यः - द्रव्यकायः, भाव कायश्चेत्यर्थः । तत्र य औदारिकादिवर्गणागतास्तद्योग्या औदारिकादिकाययोग्या औदारिककायपरिणतेरभिमुखतां प्राप्ता जीवेन पुनरद्याप्यगृहीताः पुद्गलाः स द्रव्यकायः, न केवलं त एव, किन्तु य औदारिकादिकायरूपतया परिणमय्य जीवेन मुक्तास्त्यक्ताः
१ वचनं वागुच्यते वाऽनयेति वागिति द्रव्यतःः सा च । तद्योग्यपुद्गला ये गृहीतास्तत्परिणता भावः || ३५२६ ||
२ जीवस्य निवासात् पुगलचयतश्च शरणधर्मात् कायोऽवयवसमाधानतश्च द्रव्य भावमयः || ३५२७॥
योग्यपुद्गला ये मुक्ताश्च प्रयोगपरिणता यावत् । स. भवति द्रव्यकायो बद्धाः पुनर्भावतः कायः ॥ ३५२८ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥१३२६ ॥
Page #129
--------------------------------------------------------------------------
________________
विशेषा०
॥१३२७॥
Jain Educationa h 1661
पुद्गलाः सोऽपि द्रव्यकायो भवति । किं सर्वदा ? । नेत्याह- यावत् प्रयोगपरिणता यावत्तं जीवप्रयोगपरिणामं न मुञ्चन्तीत्यर्थः । तं च जीवमयोगपरिणामं ते मुक्ताः पुद्गला जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतस्त्वसंख्येयं कालं न मुञ्चन्ति ततः परं त्ववश्यं परित्यजन्ति तमि ति । ये पुनर्जीवेन बद्धा औदारिकादिकायपरिणतिमापन्नाः पुद्गलास्ते भावतः कायो भावकाय इत्यर्थः || ३५२७॥३५२८॥
तदेवं मनःप्रभृति त्रिविधं करणं व्याख्याय प्रस्तुतयोजनामाह -
"तेण तिविहेण मनसा वाया कारण किं तयं तिविहं । पुव्वाहिगयं जोगं न करेमिच्चाइ सावज्जं ||३५२९ ॥
तेन यथेाक्तस्वरूपेण त्रिविधेन करणेन मनसा वाचा कायेन मनो वाक-काय लक्षणेनेत्यर्थः । किम् ? अत आह-तकं पूर्वाधिकृत त्रिविधं सावयं योगं न करोमीत्यादि संबध्यते न करेमि, न कारवेमि, करंतंपि अल्णं ण समजुजाणामि, इति संबध्यत इत्यर्थः ॥ ३५२९ ॥
अथवा, अन्यथा संबन्धयन्नाह -
पुव्वं व जमुद्दिनं तिविहं तिविहेण तत्थ करणरस । तिविहन्तणं विवरीयं मणेण वायाए कारणं ॥ ३५३० ॥ तिविहमियाणि जोगं पञ्चक्खयमणुभास सुतं । किं पुणरुक्क मिऊणं जोगं करणस्स निद्देसो ? ॥३५३१॥ तो न जहुद्देसं चिय निद्देसो भण्णए निसामेहि । जोगस्स करणततोवदरिसणत्थं विषज्जासो ॥३५३२॥ देसियमेवं जोगो करणवसो निययमप्पहाणो ति । तब्भावे भावाओ तदभावे वप्पभावाओ ॥ ३५३३ ॥ व्याख्या - अथवा, पूर्व सूत्रे यदुद्दिष्टं 'त्रिविधं त्रिविधेन' इति, तत्र करणस्य त्रिविधत्वम् – 'पणेणं, वायाए, कापणं' इति सूत्रगतेनैवावयवेन विवृतं व्याख्यातमिति । इदानीं तु त्रिविधं प्रत्याख्येयं योगं सूत्रमनुभाषते विवृणोति - ' न करेमि, न कारवेमि'
१ तेन त्रिविधेन मनसा वाचा कायेन किं तत् त्रिविधम् । पूर्वाधिकृतं योगं न करोमीत्यादि सावद्यम् ।। ३५२९ ।। २ पूर्व वा यदुद्दिष्टं त्रिविधं त्रिविधेन तत्र करणस्य । त्रिविधत्वं विवृतं मनसा वाचा कायेन || ३५३० ।। त्रिविधमिदानीं योग प्रत्याख्येयमनुभाषते सूत्रम् । किं पुनरुत्क्रम्य योग करणस्य निर्देश: ? ।। ३५३१ ।। ततो न यथोद्देशमेव निर्देशो भण्यते निशमय । योगस्य करणतन्त्रोपदर्शनार्थ विपर्यासः || ३५३२ ।। देशितमेवं योगः करणवशो नियतमप्रधान इति । तद्भावे भावात् तदभावे वाप्यभावात ।। ३५३३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३२७॥
janelbrary.org
Page #130
--------------------------------------------------------------------------
________________
विशेषा
॥१३२८॥
इत्यादिनैव सूत्रावयवेन । अत्राह पर:- ननु यद्येवम्, तर्हि किं पुनः कारणम्, येन योगमुत्क्रम्यातिलङ्घच करणस्य प्रथमं निर्देश कृतः । उद्देशकाले हि प्रथमं 'त्रिविधम्' इत्युदेशाद् योग एव प्रथममुद्दिष्टः, तदनन्तरं 'त्रिविधेन' इत्यभिधानात् पश्चात् करणस्योद्देशः कृतः । एवं च सति 'यथोदेशं निर्देशः' इति न्यायादिह निर्देशोऽपि प्रथमं योगस्य, पश्चात् करणस्य पामोति, तद्यथा-'न करेमि, न कारवेमि, करतं पि अण्णं ण समणुज्जाणामि मणेणं वायाए कारणं' इति । न चैवं निर्दिष्टम्, व्यत्ययाभिधानादिति । 'तो त्ति' ततो न यथाद्देशमेव निर्देशोऽत्र संजातः, तत् किमत्र कारणमिति वाच्यम् ? । गुरुराह-निशमयाकर्णय, मण्यतेऽत्र कारणम्-करणादिलक्षणस्य योगस्य करणतन्त्रोपदर्शनार्थ मनो-वाक् कायलक्षणकरणायत्ततोपदर्शनार्थमयं व्यत्यासः कृत इति । एतदेव भावयति-देशितमुपदिष्टमेवं व्यत्यासकरणेन भगवता सूत्रकना-योऽयं करणकरणादिव्यापारलक्षणो योगः स मनःप्रभृतिकरणवशस्तदायत्त इति नियतं निश्चितं स्वयमप्रधानः, तद्भावे करणभाव एव भावात्, तदभावेऽपि च करणाभावेऽवश्यमभावादिति ॥३५३०॥३५३१॥३५३२।।३५३३॥
किमिति योगः करणभाव एव भवति, तदभावे तु न भवति ? इत्याहतस्स तदाधाराओ तकारणओ य तप्परिणईओ। परिणतुरणथंतरभावाओ करणमेव तओ ॥ ३५३४ ॥
तस्य योगस्य तदाधारत्वात् करणाधारत्वात्, तथा, तद् मनःप्रभृति करणमेव कारणं यस्य स तत्कारणस्तद्भावस्तत्वं तस्मात् , कारणत्वात् तस्य योगस्य, तथा, तत्परिणतित्वात् करणपरिणतिरूपत्वात् तस्य तथा, परिणन्तुः करणस्याऽनर्धान्तरत्वादनन्यत्वात् तस्य, यतः करणमेव तकोऽसौ योगः, ततस्तदात्मकत्वात् तद्भाव एव भवति, तदभावे तु न भवति । आह-यद्येवम्, उद्देशोऽप्येवं कस्माद् न कृतः १ । उच्यते-योगस्यापि प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थमिति । तदेवं योगस्य करणात्मकत्वं दर्शितम् ॥३५३४॥
अथ करण-योगयोः पुन: समुदितयोर्जीवात्मकत्वं दर्शयन्नाहऐतो च्चिय जीवस्स वि तम्मयया करण-जोगपरिणामा । गम्मइ नयंतराओ कयाइ, समए जओऽभिहियं ॥३५३५॥
यत एव परिणन्तुः परिणामोऽनर्थान्तरमुक्तम्, अत एव जीवस्यापि तन्मयता स्वपरिणामरूपकरणयोगात्मता गम्यते । कुत इत्याह-'करणजोगपरिणाम त्ति' करणं च योगश्च करण-योगौ तौ परिणामः स्वभावौ यस्यासौ करणयोगपरिणामस्तद्भावस्तत्वं
१ तस्य तदाधारात् तत्कारणतश्च तत्परिणांततः । परिणन्तुरनान्तरभावात् करणमेव सकः ।। ३५३४ ।। २ एतस्मादेव जीवस्यापि तन्मयता करणयोगपरिणामात । गम्यते नयान्तरात् कदाचित् , समये यतोऽभिहितम् ।। ३५३५ ॥
॥१३२८॥
Page #131
--------------------------------------------------------------------------
________________
S
विशेषा.
॥१३२६॥
तस्मात् करण योगपरिणामत्वाज्जीवस्य । स हि करण-योगपरिणामेन परिणपति । परिणामश्च परिणन्तुरनन्तरम् । अतः करणयोगात्मता जीवस्य गम्यते, कदाचित् कथाश्चिद् नयान्तराद् निश्चयलक्षणं नयान्तरमाश्रित्येति यतः समये सिद्धान्तेऽभिहितम् ॥३५३५॥
किम् ? इत्याह-- आया चेव अहिंसा आया हिंस त्ति निच्छओ एस । जो होइ अप्पमचो अहिंसओ, हिंसओ इयरो ॥३५३६॥
इहात्मा मनःप्रभृतिना करणेन हनन-घातना-ऽनुमतिलक्षणां हिंसां तन्नित्तिरूपामहिंसां च करोतीति व्यवहारः । अस्यां च गाथायां निश्चयनयमतेनात्मैव हननादिलक्षणा हिंसा, स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।। ३५३६ ॥
अत्र परप्रेयमाशय परिहरबाहआहेगत्ते कत्ता कम्मं करणं ति को विभागोऽयं । भण्णइ पज्जायंतरविसेसणाओ न दोसो त्ति ॥३५३०॥
आह परः-नन्वेवं त्रितयस्याप्येकत्वे कर्ता, कर्म, करणं चेति को विभागः ?-को भेदः । भण्यतेऽत्रोत्तरम्-पर्यायान्तरेण विशेषणं पर्यायान्तरविशेषणं तस्माददोषः । इदमुक्तं भवति-एक एव कर्ताऽऽत्मा व्यतिरिक्तैः कथञ्चिद् भिन्नैः कर्म-करणादिपर्यायान्तरैविशिष्यत इति नोक्तदोष इति ॥ ३५३७ ।।
पूर्व भावितमपीदं पुनरपि स्मारयन्नाहएक पि सव्वकारगपरिणामाण्णन्नभावयामेइ । नाया नाणाणनो जह विष्णेयाइपरिणामं ॥ ३५३८ ॥
एकमपि घटादिकं वस्तु सर्वकारकपरिणामलक्षणमन्यान्यभावतामन्यान्यरूपतामेति, यथा ज्ञाता जीवो ज्ञानानन्यः सन् विज्ञेयादिपरिणाममेति । स एव हि स्वज्ञान उपयुज्यमानः कर्ता, करणभूतज्ञानानन्यत्वात् स एव च करणं, स्वयं संवेद्यमानस्तु स एव विज्ञेय इति सविस्तरेण प्रागुक्तमिति ।। ३५३८ ।।
१ आत्मैवाहिंसाऽऽत्मा हिंसेति निश्चय एषः । यो भवत्यप्रमत्तोऽहिंसकः, हिंसक इतरः ।। ३५३६ ।। २ आहैकत्वे कर्ता कर्म करणमिति को विभागोऽयम् ।। भण्यते पर्यायान्तरविशेषणाद् न दोष इति ।। ३५३७ ॥ ३ एकमपि सर्वकारकपरिणामानन्यभावतामेति । नात्मा ज्ञानानन्यो यथा विज्ञेयादिपरिणामम् ॥ ३५३८ ॥
॥१३२९॥
www.irnesbareण
Page #132
--------------------------------------------------------------------------
________________
विशेषाः
४१३३०॥
ननु 'सर्व सावधं योग प्रत्याख्यामि' इत्युक्तम् , का पुनरसौ सावधो योगः' इत्याहसं य सावज्जो जोगो हिंसाईओ तयं सयं सव्वं । न करोमि न कारेमि य न याणुजाणे करतपि ॥३५३९।।
स च सावधो योगो हिंसा-नृत स्तेयादिको मन्तव्यः, तकं सर्वमपि स्वयं न करोमि, न कारयाम्यन्यैः, एवं नानुजानामि कुर्वन्तमपीति ।। ३५३९ ।।
अथेदं प्रत्याख्यानं यति-गृहस्थयोदेन व्यवस्थापयशाहकरणतिगेणेकिकं कालतिगे तिघणसंखियमिसीणं । सव्वं ति जओ गहियं सीयालसयं पुण गिहीणं ॥३५४०॥
अत्र 'न करोमि न कारयामि' इत्यादिकमेकैकं योगं मनःप्रभृतिना करणत्रयेण सह कालत्रिकं चारयेत् । ततश्च त्रयाणां यो घन: सप्तविंशतिलक्षणस्तत्संख्यकं भङ्गकसंख्यामाश्रित्य तत्संख्याप्रमाणमृषीणां साधूनाम् 'अवबुध्यते' इति शेषः । कस्मात् ? इत्याहयतः 'सर्व सावा योग प्रत्याख्यामि' इति साधोः प्रत्याख्यानं गृहातम्, ततस्तत्पत्याख्यानभङ्गकानामेतत्संख्याप्रमाणता । असर्वसा वद्ययोगपत्याख्यायिना पुनहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदधिकं भङ्गकशतं विज्ञेयमिति । इयमत्र भावना-'त्रिविधं त्रिविधेन' इत्यनेन सर्वसावधयोगप्रत्याख्यानादर्थतः साधुप्रत्याख्यानस्य सप्तविंशतिर्भङ्गाः सूचिताः, ते चवं भवन्ति-यद् न करोति तद् मनसा वाचा कायेन, एवं न कारयत्यपि मनसा वाचा कावेन, एवं न समनुजानीते च मनसा वाचा कायेन, इत्येवं वर्तमानकाळे नव भङ्गा भवन्ति, एवमतीतेऽपि नव भविष्यन्ति, भविष्यत्यपि नव, इत्येवं सप्तविंशतिर्भङ्गाः साधुपत्याख्यानस्य भवन्ति । गृहिणस्तहि कथं सप्तचत्वारिंशं भङ्गकशतमिति चेत् । उच्यते-गृही सावधं योगं न करोति, न कारयति, नान्यं समनुजानीत मनसा वाचा कायेन चे. त्येको भङ्गः। अथवा, न करोति न कारयति नानुजानीते मनसा वचसा च; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च अथवा, न करोति न कारयति, नानुजानीते मनसा; अथवा, वचसा; अथवा, कायेन अथवा, न करोलि, न कारयति मनसा वाचा कायेन अथवा, न करोति नानुजानीते त्रिपिरपि करणैः। अथवा, न कारयति नानुमानीते त्रिभिरपि करणैः; अथवा, न करोति न कारयति मनसा वचसा; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च; अथवा, न करोति नानुजानीते मनसा वचसा;
१ स च सावधो योगो हिंसादिकस्तत् स्वयं सर्वम् । न करोमि न कारयामि च न चानुजानामि कुर्धन्तमपि ।। ३५३९ ॥ २ करणनि कणकैकं कालत्रिके त्रिपनसंख्यातमृषीणाम् । समिति यतो गृहीत सप्तचत्वारिंशतं पुनZहिणाम् ॥३५४०।।
॥१३३०॥
Page #133
--------------------------------------------------------------------------
________________
विशेषा०
W१३३९॥
अथवा, मनसा कायेन; अथवा, बचसा कायेन; अथवा, न कारयति नानुजानीते मनसा वचसा; अथवा, मनसा कायेन; अथवा, वचसा कायेन; अथवा, न करोति न कारयति मनसा; अथवा वचसा; अथवा, कायेन; अथवा न करोति नानुजानाति मनसा; अथवा, बचसा; अथवा, कायेन; अथवा, न कारयति मनसा अथवा वचसा; अथवा, कायेन; अथवा, न करोति मनसा वचसा कायेन; अथवा, न कारयति; अथवा नानुजानीते; अथवा, न करोति मनसा वचसाः अथवा, मनसा कायेन; अथवा वचसा कायेन; अथवा, न कारयति मनसा वचसा; अथवा, मनसा कायेनः अथवा वचसा कायेन अथवा, नानुजानीते मनसा वचसा ; अथवा, मनसा कायेन; अथवा वचसा कायेन; अथवा, न करोति मनसा ; अथवा वचसा ; अथवा, कायेन; अथवा, न कारयति मनसा ; अथवा, वचसा ; अथवा, कायेन; अथवा, नानुजानीते मनसा; अथवा वचसा; अथवा, कायेन । एवमेते वर्तमानकाल एकोनपञ्चाशद् भङ्गा दर्शिताः, एवमतीते भविष्यति च प्रत्येकमेते द्रष्टव्याः । ततः सर्वेऽपि सप्तचत्वारिंशं शतं भङ्गानां भवति ॥
अत्र चायं भावार्थ:
Jain Educationa Intemational
""तिविहं तिविहेणं पढमो तिविहं दुबिहेण बिइओ होइ । तिविहं एक्कावहेणं दुविहं तिविहेणं ति चउत्थो ॥ १ ॥ दुविहं दुविण पंचम दुविक्क बिहेण छट्टओ होइ । एक्कदुविहं तिविहेणं दुविहेण य समम ॥ २ ॥ एक्कविमेकवर्ण नवमो पढमम्मि एक्कमंगो य । सेसेसु तिन्नि तिन्नि य तिन्नि य नव नव य तह तिन्नि ॥ ३ ॥ नव नव य होंति कमसो एए सव्वे वि एगुणवन्ना | कालतिरणं गुणिया सीयालस तु भंगाणं ॥ ४ ॥ आह कहं पुण मणसा करणं कारावणं अणुमई य । नह वइ-तणुजोगेहिं करणाई तह भवे मणसा ॥ १ ॥
१ त्रिविधं त्रिविधेन प्रथमस्त्रिविधं द्विविधेन द्वितीयो भवति । त्रिविधमेकविधेन द्विविधं त्रिविधेनेति चतुर्थः ॥ १ ॥ द्विविधं द्विविधेन पश्चमो द्विविधमेकविधेन षष्ठको भवति । एकद्विविधं त्रिविधेन द्विविधेन च सप्तमाष्टमी || २ || एक विधेनैकविधेन नवमः प्रथम एकभङ्गश्च । शेषेषु त्रयस्त्रयश्च त्रयश्च नव नव च तथा त्रयः ॥ ३ ॥ नव नव च भवन्ति क्रमश एते सर्वेऽप्येकोनपञ्चाशत् । कालत्रिकेण गुणिता सप्तचत्वारिंशच्छतं तु भङ्गानाम् ॥ ४ ॥ आह कथं पुनर्मनसा करणं कारणा चानुमतिश्च । यथा वाक्-तनुयोगाभ्यां करणादि तथा भवेद् मनसा ॥ ५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १३३९॥
Page #134
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वचिः।
॥१३३२॥
तेवहीणत्ता वय-तणुकरणाईणमहव मणकरणं । साबजजोगमणणं पन्नत्तं वीयरागेहिं ॥१॥
कारवणं पुण मणसा चिंतेइ कारओ एस सावज्ज । चिंतेइ जं च करओ सुट्ठ कयं अणुमई होइ ॥ ७॥" इत्यलं विस्तरेण । तदर्थिना तु प्रज्ञप्त्यादिग्रन्थाः समनुसरणीया इति ॥ ३५४० ॥ एते च भका यस्यार्थतोऽवगताः स एव सामायिकप्रत्याख्यानकुशल इति दर्शयन्नाहसीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो सामाइयकुसलो सेसा सवे अकसला उ ॥३५४१॥ गताथा ॥ ३५४१॥ अत्र 'त्रिविधं त्रिविधेन' इति गृहस्थप्रत्याख्यानस्य प्रथमं भङ्गमाश्रित्याक्षेप-परिहारावाह'केई भणंति गिहिणो तिविहं तिविहेण त्ति संवरणं । तं न जओ निविढं पन्नत्तीए बिसेसेउं ॥ ३५४२ ॥ तो कह निप्फत्तीएऽणुमइनिसहो त्ति सो सविसयम्मि । सामण्णेणन्नत्थ ओ तिविहं तिविहेण को दोसो ? ॥३५४३॥ पुत्ताइसंतइनिमित्तमित्तमेक्कारसिं पवण्णस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहं ति ॥३५४४॥
एतास्तिस्रोऽपि पूर्वमुपोद्धाते 'किं कइविहं' इत्यादिगाथायां 'कस्य सामायिक भवति' इति द्वारे विस्तरेण व्याख्याता एव; नवरं सामान्येन स्वविषयवाहि गे चिन्तामुत्सृज्य प्रत्याख्याने क्रियमाणे नियुक्तावनुमतिनिषेध उक्तः, अन्यत्र तु विशेषतो विषयबहि. भांगे 'त्रिविधं त्रिविधन' इति न दोष इति ॥ ३५४२ ॥ ३५४३ ॥ ३५४४ ॥ अपरस्त्वाह
१ तदधीनत्वाद् वच-स्तनुकरणादीनामथवा मनःकरणम् । सावधयोगमननं प्रज्ञप्तं वीतरागैः ॥ ६॥
कारणा पुनर्मनसा चिन्तयति कारक एष सावद्यम् । चिन्तयति यच्च कुवतः सुष्ठ कृतमनुमतिर्भवति ॥ ७॥ २ सप्तचत्वारिंशं भङ्गशतं प्रत्याख्याने यस्योपलब्धम् । स सामायिककुशल: शषा: सर्वेऽकुशलास्तु ॥ ३५४१ ।। ३ केचिद् भणन्ति गृहिणत्रिविधं त्रिविधेनेवि संवरणम् । तदु न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ।। ३५४२ ।। ततः कथं निष्पत्तावनुमतिनिषेध इति स स्वविषये । सामान्येनान्यत्र तु त्रिविधं त्रिविधेन को दोषः ॥ ३५४३ ॥ पुत्रादिसंततिनिमित्तमात्रमेकादशी प्रपन्नस्य । जल्पन्ति केचिद् गृहिणो दीक्षाभिमुखस्य त्रिविधामिति ॥ ३५४४॥
॥१३३२॥
For Personal and
Use Only
Page #135
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्धतिः ।
॥१३
॥
जुत्तं संपयमिस्सं संवरणं कहमतीयविसयं तु । कहमउणवण्णभेयं कए व न कहं मुसावाओ ? ॥ ३५४५॥
युक्तं सांप्रत व्यतोः कालयोः सावद्ययोगस्य संवरणं प्रत्याख्यानम्, तयोस्तस्याद्याप्यनासेवितत्वात; अतीतकालविषयं तु : तत् कथं युक्तम, पूर्वमेव तस्यासेवितत्वात् । कथं च तदतीतसावद्ययोगप्रत्याख्यानमेकोनपश्चाशद्भेदं वक्तुं युज्यते, मूलत एवासंभवात् । । कृते वा तस्मिन्नतीतसावधपत्याख्याने कथं न मृषावादः, असद्भूतविषयत्वात् ? इति ॥ ३५४५ ॥
अत्र परिहारमाह'निंदणमईयविसयं न करोमिच्चाइवयणओऽभिहियं । अणुमइसंवरणं वातीतस्स करेमि जं भणियं ॥३५४६॥
अतीतसावद्ययोग न करोमि न कारयामि' इत्यादिवचनतोऽतीतकृतसावद्ययोगविषयं निन्दनमहमिदानी करोमीत्यभिहितम् । 'सुष्टु तदा सावद्ययोगासेवनं मया कृतम्' इत्येवंरूपाया अनुमतेर्वा संवरणं अतीतस्य सावद्य योगासेवनस्येदानीं 'करोमि' इति यद् भणितं भवति - 'न करोमि' इत्यादिनाऽतीतस्य संवरणं करोमि' इत्येतदुक्तं भवतीत्यर्थः ॥ ३५४६ ।।
परिहारान्तरमाहअहवा तयविरईओ विरमे संपयमईयविसयाओ। संपइसावज्जा इव पवजओ को मुसावाओ ? ॥ ३५४७॥
अथवा, तस्मात् सावद्ययोगादविरतिस्तदविरतिस्तस्यास्तदविरतेरतीताविषयायाः सांपतसावद्यादिव विरमामि सांप्रतमहमित्येवमतीतकालविषयपत्याख्यानं प्रपद्यमानस्य को मृषावादः ?-न कश्चिदिति ॥ ३५४७ ॥
__ आह-ननु 'न करेमि न कारवेमि न समणुजाणामि' इत्येतावतैव विवक्षितार्थसिद्धेः 'करतं पि अन्नं' इत्येतत् किमर्थमु. क्तम् ? इत्याशङ्कयाह
१ युक्तं सांप्रतै-ध्यतोः संवरणं कथमतीतविषयं तु । कथमेकोनपञ्चाशद्भदं कृते वा न कथं मृषावाद: ।। ३५४५ ।। २ निन्दनमतीतविषयं न करोमीत्यादिवचनतोऽभिहितम् । अनुमतिसंवरणं वातीतस्य करोमि यद् भणितम् ।। ३५४६ ।। ३ अथवा तदाविरतारमे सांप्रतमतीतविषयायाः । संप्रतिसावद्यादिव प्रपद्यमानस्य को मृषावादः ॥ ३५४७ ॥
१३३३॥
Jan Education
For Personal and Price Use Only
Page #136
--------------------------------------------------------------------------
________________
विशेषा०
बदत्तिः।
॥१३३४४
ने समणुजाणं ति गए करितमण्णं पि जं सुएऽभिहियं । संभावणेऽविसद्दो तदिहोभयसहमज्झत्थो ॥३५४८॥
'न करेमि न कारवेमि न समणुजाणामि' इत्येतावतैव गते सिद्धे यत् 'करेंतंपि अन्नं ' इति प्रस्तुतसामायिकश्रुतेऽभिहितम्, तदिह 'करेंतमन्नं' इत्युभयशब्दयोर्मध्यस्थो मध्ये वर्तमानोऽपिशब्दः संभावने यथा स्यादित्येतदर्थमवगन्तव्यमिति ॥ ३५४८ ॥
किं पुनरयमाधिक संभावयति ? इत्याइने करेंतं पि त्ति न कारवेंतमवि नावि याणुजाणंतं । न समणुजाणेमि न कारयामि अवि नाणुजाणामि॥३५४९॥ अण्णं पि अप्पयं पिव सहसाकाराइणा पयत्तंतं । इह सव्वो संगहिओ कत्ता-किरियापरंपरओ॥ ३४५० ॥
व्याख्या-यथाऽऽत्मानं सहसाकारादिना सावद्ययोगे प्रवर्तमानं 'मुष्ठु कृतम्' इत्येवं न समनुजानामि, किन्तु मिथ्यादुष्कृतदानादिना ततो निवर्तयामि, इत्येवं कुर्वन्तमपिशब्दात् कारयन्तमपि अनुजानन्तमप्यन्यं न समनुजानामि यथा चान्यं कुर्वन्तं न कारयामि, एवमपिशब्दात् कारयन्तमप्यन्यं न कारयामीत्याह; यथा चान्यं नानुजानामीत्येवमापशब्दादनुजानन्तमप्यन्यं नानुजानामि, इत्यादिप्रकारेण संभवन् सर्वोऽपि कर्तृ क्रियापरम्परकोऽपिशब्देनेह संगृहीत इति ॥ ३५४९ ॥ ३५५० ॥
अथवा, त्रिकालोपसंग्रहार्थमपिशब्द इति दर्शयन्नाहनै करितं वा भाणए अविसदा न कयवंतमिच्चाई । समईयमागमिस्सं तह न करिस्सं तमिच्चाई ॥ ३५५१ ॥
अथवा, 'कुर्वन्तमप्यन्यं न समनुजानामि' इति वर्तमानकालमाश्रित्य भणितेऽपिशब्दात् समतीतमपि कालमनुसृत्य तद् द्रष्टव्यम्, कृतवन्तमप्यादिशब्दात् कारितवन्तमप्यनुज्ञातवन्तप्यन्यं नानुजानामीति । तथा, आगमिष्यन्तमपि काळमङ्गीकृत्यादिशब्दादेतद् दृश्यम् , करिष्यन्तमप्यादिशब्दात् कारयिष्यन्तमप्यनुज्ञास्यन्तमप्यन्यं नानुजानामीति ।। ३५५१ ।।
8866666666666666....
१न समनुजानामीति गते कुर्वन्तमन्यमपि यत् श्रुतेऽभिहितम् । संभावनेऽपिशब्दस्तदिहोभयशब्दमध्यस्थः ॥ ३५४८ ।। २ न कुर्वन्तमपीति न कारयन्तमपि नापि चानुजानन्तम् । न समनुजानामि न कारयाम्यपि नानुजानामि।। ३५४९ ॥
अन्यमप्यात्मानामिव सहसाकारादिना प्रवर्तमानम् । इह सर्वा संगृहीता कर्तृ-क्रियापरम्परा ।। ३५६० ॥ ३ न कुर्वन्तं वा भाणितेऽपिशब्दाद् न कृतवन्तमित्यादि । समतीतमागमिष्यन्तं तथा न करिष्यन्तमित्यादि ॥ ३५५१ ।।
॥१३३५
ROOO०००००
For Personal and
Use Only
Page #137
--------------------------------------------------------------------------
________________
विशेषा
११३३५॥
अथवा, अन्यथा त्रिकालोपसंग्रह इत्याहसव्वं पञ्चक्खामि त्ति वा तिकालोवसंगहोऽभिमओ । अविसदाओ तस्सेव कत्त-किरियाभिहाणं ति ॥३५५२॥
अथवा, 'सर्व सावधयोग प्रत्याख्यामि' इत्यनेन सामान्याभिधानेन त्रिकालसंग्रहोऽभिमतः, अस्मादेव सामान्याभिधानादतीते संप्रति भविष्यति च काले सर्व सावद्ययोगं प्रत्याख्यामीति गम्यत इत्यर्थः, इदानीं तु 'करेंतं पि अन्नं' इत्यत्रापिशब्दात् तस्यैव कालत्रयस्थ संबन्धे कर्तृ क्रियाभिधानमाभिहतम्, यथा वर्तपानेकालेऽहं न करोमि, न कारयामि, कुर्वन्तमन्यं न समनुजानामि तथाऽपिशब्दादतीते भविष्यति च काले न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामीवि प्रत्येकमवगन्तव्यमिति ॥ ३५५२ ।। ___अत्राक्षेपं परिहारं चाहएवं सव्वस्सासेसविसयओऽतीयणागएK पि । पावइ सव्वनिसेहो भण्णइ तं नाववायाओ॥ ३५५३ ॥
नन्वेवमुक्तप्रकारेणातीतेऽनागते च सर्वस्मिन्नपि काले आसेवितस्यासेविष्यमाणस्य च सर्वस्यापि सावद्ययोगस्य निषेधः पामोति । कुतः ? इत्याह – 'सब्यस्सेत्यादि' सर्वस्य सर्वशब्दस्याशेषविषयत्वादशेषविषयत्वेन पूर्वमिहर व्याख्यातत्या दित्यर्थः । न चैतद् युक्तम्, अतीतसावद्ययोगस्यासेवितत्वात्, आसेवितस्य च प्रत्याख्याने सृषावादादिदोषप्रसङ्गात्, भविष्यतश्च तस्य सर्वस्यापि प्रत्याख्यानदोषानुषनादिति । भण्यतेत्रोत्तरम् -तदेतद् न पामोति । कुतः इत्याह-अपवादाव-अपवादबाधितत्वादिति ॥३५५३॥
तमेव चापवादं दर्शयतिभूयस्स पडिक्कमणाभिहाणओऽणुमइमेतमागहियं । जावज्जीवग्गहणा एस्सस्स य मरणमज्जाया॥ ३५५४ ॥
'तस्स भंते ! पडिकमामि' इत्यादिना प्रस्तुत एव सामायिकसूत्रे प्रतिक्रमणस्याभिधानतो भूतस्यातीतसावद्ययोगस्यानुमतिमात्रपेव प्रत्याख्येयत्वेनागृतीतम्, न पुनः सर्वोऽवि सावधयोगः, तदनुपतेश्च प्रत्याख्याने न कश्चिद् मृपावाद इत्यनन्तरमेव प्रागुक्तम् । यावज्जीवग्रहणात् पुनरेष्यतोऽपि सर्वसावधयोगस्य प्रत्याख्याने मरणमर्यादाऽपवादः, यावज्जीवमेव तं प्रत्याचक्षे न परत इति॥३५५४॥
१ सर्व प्रत्याख्यामीति वा त्रिकालोपसंग्रहोऽभिमतः । अपिशब्दात् तस्यैव कर्तृ-क्रियाभिधानमिति ॥ ३५५२ ॥ २ एवं सर्वस्याशेषविषयतोऽतीतानागतयोरपि । प्राप्नोति सर्वनिषेधो भण्यते तद् नापवादात् ।। ३५५३ ॥ ३ भूतस्य प्रतिक्रमणाभिधानतोऽनुमतिमात्रमागृहीतम् । यावजीवग्रहणादेष्यतश्च मरणमर्यादा ।। ३५५४ ॥
॥१३३५॥
Per Personal
Use One
Page #138
--------------------------------------------------------------------------
________________
विशेषा ० ॥१३३६॥
अथवा, अस्मिन्नेव सामायिकसूत्रे निरवशेषवचनोऽपि सर्वशब्दः प्रतिनियतत्वेन व्यवस्थापित इति दर्शयन्नाह - अहवा जावज्जीवग्गहणाओऽणागयावरोहोऽयं । संपइकालग्गहणं न करोमिच्चाइगहणाओ || ३५५५ ॥ भूयस्स पडिकमणाइणा य तेणेह सव्वसद्दोऽयं । नेओ विसेसविसओ जओ य सुत्तंतरेऽभिहियं ॥ ३५५६ ॥
व्याख्या - अथवा, सूत्र एव यावज्जीवग्रहणादनागतकालस्यायमवरोधः - सुदीर्घोऽप्यनागतकालो यावज्जीवग्रहणाद् नैयत्यविधानेन विशेषे व्यवस्थापित इत्यर्थ: । 'न करेमि न कारवेमि' इत्यादिवचनात् तु सांप्रतकालग्रहणमिति । ' तस्स भंते ! पडिक मामि' इत्यादिसूत्रावयवे च भूतस्यातीतस्य सावद्ययोगस्य प्रतिक्रमणादिना, आदिशब्दाद् निन्दा गर्हविधानेन च विशेषविषयतागर्भमती|तकालग्रहणमिति शेषः । येनैवम् तेनेह निरवशेषवचनोऽप्ययं सर्वशब्दो विशेषविषयो ज्ञेयः । ततश्च भविष्यत्कालसावद्ययोग इहजीवितभवपर्यन्त एवं निरवशेष सर्वशब्देन गृहीतः, अतीत सावद्ययोगोऽप्यनुपतिमात्रक एवं निरवशेषस्तेन क्रोडीकृत इति भावः । पूर्वमुत्सर्गतः कालत्रयगतः समस्तसावद्ययोगविषयं सर्वशब्दं कृत्वाऽपवादेन बाधा प्रोक्ता, इह तु सामायिकसूत्रे नियन्त्रणाद्वारेण प्रथमत एव देशतो निरवशेषविषयता सर्वसदस्य दर्शिता, इत्येतावन्मात्रो व्याख्याद्वयस्य विशेषोऽवसेय इति ।। ३५५५ ।। ३५५६ ।।
इत्थं चैतदङ्गीकर्तव्यम्, यतः सूत्रान्तरेऽप्यभिहितम्, किम् ? इत्याह
सेमईयं पडिक्कम पच्चु पण्णं च संवरेइति । पच्चक्खाइ अणागयमेवं इहई पि विन्नेयं ॥ ३५५७ ॥ सुबोधा, नवरमतीतप्रतिक्रमणेन तदनुमनिमात्रप्रत्याख्यानमुक्तम् । पच्चक्खाइ अणागयं' इत्यत्र 'यावज्जीवम्' इति शेषः । ततश्च देशतो निरवशेषविषयः सर्वशब्दः सिद्ध इति ।। ३५५७ ।।
'तस्स भंते !' इत्यादेर्व्याख्यानार्थमाह
Jain Educationa International
१ अथवा यावज्जीवग्रहणादनागतावरोधोऽयम् । संप्रतिकालग्रहणं न करोमीत्यादिग्रहणात् ।। ३५५५ ।।
भूतस्य प्रतिक्रमणादिना च तेनेह सर्वशब्दोऽयम् । ज्ञेयो विशेषविषयो यतश्च सूत्रान्तरेऽभिहितम् ।। ३५५६ ।। २ समतीत प्रतिक्रमति प्रत्युत्पन्नं संवृणोतीति । प्रत्याख्यात्यनागत मेवमिहापि विज्ञेयम् ।। ३५५७ ।।
For Personal and Private Use Onty
बृहद्वति
१३३६ ॥
Page #139
--------------------------------------------------------------------------
________________
विशेषा.
॥१३३७॥
तैस्स त्ति स संबज्झइ जोगो सावज एवं जोऽहिगओ। तमिति बिइयाइगारादभिधेए किमिह तस्स ति?॥३५५८॥
'तस्स' इत्यत्रासावधिकृत एव सायद्यो योगः संबध्यते । अत्र परः माह-ननु 'प्रतिक्रमामि' इति क्रियायोगतो द्वितीयाधिकारात् 'तम्' इत्यभिधेये वक्तव्ये किमिह षष्ठीनिर्देशात् तस्यान्यत्वम् ? इति ॥ ३५५८ ॥
गुरुराहसंबंधलक्खणाए छट्ठीएऽवयवलक्खणाए वा । समतीयं सावजं संबज्झावेइ न उ सेसं ॥ ३५५९ ॥
इह संबन्धलक्षणयाऽवयवलक्षणया वा षष्ठ्या समतीतकालविषयमेव सावा योगं संबन्धयति । इदमुक्तं भवति-तस्य त्रिका. लगतयोगस्य संबन्धिनं तदवयवभूतं वाऽतीतसावद्ययोगं प्रतिक्रमामीति सामान्येन संबन्धलक्षणयाऽवयवलक्षणया वा षष्ठ्या 'तस्य' इत्यत्रातीतसावद्ययोग संबन्धयति सूत्रकारः, न तु शेषं वर्तमानमेष्यन्तं वा, तस्य संत्रियमाणत्वात् , प्रत्याख्यायमानत्वाच, प्रतिक्रमणस्य चातीतविषयत्वादिति ।। ३५५९ ॥
अत्र केषाश्चिद् मतमुपन्यस्य दूषयन्नाहआविसिटुं सावजं संबज्झाविति केइ छट्ठीए । तन्न पओयणाभावओ तहा गंथगुरुयाओ ॥ ३५६० ॥ पच्छित्तस्स पडिक्कमणओ य पायं व भूयविसययाओ । तीयपडिक्कमणाओ पुणरुत्ताइप्पसंगाओ ॥ ३५६१ ॥
व्याख्या-इह केचनाप्याचार्यदेशीयाः 'तस्य' इत्यत्र पष्ठ्या अविशिष्टमेव त्रैकालिकं सावधयोग संबन्धयन्ति । तदेतद् न युक्तम्, अविशिष्टत्रैकालिकसावद्ययोगसंबन्धस्येह प्रयोजनाभावात्, तदभावश्चातीतस्यैव प्रतिक्रमणसंभवात् । अथ सामान्ययोगं संबध्य पश्चाद् विशेषेणातीतस्यैव तस्य प्रतिक्रमणं व्याख्यास्यत इत्याशङ्कयाह-तथा सति ग्रन्यगुरुतापसङ्गादिति । किञ्च, 'पच्छित्तेत्यादि' प्रायश्चित्तस्यैव प्रतिक्रमणरूपत्वात, पायाश्चत्तरूपमेव हि प्रतिक्रमणं नान्यदित्यर्थः । ततः किम् इत्याह-प्रायश्चित्तस्य च पायो भूतवि
१ तस्येति च संबध्यते योग: सावध एवं योऽधिकृतः । तमिति द्वितीयाधिकारादभिधेये किमिह तस्येति ।।। ३५५८ ।। २ संबन्धलक्षणया षष्ठयाऽवयवलक्षणया वा । समतीतं सावयं संबन्धयति न तु शेषम् ।। ३५५९।। ३ अविशिष्टं सावधं संवन्धयनित केचित् षष्ठ्या । तन्न प्रयोजनाभावतस्तथा अन्थगुरुतातः ॥ ३५६०॥ प्रायश्चित्तस्य प्रतिक्रमणतश्च प्रायो वा भूतविषयतातः । अतीतप्रतिक्रमणात् पौनरुक्त्यादिप्रसङ्गात् ।। ३५६१ ।।
ठठकककक००००।
Jan Education International
For Personal and Price Use Only
Page #140
--------------------------------------------------------------------------
________________
विशेषा०
॥१३३८ ॥
Jain Education Int
पयत्वात् — आसेवितसावद्ययोगविषयत्वात् किमिह सामान्यसाद्ययोगसंबन्धेनेति । प्रायोग्रहणं चेह मिथ्यादुष्कृतदानादेवर्तमान सावयोगविषयत्वादपीति । तथा, 'तीयं पडिकमर, पट्टप्पण्णं संदरे, अणागयं पञ्चकखाइ' इत्यादावतीतस्यैव प्रतिक्रमणोक्तेनेह त्रैकाल्यसामान्ययोगसंबन्धः, पौनरुक्त्यादिदोषप्रसङ्गाच्च । सामान्यसावययोगो हि 'सव्वं सावज्जं जोगं पच्चकखामि' इत्यनेनैव प्रत्याख्यातः, किं तस्य' इत्यत्र पुनरपि ग्रहणेन ? इति भाव इति ।। ३५६० ।। ३५६१ ।।
उपसंहरन्नाह
1
हा पडिक मामिति तस्सावरसं कमामिसदस्स । भव्यमिह कम्मणा तं च भूअसावज्जओऽणन्नं ॥ ३५६२ ॥ तस्मात् तस्य 'प्रतिक्रयामि' इत्यस्य शब्दस्यावश्यं कर्मणा भाव्यम् । ततः प्रकृते किम् ? इत्याह- तच कर्म पूर्वोक्तविवक्षया तस्थतीत सामान्यावययोगस्यावयवभूताद् भूतसावद्ययोगादु कन्यायेनान्यद् न संभवति । त आदिहातीतस्यैव सावद्ययोगस्य संबन्धो नेपरयोः ॥ इति त्रिपणिगाथार्थः ॥ ३५६२ ।।
अव 'तिहिं तिविण' इत्यत्राक्षेप परिहारावाह
तिविणं ति न जुत्तं पइपयविहिणा समाहिअं जेण । अत्थविगप्पणयाए गुणभावणय त्ति को दोसो ||३५६३ ॥
आह - ननु 'त्रिविधेन' इति न युक्तम् – 'त्रिविधं त्रिविधेन' इति यत् सूत्रे प्रथममुद्दिष्टं तद् न युक्तमित्यर्थः । कुतः ? इत्याहनाव पदावधिवेत् समाहितं समापितं - 'मणेणं वायाए कारणं न करेमि कारवेमि करेंतं पि अण्णं न समणुजाणामि' इत्यनेनैव प्रतिपदनिर्देशेन सिद्धमेतदित्यर्थः । अत्र परिशरमाह - अर्थविकल्पनयाऽर्थभेदोपदर्शनाद् गुणभावनया वा गुणभावनात को दोष न कश्चिदित्यर्थः । इयमत्र भावना - एवं बुक्के सामान्य विशेषभेदरूपत्वं सर्वस्याप्यर्थस्य दर्शितं भवति, 'तिविदं तिविद्वेणं' इत्यनेनैव वस्तुनः सामान्यरूपतादर्शनात्, 'पणेणं वायाए' इत्यादिना तु तस्य विशेषरूपताप्रकाशनादिति । अन्यच्च, एवमिह पुनरभि हिते सामायिक क्षणो यो गुणस्तस्य संबन्धिनी भावना निविडवासनात्मन्यारोपिता भवतीति न कश्चिद् दोषः ॥ इति निर्मुक्तिगाधार्थः ।। ३५३३ ।।
१ तस्मात् प्रतिक्रमामीति तस्यावश्यं क्रनामिशब्दस्य । भाव्यमिह कर्मणा तच भूतस्रावद्यतोऽनन्यत् ॥ ३५६२ ॥ १२ विविधेनेति न युक्तं प्रतिपदविधिना समाहितं येन । अर्थविकल्पनया गुणभावनयेति को दोष: ? ।। ३५६३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः
१३३८ ॥
Aww.janeibrary.org
Page #141
--------------------------------------------------------------------------
________________
विशेषाः
क ककककक
बृहद्वत्तिः ।
॥१३३९॥
22900000000०००००००००००:३९९९९९९९०
समाधानान्तरमाहअहवा मणसा वाया काएणं मा भवे जहासंखं । न करेमि न कारवेमि य न याणुजाणे य पत्तय ॥३५६४॥
अथवा, 'पणेणं वायाए' इत्यादिमात्रक एवोक्त 'मनसा न करोमि, बाचा न कारयामि, कायेन नानुजानामि' इत्येवंभूतमनिष्ट यथासंख्यं मा भूदिति 'तिविहं तिविदेण' इत्यभिहितम्, यतश्च 'मनसा न करोमि, न कारयामि, नानुजानामि' इत्येवं वाचा कायेन सह योगत्रयस्य प्रत्येक संबन्धोऽभिमतः स नाभविष्यदिति ॥ ३५६४ ॥
ततः किम् ? इत्यादतो तिविहं तिविहेणं भण्णइ पइपयसमापणाहेउं । न करेमि त्ति पडिपयं जोगविभागेण वा सझं ॥३.५६५॥
ततः 'त्रिविधं त्रिविधेन' इति भण्यते । किमर्थम् इत्याह-प्रतिपदसमापनहेतोः यनसा न करोमि, न कारवामि, नानुनानामि, एवं बाचा कायेन च सह योगत्रयस्य प्रत्येकं संबन्धहेतोरित्यर्थः। त्रिविधं त्रिविधेन' इत्यस्याभावे दृषगान्तरमप्याह-'न करोमि' इत्यादि । अथवा, 'त्रिविधं त्रिविधेन' इत्यस्याभावे 'न करोमि' इत्यादि प्रतिपदं योगाना करण-कारणा-ऽनुमतिळक्षणानां यो विभागो विच्छेदस्तेन प्रस्तुताभिमतं वस्तु साध्यं स्यात् । तथा च सति प्रतिपत्तिगौरवं स्यादिति शेषः । इदमुक्तं भवति-'त्रिविधं त्रिविधेन' इत्येतस्याभावे 'न करेमि मणेणं वायाए काएगं, न कारवेमि मणेणं वायाए कारणं, नाणु जाणामि भणं वायाए कारणं' इत्येवमेकैकयोगविच्छेदेन करणत्रयसंबन्धे यथासंख्यनिराकरणेन प्रस्तुताभिमतोऽर्थः साध्यो भवेत् । एवं च सति प्रतिपत्तिगौरवं स्यात् । अतः सुखमतिपय कर्तव्यं 'त्रिविधं त्रिविधेन' इति ।। ३५६५।।
समाधानान्तरपाइअहवा करेंतमण्णं न समणुजाणे विसद्दओ नेयं । अत्थविगप्पणयाए विसेसओ तो समाजोज्जं ॥३५६६॥ अथवा, 'करेंतं पि अन्नं न समणुजाणामि' इत्यत्रापिशब्दात् यत् पूर्व त्रिकाळविषयं ज्ञेयमुक्तम् । 'सो चि विभक्ति व्यत्यया.
१ अथवा मनसा वाचा कायेन मा भूद् यथासंख्यम् । न करोमि न कारयामि च न चानुजानामि च प्रत्येकम् ॥ ३५६४ ॥ २ ततत्रिविधं त्रिविधेन भण्यते प्रतिपदसमापनाहेतोः । म कशेमीति प्रतिपदं योगविभागेन वा साध्यम् ।। ३५६५ ॥ ३ अथवा कुर्वन्तमन्यं न समनुजानाम्यपिशब्दवो ज्ञेयम् । अर्थविकल्पनया विशेषतस्ततः समायोज्यम् ।। ३५६६ ।।
M॥१३३
For Personal and
Use Only
Diw.janmbrary.org
Page #142
--------------------------------------------------------------------------
________________
EdA
बृहदत्ति ।
दिहानयार्थविकल्पनया विशेषतः समायोज्यम् । कथम् ? इति चेत् । उच्यते -अतीते कृतस्य कारितस्यानुमतस्य च संबन्धिनी मनुविशेषा
मतिरिदानी प्रत्याख्यायते, न तु करण-कारणे, तयोः कृतकारितत्वात् । इतरकालद्वये तु करण-कारणाऽनुमतयः प्रत्याख्येयत्वेन न . वार्यन्ते, अविरुद्धत्वात् । इत्यस्याप्यर्थस्य दर्शनार्थ 'त्रिविधं' इत्यादि कर्तव्यमिति ॥ ३५६६ ॥ ॥१३४०॥
'भंते' इत्यतिदेशयन्नाहभंति त्ति पुव्वभणियं तेणं चिय भणइ किं पुणो भणियं । सव्वत्थ सोऽणुवत्तइ भणियं चादिप्पउत्तो त्ति ॥३५६७॥ अणुवत्तणत्थमेव य तग्गहणं नाणुवत्तणादेव | अणुवत्तंते विधओ जमिह कया किंतु जत्तेणं ॥ ३५६८ ॥
'भंते' इति पदं पूर्वमेव मणितं व्याख्यातम्, इति नेह व्याख्यायते । तेनैव कारणेन तेनैव हेतुना तर्हि परो भणति-यदि पूर्व| मेवेदं भणितम्, तर्हि किं पुनरपीह भणितं मूत्रकृता ?-ननु सर्वत्र सूत्रान्तं यावदनुवर्तते एवासौ, भणितं चान्यत्र-'आदौ प्रयुक्तोऽर्थः सर्वत्रानुवर्तते' इति । गुरुलह-सत्यमेवैतत् . सूत्रान्तं यावदनुवर्तनार्थमेव तस्य भदन्तशब्दस्य ग्रहणं तद्ग्रहणमादौ कृतम्, केवलं नानु.
वर्तनादेव नानुवर्तनमात्रादेव यस्मादधिकृता विधयोऽनुवर्तन्ते भवन्ति, किन्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषासु–'अनु. 18 वर्तन्ते च नामविधयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति । स चायं यत्रः, यत् तस्यानुस्मरणार्थ पुनरुच्चारणमिति॥
__ अथवा, पुनस्तगणने समाधानान्तरत्रयमाह --
अहवा समत्तसामाइयकिरिओ तब्बिसोहणत्थाए । तस्साईआरनिवत्तणाइकिरियतराभिमुहो ॥३५६९ ॥ जं च पुरा निद्दिढ गुरुं जहावासयाई सव्वाई। आपुच्छिउं करिज्जा तयणेण समस्थिय होइ ॥ ३५७० ॥ सामाइयपच्चप्पणवयणो वायं भदंतसहो त्ति । सव्वकिरियावसाणे भाणियं पञ्चप्पणमणेणं ॥ ३५७१ ॥
१ भदन्तेति पूर्वभाणितं तेनैव भणति किं पुनर्भणितम् । सर्वत्र सोऽनुवर्तते भणितं चादिप्रयुक्त इति ॥ ३५६७ ।।
अनुवर्तनार्थमेव च तद्ग्रहणं नानुवर्तनादेव । अनुवर्तन्त विधयो यदिह कृताः किन्तु यत्नेन ।। ३५६८ ।। २ अथवा समाप्तसामायिकक्रियस्तद्विशोधनार्थम् । तस्यातिचारनिवर्तनादिक्रियान्तराभिमुखः ॥ ३५६९ ।। यञ्च पुरा निर्दिष्टं गुरुं यथावश्यकानि सर्वाणि । आपृच्छय कुर्यात् तदनेन समर्थितं भवति ॥ ३५७० ।। सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भाणितं प्रत्यर्पणमनेन ।। ३५७१ ।।
1928
For Personal and Private Use Only
Page #143
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषा
9.००.००
॥१३४१॥
व्याख्या-अथवा, समाप्तमस्तुतसामायिकपतिपत्तिक्रियस्तन्मालिन्यविशुद्धिदेतोस्तस्य सामायिकस्य येऽतिचारा मालिन्यप्रकारास्तेषां यद् निवर्तनादिरूपं क्रियान्तरम्, आदिशब्दाद् निन्दागर्दाक्रियान्तरपरिग्रहः, तदभिमुखः पुनरपि भदन्तशब्दमुच्चारयति 'विनेयः' इति शेषः । यच्चे हैव पुरा पूर्व निर्दिष्टं यथा गुरुमापृच्छय सर्वाण्यावश्यकानि कुर्याद् विनेयः । तदनेन पुनरपि भद न्तशब्दोच्चारणेन समर्थितं भवति । पूर्व ह्यनेन भदन्तशब्दोच्चारणाद् गुरुमापृच्छय सामायिकावश्यक प्रतिपन्नम्, इदानीं तु तदती. चारप्रतिक्रमणावश्यकं पुनरपि तदुच्चारणात् तमापृच्छय कुर्वता यथोक्तार्थः समर्थितो भवतीति । अथवा, 'भवतः पृष्ट्वा यत् पूर्व कर्तु मारब्धं सामायिकं तदिदानी कृतं समर्थितं भदन्त ! मया, इत्येवं सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः । अनेन च गुरुमा पृच्छयारब्धानां सर्वासामपि क्रियाणामवसाने गुरोः प्रत्यर्पण निवेदनमवश्यं विधेयमित्येतद् भणितं भवति ॥३५६९।३५७०।३५७१।।
अथ 'पडिक्कमामि' इत्यादिक्रियाव्याख्यानार्थमाह'नेयं पडिकमामि त्ति भूयसावजओ निवत्वामि । तत्तो य जा निवत्ती तदणुमईओ विरमणं जं॥३५७२॥ निंदामि त्ति दुगुंछे गरिहामि तदेव तो कओ भेओ ? । भण्णइ सामण्णत्थाभेए इ8ो विसेसत्थो ॥३५७३॥ जह गच्छइ त्ति गो सप्पइ त्ति सप्पो समे वि गच्छत्थे । गम्मइ विसेसगमणं तह निंदा-गरहणत्थाणं ॥३५७४॥
व्याख्या-'प्रतिक्रमामि' इत्यस्य व्याख्यानं ज्ञेयम् । किम् ? इत्याह-'भूतसावद्ययोगाद् निवर्तेऽहम्' इति । प्रेरकः पृच्छतिभूतसावद्ययोगस्यासेवितत्वात् का नामेदानी ततो निवृत्तिः ? इत्याह-यत् तदनुमतेविरमणम् , न पुनस्तत्करण-कारणाभ्याम्, तयोरासेवितत्वेन विरमणायोगादिति । 'निन्दामि' इति कोऽर्थः ? 'जुगुप्से' आत्मानमतीतसावद्ययोगकारिणम्' इति संवन्धं वक्ष्यति । 'गर. हामि' इत्यनेनाप्येतदेवोक्तं जुगुप्स इति । आह-ततस्तर्हि कुतो निन्दा-गईयोरर्थतो भेदः, द्वयोरपि जुगुप्सार्थत्वात् । । भण्यतेऽत्रोत्तरम् , सामान्यार्थाभेदेऽपि विशेषार्थों विशेषवदर्थाभिधायक इष्टो गर्दाशब्द इति । यथा गच्छतीति गौः, सर्पतीति सर्पः, इत्यनयोः समानेऽपि गत्यर्थे द्वयोरपि विशेषवदेवं गमनं गम्यते प्रतीयते तथा निन्दा-गर्थियोरपि विशेषरूपत्वं वक्ष्यतीति ॥३५७२॥३५७३॥३५७४॥
१ ज्ञेयं प्रतिक्रमामीति भूतसावद्यतो निवर्ते । ततश्च या निवृत्तिस्तदनुमतेविरमणं यत् ।। ३५७२ ।। निन्दामीति जुगुप्से गहामि तदेव ततः कुतो भेदः ? । भण्यते सामान्यार्थाभेदे इष्टो विशेषार्थः ॥ ३५७३ ।। यथा गच्छतीति गौः सर्पतीति सर्पः समेऽपि गत्यर्थे । गम्यते विशेषगमन तथा निन्दा-गर्थियोः ।। ३५७४ ।।
॥१३४॥
Jain Education.in
For Personal and Price Use Only
draww.jainmibrary.org
Page #144
--------------------------------------------------------------------------
________________
विशेषा ०
॥९३४२॥
Jain Education intern
तदेवाह
पचक्खदुगंछा तह निंदामिति गम्मए समए । गुरुपच्चक्खदुगंछा गम्मइ गरिहामिसद्देणं ॥ ३५७५ ||
'तह त्ति' यथा गो सर्पयोर्गमनस्य सामान्यतोऽभेदेऽपि विशेषतो भेदो दृष्टस्तथा निन्दा-गर्दाभिधेयस्यापि जुगुप्सार्थस्य विशेषतो भेदोऽस्ति, तथाहि - या स्वप्रत्यक्षाऽऽत्मसाक्षिकी जुगुप्सा सा समये सिद्धान्ते 'निन्दामि' इत्यनेन गम्यतेऽवबुध्यते. या तु गुरुप्रत्यक्षा गुरुसाक्षिक जुगुप्सा सा 'गर्दामि' इत्यनेन शब्देन गम्यत इति ।। ३६७५ ।।
अथवा, एकार्थयोरपि निन्दा-गर्दयोर्ग्रहणं भृशाऽऽरार्थमिह न विरुध्यत इति दर्शयन्नाह -
ऐगत्थोभयगहणं भिसादरत्थं च जमुदियं होइ । कुच्छामिं कुच्छामिं तदेव निंदामि गरिहामि ||३५७६ ॥ भिसमायरओ व पुणो पुणो व कुच्छामि जमुदियं होइ । पुणरुत्तमणत्थं वेह नाणुवादादराईसु || ३५७७ ||
व्याख्या - एकार्थं च तदुभयं च निन्दा-गर्दालक्षणमेकार्थोभयं तस्य ग्रहणमेकार्थोभयग्रहणं तदपि चेह भृशादरार्थ न विरुध्यते । ततश्च 'कुच्छामि कुच्छामि' इत्यनेन यदुक्तं भवति 'निंदामि गरहामि' इत्यनेनापि तदेवोक्तं भवतीति भृशमत्यर्थम्, आदरता वा पुनः पुनरेव 'कुच्छामि' इति यदुक्तं भवति इदमुक्तं भवतीत्यर्थः । न चेहानुवादादरादिषु पुनः पुनरपि प्रयुक्तमपि वचः पुनरुक्तमनकिं वा भवतीति ।। ३५७६ ।। ३५७७ ||
अथ 'निंदामि गरिहामि' इत्यनयोः कर्मपदसंबन्धनार्थमाह
किं कुच्छामप्पाणं अईयसावज्जकारिणमसग्धं । अत्ताणमयणमहवा सावज्जमईयजोगं ति ॥ ३५७८ ॥
किं 'कुच्छामि' - जुगुप्से : इत्याह- आत्मानं निजजीवम् । कथंभूतम् ? अतीत सावद्य योगकारिणम् । अत एवाश्लाघ्यमप्रशं
१ स्वप्रत्यक्ष जुगुप्सा तथा निन्दामीति गम्यते समये । गुरुप्रत्यक्षजुगुप्सा गम्यते गमिशब्देन ।। ३१७५ ।। २ एकार्थोभयग्रहणं भृशादरार्थं च यदुदितं भवति । जुगुप्से जुगुप्से तदेव निन्दामि गर्णामि || ३५७६ || भृशमादरतो वा पुनः पुनर्वा जुगुप्ते यदुदितं भवति । पुनरुक्तमनर्थ बेह नानुवादादरादिषु ।। ३५७७ ।। ३ किं जुगुप्स आत्मानमती तसा वद्य कारिणमा ध्यम् । अत्राणमतनमथवा सावद्य मतीत योगमिति ।। ३५७८ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १३४२ ॥
janelbrary.org
Page #145
--------------------------------------------------------------------------
________________
विशेषा०
॥ १३४३ ॥
Jain Educators in A
सनीयम् । अथवा, अत्राणं संसारे निपततामशरणम् अतनं वाऽनादिकालात् सातत्यभवनमवृत्तमतीत सावद्ययोगं 'कुच्छामि' जुगुप्से, भवहेतुत्वात्, सर्वविरतिसामायिकस्यैव भवान्धौ निमज्जतां त्राणत्वादिति ।। ३५७८ ।।
अथ 'व्युत्सृजामि' इति सूत्रस्य चरमावयवं संबन्धयन्नाह -
'विविहं विसेसओ वा भिसं सिरामि त्ति वोसिरामिति । छड्डेमि त्ति जमुत्तं तमेव समईयसावज्जं ॥ ३५७९ ॥
विशब्दों विविधार्थी विशेषार्थो वा, उत्शब्दस्तु भृशार्थः, ततश्च विविधं विशेषतो वा भृशमत्यर्थ 'सृज विसर्गे' सृजामि त्यजामीति यदुक्तं भवति । कम् ? इत्याह- तमेवातीत सावद्ययोगम् । 'व्यवसृजामि' इति वाऽवशब्दोऽधः शब्दार्थे, विशेषेणाधः सृजामि क्षिपामि व्यवसृजामीति ।। ३५७९ ।।
आह— नन्वेवं सावद्ययोगपरित्यागात् 'करोमि भदन्त ! सामायिकम्' इति सावद्ययोगनिवर्तनमुच्यते, तदनन्तरं 'व्युत्सृ जामि' इत्युक्ते 'तत्सावद्ययोगनिवर्तनं त्यजामि ' इति वैपरीत्यमापद्यते । तन्न । कुतः १ इत्याह
साइविरमणाओ जहेह भणियम्मि वोसिरामिति । तप्पविक्खचाओ गम्मइ सामाइए वेवं ॥ ३५८० ॥
यथेह मांसादिविरमणादनन्तरं 'व्युत्सृजामि' इति भणिते तत्प्रतिपक्षत्यागो मांसभक्षणनिवृत्तिरूपो गम्यतेऽवसीयते, तथासंव्यवहारदर्शनात्, प्रस्तुत सामायिकेऽप्येवमेवावगन्तव्यम् । इदमुक्तं भवति यथा 'ससुराइयं पञ्चक्खामि जावज्जीवाए चन्विहं तिविहेणं मणं वायाए कारणं न मुंजेमि, न भुंजावेमि, वोसिरामि' इति मांसविरमणादनन्तरं 'व्युत्सृजामि इत्युक्ते 'मांसादिभक्षणरूपं तद्विपक्षं त्यजामि इति गम्यते, एवमिहापि ' तस्स भंते ! पडिक्कपामि निंदामि गरिहामि अप्पाणं इत्येतत्पर्यन्तेन सूत्रेण यत् सर्वसा वद्ययोगप्रत्याख्यानमुक्तम्, तदनन्तरं 'व्युत्सृजामि' इत्युक्ते 'तद्विपक्षरूपं सावद्ययोगाविरमणं त्यजामि इति गम्यत इति ॥ ३५८० ॥
अथ कः पुनः सर्वसावद्ययोगप्रत्याख्यानरूपस्य सामायिकस्य विपक्षः १ इत्याशङ्कय तदुपदर्शनार्थमाह
१ विविधं विशेषतो वा भृशं सृजामीति विसृजामीति । त्यजामीति यदुक्तं तदेव समततिसावयम् || ३५७९ ।। १२ मांसादिविरमणाद्यथेह भणिते विसृजामीति । तत्प्रतिपक्षत्यागो गम्यते सामायिकेऽप्येवम् ॥ ३५८० ॥ ३ मांस-सुरादिकं प्रत्याख्यामि यावज्जीवं चतुर्विधं त्रिविधेन । मनसा वचसा कायेन न भुखे न भोजयामि विसृजामि ।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१३४३॥
Page #146
--------------------------------------------------------------------------
________________
विशेषा०
॥१३४४॥
सम्मत्ताइमयं तं मिच्छत्ताईणि तव्विवक्खो य । ताण विवक्खो गम्मइ पभासिए वो सिरामिति ॥ ३५८१॥
तच्च सामायिकं 'सामाइयं च विविदं सम्मत्त सुयं तहा चरितं च' इति वचनात् सम्यक्त्वश्रुताद्यात्मकम् । ततच मिथ्यास्वाऽज्ञाना- विरतयस्तद्विपक्षोऽवसेयः । ततः 'व्युत्सृजामि' इति प्रभाषिते तेषां मिथ्यात्वादीनां विसर्गस्यागो गम्यत इति ।। ३५८१ ।। तदेवं ' निन्दामि गर्दामि व्युत्सृजामि' इति क्रियात्रयस्य विषयविभागो दर्शितः, अथवा, अतीतसावद्ययोगप्रायश्चित्तसंग्रहार्थमिदं क्रियात्रयमिति दर्शयन्नाह -
अहवा तिच्छियसावज्जजोगपच्छित्तसंग्गहत्थाय । संखेवओ विहाणं निंदामिच्चाइसुत्तम्मि || ३५८२ | निंदा - गरहग्गहणादालोयण-पडिक्कमोभयग्गहणं । होइ विवेगाईणं छेयंताणं विसग्गाओ || ३५८३ ॥ अथवा, अतिक्रान्तसावद्ययोगप्रायश्चित्तस्य संक्षेपतः संग्रहार्थं 'निन्दामि' इत्यादिसूत्रेऽभिधानमिति । तच्च प्रायश्चित्तं "औलोयण- पक्किमणे मीस विवेगे तहा विउसग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥ १ ॥”
इति वचनाद् दशविधम् । तत्र निन्दा गर्हयोर्ग्रहणादाळोचन - प्रतिक्रमणोभयलक्षणस्याद्यप्रायश्चित्तत्रयस्य ग्रहणम्, 'व्यवसृजामि' इति विसर्गग्रहणात् पुनर्विवेकादीनां छेदान्तानां चतुर्णी प्रायश्चित्तभेदानां ग्रहणं भवति । मूलादयस्तु त्रयः प्रायश्चित्तभेदा इह न संभ वन्ति, तेषां चारित्रोत्तीर्णजन्तुविषयत्वात् । इह तु प्रतिपन्नचारित्रसत्वमक्रमादिति तावद् वयमवगच्छामः, तत्त्वं तु केवलिनो बहुश्रुता वा विदन्तीति ।। ३५८२ ॥ ३५८३ ॥
॥ तदेवं व्याख्यातं सामायिकसूत्रम् । तद्व्याख्याने चावसितोऽनुगमः ॥ ततः पूर्वोक्तमुपसंहरन्नुत्तरनयद्वारसंबन्धनार्थमाह
Jain Educationa International
१ सम्यक्त्वादिमयं तद् मिध्यात्वादीनि तद्विपक्षश्च । तेषां विपक्षो गम्यते प्रभाषिते विसृजामीति ।। ३५८१ ।। २ अथवाऽतिक्रान्त सावद्ययोगप्रायश्चित्तसंग्रहार्थाय । संक्षेपतो विधानं निन्दामीत्यादिसूत्रे ।। ३५८२ ।। निन्दा-गर्दा ग्रहणादालोचन प्रतिक्रमणोभयग्रहणम् । भवति विवेकादीनां छेदान्तानां विसर्गीत् ।। ३५८३ ।। ३ आलोचन प्रतिक्रमणे मिश्र विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यता च पाराचितकं चैव ॥ १ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३४४॥
Page #147
--------------------------------------------------------------------------
________________
विशेषा०)
१३४५॥
एवं सुत्तागमो सुत्तन्नासो सुयत्यजुत्ती य । भणिया नयाणुजेोगदारावसरोऽधुणा, ते य ॥ ३५८४ ॥ अत्थानुगमंगं चिय तेण जहासंभवं तहिं चैव ! भणिया तहावि पत्थुयदारासुन्नत्थमुहं ॥ ३५८५ ॥
व्याख्या - एवमुक्तप्रकारेण सूत्रानुगमः, सूत्रालापकानां च व्यासो निक्षेपः सूत्रार्थयुक्तिश्च सूत्रस्पर्शक नियुक्तिश्चेत्यर्थः, भणिताः प्रतिपादिताः । अधुना नयलक्षणचतुर्थानुयोगद्वारस्यावसरः । ते च नया अर्थानुगमाङ्गमेव । तेन यथासंभवं तत्रैकार्थानुगमे तत्र तत्र स्थाने भणिताः, तथापि प्रस्तुतद्वाराशून्यार्थं तावत् किञ्चिदुनेष्ये भणिष्याम्यहमिति ।। ३५८४ ।। ३५८५ ॥
तत्र नैगमनयस्य संग्रह-व्यवहारयोरन्तर्भावात् शेषाणां संग्रहादीनां षण्णां नयानां संक्षिप्य मतं तावदुपदर्शयन्नाह - सामन्नमह विसेसो पच्चण्पणं च भावमेत्तं च । पइसदं च जहत्थं च वयणमिह संगहाईणं ॥ ३५८६ ॥
इह सामान्यमेवास्ति न विशेषा इति संग्रहस्य वचनम् । विशेषा एव सन्ति न सामान्यमिति व्यवहारस्य वचः । प्रत्युत्पन्नं च वर्तमानमेव वस्त्वस्ति न त्वतीतमनागतं चेति ऋजुमूत्रस्य वचनम् । नामादिनिक्षेपाणां मध्ये भावेन्द्रादिकं भावनिक्षेप एवास्ति, न नामादिनिक्षेपा इति शब्दनयस्य वचः । इन्द्र-शक्र पुरन्दरादिशब्दानां प्रतिशब्दमन्यान्य एवार्थो वाच्यः, न स्वेक एवेति समभिरूढस्य वचः । यथार्थमेव स्वाभिधायकशब्दवाच्यमर्थं कुर्वदेव घटादिकं वस्तु भवति, नान्यथा, इत्येवंभूतनयस्य वचनम् । इत्युक्तप्रकारं संग्रहादीनां वचनं मतं संक्षेपेणावगन्तव्यमिति ॥ ३५८६ ।।
१६९
ततः किम् ? इत्याह
या समारोह - पज्जब हियदुगम्मि । सेसेसु य संभवओ ताणं च परोप्परं कज्जो || ३५८७ ॥ एतेषां च संग्रहादिनयानां द्रव्यार्थिक पर्यायार्थिकनयद्वये समचतारोऽन्तर्भावः कार्यः । उक्तं च
१ एवं सूत्रानुगमः सूत्रन्यासः सूत्रार्थयुक्तिश्च । भणिता नयानुयोगद्वारावसरोऽधुना, ते च ।। ३५८४ ॥ अर्थानुगमाङ्गमेव तेन यथासंभवं तत्रैव । भणितास्तथापि प्रस्तुतद्वारा शून्यार्थमुन्नेष्ये ।। ३५८५ ।।
२ सामान्यमथ विशेषः प्रत्युत्पन्नं च भावमात्रं च । प्रतिशब्दं च यथार्थ च वचनमिह संग्रहादीनाम् ।। ३५८६ ॥
३ एतेषां समवतारो द्रव्याखिक पर्यवास्तिकद्विके । शेषेषु च संभवतस्तेषां च परस्परं कार्यः ।। ३५८७ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १३४५।।
Page #148
--------------------------------------------------------------------------
________________
विशेषा०
१३४६
Jain Educator I
" ' तित्भयरवयण संगह विसेसपयत्थायमूलवायरणी । दव्वडिओ य पज्जवनओ य सेसा वियप्पा सिं ॥ १ ॥ "
तथा तेषामेव संग्रहादिनयानां शेषेषु निश्चयनय-व्यवहार- ज्ञान- क्रियादिनयेषु पूर्वोक्तेषु वा सप्तसु नयशतेषु समवतारो विधेयः । तथा 'ताणं चत्ति' तेषामेव संग्रहादिनयानां परस्परं संभवतो यथासंभवं समवतारः कार्यः ; तद्यथा - ऋजुसूत्र : पर्यायादिवादित्वसाम्यात् शब्दनये समवतरति शब्दनयोऽपि भावाद्यभ्युपगमसाम्यात् समभिरूढे, सोऽपि प्रतिशब्दमन्यान्यार्थवाचित्वादिनैवंभूते । एवमन्यथापि यथासंभवं परस्परमेषामन्तर्भावो वाच्य इति ।। ३५८७ ।।
अथ द्रव्य पर्यायार्थिकयोर्यद् मतं तद् दर्शयन्नाह -
देव्वडिअस्स दव्त्रं वत्युं पज्जवनयस्स पज्जाओ । अप्पियमयं विसेसो सामन्नमणप्पियनयस्स ॥ ३५८८ ॥
द्रव्यार्थिकस्य द्रव्यमेव वस्तु, न तु पर्यायाः, तेषां तन्मतेनावस्तुत्वात् । अत एव द्रव्यमर्थोऽस्येति द्रव्यार्थिकोऽयमुच्यते । पर्यायनयस्य तु पर्याय एव वस्तु, न तु द्रव्यम्, तस्य तन्मतेनावस्तुत्वात् । अत एव पर्यायोऽर्थोऽस्येति पर्यायार्थिकोऽसावुच्यते । तथा, अर्प्यते विशेष्यत इत्यर्पितो विशेषस्तद्वादी नयोऽर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति न सामान्यम् । अनर्पितमविशेषितं सामान्यमुच्यते तद्वादी नयोऽनर्पितनयः, सोऽपि समयप्रसिद्ध एव बोद्धव्यः, तन्मतं तु सामान्यमेवास्ति न विशेषः । अत्राप्यर्पिताsaर्पितनयद्वये संग्रहादीनां समवतारो द्रष्टव्य इति ।। ३५८८ ।।
अथवा, व्यवहार-निश्चयनयद्वये तेषां समवतारः, अतस्तस्यैव व्यवहार-निश्चयनयद्वयस्य स्वरूपमुपदर्शयन्नाह - लोगव्यवहारपरो ववहारो भणइ कालओ भ्रमरो । परमत्थपरो मण्णइ निच्छइओ पंचवण्णोति ॥ ३५८९ ॥ लोकव्यवहाराभ्युपगमपरो नयो व्यवहारनय उच्यते । स च कालवर्णस्यैवोत्कटत्वेन लोके व्यवह्रियमाणत्वाद् भणति प्रतिपादयति 'कालको भ्रमरः' इति । परमार्थपरस्तु पारमार्थिकार्थवादी नैश्चयिको निश्चयनय उच्यते । स पुनर्मन्यते 'पञ्चवर्णो भ्रमरः ' बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पमत्वात् शुक्लादीनां च न्यग्भूतत्वेनानुपलक्षणादिति ।। ३५८९ ॥
१ तीर्थकर वचनसंग्रह विशेषपदाथात्म मूलव्याकरणी । द्रव्यार्थिकञ्च पर्यवनयश्च शेषा विकरूपा अनयोः ॥ १ ॥ २ द्रव्यास्तिकस्य द्रव्यं वस्तु पर्यवनयस्य पर्याय: । अर्पितमतं विशेषः सामान्यमनर्पितनयस्य || ३५८८ ।।
३ लोकव्यवहारपरो व्यवहारो भगति कालको भ्रमरः । परमार्थपरो मन्यते नैश्वयिकः पञ्चवर्ण इति ।। ३५८९ ।।
For Personal and Private Use Only
बृहदुतिः ।
१३४६॥
Page #149
--------------------------------------------------------------------------
________________
विशेषा.
वदत्ति
११३४७
अथवा, प्रकारान्तरेण व्यवहार-निश्चयनयस्वरूपमवसेयम् । कथम् ? इत्याहअहवेगनयमयं चिय ववहारो जं न सव्वहा सव्वं । सवनयसमूहमयं विणिच्छओ जं जहाभूयं ॥३५९०॥
अथवा, यत् किमप्येकैकस्यैव नयस्य मतं तद् व्यवहारः प्रतिपद्यते, नान्यत् । कुतः ? इत्याह-'जमित्यादि' यस्मात् सर्वथा सर्वैरपि प्रकारविशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोतीति शेषः, स्थूलदर्शित्वादिति । विनिश्चयस्तु निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यत इति ॥ ३५९० ॥
अथवा, ज्ञान-क्रियानयद्वये संग्रहादीनां समवताररा, अतस्तत्स्वरूपमाहनाणाहीणं सव्वं नाणनओ भणइ किंव किरियाए ? । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥३५९१॥ ।
भानाधीनमेव सर्वमैहिकामुष्मिकं मुखं, किमत्र क्रियया कर्तव्यम् । युक्तिश्चेहानन्तरमेव वक्ष्यति । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भणति । उभयग्राहश्चह सम्यक्त्वं स्थितपक्ष इति ।।३५९१॥
एतदेवाह नियुक्तिकारानायम्मि गिहियव्वे अगिहियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥३५९२॥
ज्ञाननयमतेन तावदियं गाथा व्याख्यायते । तत्र 'नायम्मि त्ति' ज्ञाते सम्यक् परिच्छिन्ने ग्रहीतव्ये उपादेये, अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दो द्वयोरपि ग्रहीतव्या-ऽग्रहीतव्ययोतित्वानुकर्षणार्थे, उपेक्षणीयसमुच्चयार्थे वा । 'एच' इति गाथालङ्कार| माने । 'अस्थम्मि त्ति' अर्थत इत्यर्थः । स च द्विविध:-ऐहिक आमुष्मिकश्चेति । तत्रैहिकत्रिविधः-ग्राह्यः, अग्राह्यः, उपेक्षणीयश्च । तत्र ग्राशः सक्-चन्दना ऽङ्गनादिः, अग्रायोऽहिविष-कण्टकादिः, उपेक्षणीयस्तु तृण-पांशु-शर्करादिः। एवमामुष्मिकोऽपि ग्राह्यादिभेदात् त्रिविधः । तत्र प्रायः सम्यग्दर्शन चारित्रादिः, अग्राझो मिथ्यात्वाऽज्ञाना-ऽविरत्यादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः । एवंभूतेऽर्थे यतितव्यमेव, इत्यत्रैवकारोऽवधारणे । तस्य च व्यवहितः प्रयोगः, यथा ज्ञात एवेति । तदयमर्थः-ग्राह्याऽग्राह्यो-पेक्षणीयेऽर्थे ज्ञात एव
१ अथवैकनयमतमेव व्यवहारो यद् न सर्वथा सर्वम् । सर्वनयसमूहमयं विनिश्चयो यद् यथाभूतम् ॥ ३५९० ॥ २ सानाधीनं सर्व ज्ञाननयो भणति किंवा क्रियया । क्रियायाः करणनयस्तदुभयग्रहश्च सम्यक्त्वम् ।। ३५९१ ।। ३माते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे । यतितव्यमेवेति य उपदेशः स नयो नाम ।। ३५९२ ।।
॥१३४
Jan Education
For Personal and Price Use Only
Page #150
--------------------------------------------------------------------------
________________
विशेषा
बृहदत्तिः ।
॥१३४८॥
तत्माप्ति-परिहारो-पेक्षार्थिना यतितव्यम् -प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इति । एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः सः । किम् ? इत्याह-'नयः इति प्रस्तावाज्ज्ञाननयः । नामेति शिष्यामन्त्रणे । इत्यक्षरघटना । भावार्थस्त्वयम् --रह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिका-ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्ती फळविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् -
__“ विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ १॥ तथा चागमेऽप्युक्तम्-"पढमं नाणं तओ दया" इत्यादि "जं अन्नाणी कम्मं खवेइ" इत्यादि । तथाऽपरमप्युक्तम्__पावाओ विणिवत्ती पवत्तणा तह कुसलपक्खम्मि | विणयस्स पडिवत्ती तिन्नि वि नाणे समप्पंति ॥१॥" इतश्च ज्ञानस्यैव प्राधान्यम्, यतस्तीर्थकर गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्ध तथा च तद्वचनम् -
* गीयत्यो य विहारो बीओ गीयत्थमीसओ भणिओ । एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥ १ ॥"
न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम् । शायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादईतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षापतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गमाप्तिः संजायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव पुरुषार्थसिदेनिबन्धनम् । प्रयोगश्चात्र-यद् येन विना न भवति तद् तन्निबन्धनमेव, यथा जीवाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकल पुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधसामायिके सम्यक्त्व श्रुतसामायिक एवाभ्युपगच्छति, ज्ञानात्मकत्वेन तयोरेव मुख्यमुक्तिकारणत्वात् । देश सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति । तदेवं ज्ञाननयमतेनेयं गाथा व्याख्याता। अथेयमेव क्रियानयमतेन व्याख्यायते । तत्र क्रियानयो वदति-इह ज्ञातेऽवबुद्धे ग्रहीतव्यादिकेऽर्थे सर्वामपि पुरुषार्थसिद्धिम
१ पापाद् विनिवृत्तिः प्रवर्तना तथा कुशलपक्षे । विनयस्य प्रतिपत्तिस्त्रीण्यपि ज्ञानं समर्पयन्ति ।। १ ॥
२ गैतार्थश्चविहारो द्वितीयो गीतार्थमिश्रको भणितः । एतस्मात् तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १ ॥ ३ ज. 'क्वसामायिकश्च'।
॥१३४८
Jan Education International
For Personal and Price Use Only
Page #151
--------------------------------------------------------------------------
________________
विशेषा ०
१३४९॥
Jain Education Inter
भिलषता यतितव्यमिति प्रवृत्यादिलक्षणा क्रियैव कर्तव्या, इत्येवमत्र व्याख्याने एवकारः स्वस्थान एवं योज्यते । एवं च सति ज्ञातेstयर्थे क्रियैव साध्या । ततो ज्ञानं क्रियोपकरणत्वाद् गौणम् । इत्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणम् । इत्ययमेवोपदेशः स नयप्रस्तावात् क्रियानयः । शेषं पूर्ववत् । अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, प्रयत्नादिक्रियालक्षणविरहेण ज्ञानवतोऽप्यभिलषितार्थ संप्राप्त्यदर्शनात् तथा चान्यैरप्युक्तम्
-
“क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ १ ॥ ।” asses तीर्थकर गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम् ; ---
सुबहु पि सुमहीयं किं काही चरणविपमुक्कस्स । अघस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥ १ ॥ नाणं सविसयनिययं न नाणमेत्तेण कज्जनिष्पत्ती । मग्गण्णू दिट्टंतो होइ सचेट्ठो अचेट्ठो य ॥ २ ॥
जाणतो विय तरीउं काइयजोगं न जुंजइ जो उ । सो बुड्डइ सोएणं एवं नाणी चरणहीणो ॥ ३ ॥ जहा खरो चंदणभारवाही
इत्यादि । एवं तावत् क्षायोपशमिकीं चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्; यस्मादईतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावद् मुक्तवाप्तिः संपद्यते, यावदखिलकर्मेन्धनानल जालाकलापकल्पा शैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रिया न प्राप्नोति । तस्मात् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम् । प्रयोगश्चात्र - यद् यत्समनन्तरभावितत् तत्कारणम्, यथाऽन्त्यावस्थाप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्कुरः । क्रियानन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चैष चतुर्विधसामायिके देशविरति सर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात् ; सम्यक्त्व श्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वाद् नेच्छतीति ॥ ३५९२ ॥
ननु पक्षद्वयेऽपि युक्तिदर्शनात् किंमिह तत्वम् १ इति न जानीम इति शिष्यजनसंमोहमाशङ्कय ज्ञान-क्रियानयमतदर्शनानन्तरं
१ सुबह्नपि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥ १ ॥ ज्ञानं स्वविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥ २ ॥ जानन्नपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स ब्रुडति श्रोतसा एवं ज्ञानी चरणहीनः ॥ ३ ॥ यथा खरश्चन्दनभारवाही ।
For Personal and Private Use Only
बृहद्वतिः
॥१३४८९ ॥
10.janbrary.org
Page #152
--------------------------------------------------------------------------
________________
विशेषा
हत्तिः
३५९३ ॥
॥१३५००
स्थितपक्षपाह नियुक्तिकारः
सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्ध जं चरण-गुणढिओ साहू ॥ ३५९३ ॥
न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्याविशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यता परस्परविरोधिनी प्रोक्तां निशम्य श्रुत्वा तदिह सर्वनयविशुद्ध सर्वनयसंमतं सर्वरूपतया ग्राह्यं यत् किम् ? इत्याह-यच्चरण गुणस्थितः साधुश्वरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम् , तयोः स्थितश्चरण गुणस्थितः ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुर्मुक्तिसा. धको न पुनरेकेन केनचिदिति भावः तयाहि यत् तावज्ज्ञानवादिना प्रोक्तम् –'यद् येन विना न भवति तत् तनिवन्धनमेव' इत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात् । न हि दाह-पाकाद्यार्थिनां दहनादिपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-संधुक्षण-ज्वळनादिक्रियानुष्ठानादपि । न च तीर्थकरोऽपि केवलज्ञानमात्राद् मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि । तस्मात् सर्वत्र ज्ञान-क्रियाऽविनापाविन्येव पुरुषार्थसिद्धिः । ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धे न निबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धः, इत्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिना 'यद् यत्समनन्तरभावि तत् तत्कारणम्' इत्यादिपयोगे यस्तदनन्तरभावित्वकक्षणो हेतुरुक्तः, सोऽप्य. सिद्धः, अनैकान्तिकश्च; तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकाळेऽपि ज्ञानमप्यस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगात् , एवं शैश्यवस्थायां | सर्वसंवररूपक्रियाकाळेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः । तस्मात् केवळक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसि
दरसिद्धो हेतुः । यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा जानकारणत्वमपि, तद. प्यन्तरेण तस्य कदाचिदप्यभावादित्यनकान्तिकताप्यस्येति । तस्माज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धि, उक्तं च प्रागिहापि
'हेयं नाणं कियाहीणं हया अन्नाणिणो किया । पासंतो पंगुलो दड्ढो घावमाणो य अंधओ ॥ १॥ संजोगसिद्धीइ फलं वयांते न हु एगचक्कंग रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संप उत्ता नगरं पविट्ठा ॥२॥ १ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् सर्वनयविशुद्धं यवरण-गुणास्थितः साधुः ॥ ३५९३ ॥ २ हतं ज्ञानं क्रियाहीनं हताशानस्य क्रिया । पश्यन् पर्दग्धो धाश्चान्धकः ॥ १॥ संयोगसिद्ध्या फलं वदन्ति न चल्वेकचक्रण रथः प्रयाति । मन्धश्च पश्च वने समेत्य तो संप्रयुक्तो नगरं प्रविष्टौ ॥२॥
॥१३५००
Jain
Intion
For Personal and
Use Only
Page #153
--------------------------------------------------------------------------
________________
विशेषा
बदतिः।
॥१३५१५
इत्यादि । अत्राह-नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् । न हि यद् येषु प्रत्येक नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान क्रिययोर्मुक्त्यवापिका शक्तिः, तथा चहापि प्रागुक्तम्
पेत्तयममावाओ निव्वाणं समुदिआसु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकयासमुदायतेलं व ॥ १॥
उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयते । यदा तु तयोः प्रत्येकं देशोपकारिता, समुदाये तु संपूर्णोपकारिता, तदा न कश्चिद् दोषः । तथाचेहापि प्रागिदमप्युक्तम्
वी न सव्वह चिय सिकयातेलं व साहणाभावो । देसोक्गारिया मा सा समवायम्मि संपुन्ना ॥ १॥
अतः स्थितमिदम् -ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति । तद्युक्तश्च भावसाधुः सर्वैरपि नयैरिष्यत एव । तस्माद् व्यवस्थितमिदम्-तत् सर्वनयविशुद्धं यच्चरण-गुणस्थितः साधुरिति ।। ३५९३ ।।
अमुमेव गाथाद्वयार्थ कश्चिद् भाष्यकार एवाहनाओ ति परिच्छिन्नो गेज्झो जो कज्जसाहओ होइ । अग्गेज्झोऽणुवगारी अत्थो दव्वं गुणो वावि ॥ ३५९४ ॥ जइअव्वं ति पयत्तो कज्जो गेज्झम्मि गिण्हियव्वे ति । अगिज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥ ३५९५ ॥ इति जो त्ति एवमिह जो उवएसो जाणणा नओ सो ति । सो पुण सम्मइंसणसुयसामइयं ति बोडव्वो ॥३५९६॥
तिस्रोऽपि गतार्थाः । नवरं 'नायम्मि" इत्यस्य व्याख्या ज्ञात इति परिच्छिन्नः । 'गिहियो' इत्यादेाख्यानं 'गेज्झो' इत्यादि । 'अर्थः' इत्यस्य विवरणं 'द्रव्यं गुणो वा' इति । 'जाणणा नओ सो ति' ज्ञाननयः स इत्यर्थः । अस्योपलक्षणत्वाद् दार्शत
१ प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-क्रिययोवक्तुं सिकतासमुदायतैलमिव ॥ १ ॥ २ विष्वग्न सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ १॥ ३ ज्ञात इति परिच्छिन्नो प्राह्या या कार्यसाधको भवति । अग्राह्योऽनुपकारी अर्थो द्रव्यं गुणों वापि ॥ ३५९४ ॥ यतितव्यमिति प्रयत्नः कार्यों ग्राो प्रहीतव्य इति । अग्राह्योऽनादयोऽवधारणे चैवशब्दोऽयम् ॥ २५९५ ।। इति य इत्येवमिह य उपदेशो ज्ञाननयः स इति । स पुनः सम्यक्त्वदर्शनश्रुतसामायिकमिति घोद्धव्यः ।। ३५९६ ।।
११३५१॥
Jain Educationa.Inte
For Personal and Price Use Only
Page #154
--------------------------------------------------------------------------
________________
क
बृद्दवत्तिः ।
विशेषा
॥१३५२॥
व्याख्यासंबन्धेन क्रियानयोऽपि योजनीयः, केवलं देश-सर्वविरतिसामायिकरूपोऽसावित्यादि सर्व प्रोक्तं स्वयमेवानुसरणीयमिति ॥ ३५९४ ॥ ३५९५॥ ३५९६ ।।
'सव्वेसि पि नयाणं' इत्यस्य व्याख्यामाहसव्वे त्ति मूल-साह-प्पसाहभेया विसदओ तेसिं । किं पुण मूलनयाणं अहवा किमुताविसुद्धाणं ? ॥३५९७॥
'सवेसि पि' इति कोऽर्थः ? इत्याह-मूल त्ति' मूलनयानां नैगमादिनयानामपिशब्दात् शाखा-प्रशाखारूपाः । 'तेसिं ति' तेषामेव मूलनयानामुत्तरभेदा गृह्यन्ते तेषां सर्वेषामपि, किं पुनः केवलानां मूलनयानाम्, अथवा, किमुताविशुद्धानां द्रव्यार्थिकादीनामिति ॥ ३५९७॥
'बहुविहवत्तव्ययं' इत्यादेर्व्याख्यानमाहसामन्नविसेसोभयभेया वत्तव्वया बहुविह तिं । अहवा नामाईणं इच्छइ को कं नओ साहुं ॥ ३५९८ ॥ सोउं सहहिऊण य नाऊण य तं जिणोवएसेणं । तं सवनयावसुद्धं ति सव्वनयसम्मयं जं तु ॥ ३५९९ ॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्ठियं जं चरणनया बिंति साहु त्ति ॥३६००॥ सो जेण भावसाहू सव्वनया जं च भावमिच्छति । नाण-किरियानओभयजुत्तो य जओ सया साहू ॥३६०१॥
एता अपि गतार्थाः, नवरं 'अहवा नामाईणमित्यादि' अथवा, नाम स्थापना-द्रव्य-भावसाधूनां मध्ये को नयः कं साधुमिच्छति ? इत्यादिका वक्तव्यतां श्रुत्वा श्रद्धाय ज्ञात्वा चावबुध्येत्यर्थः । 'एस किरियानओ नाम त्ति' एप ज्ञानाविनाभूतक्रियालक्षणो नयोनीतिपक्षः स्थितपक्ष इत्यर्थः, यस्माच्चरणनयाश्चरणवृत्तयः परममुनयश्चरणगुणसुस्थितमेव साधु युवते, नापरं, स च येन यस्माद्
१ सर्व इति मूलशाखा-प्रशाखाभेदा अपिशब्दतस्तेषाम् । किं पुनर्मूलनयानामथवा किमुताविशुद्धानाम् ॥ ३९९७ ।। २ सामान्यविशेषोभयभेदा वक्तव्यता बहुविधेति । अथवा नामादीनामिच्छति कः कं नयः साधुम् ।। ३१९८ ।। श्रुत्वा श्रद्धाय च ज्ञात्वा च तजिनोपदेशन । तत् सर्वनयविशुद्धमिति सर्वनयसंमतं यत्तु ॥ ३५९९ ॥ चरणगुणसुस्थितो भवति साधुरेष क्रियानयो नाम । चरणगुणसुस्थितं यचरणनया त्रुवन्ति साधुरिति ॥ ३६००। म येन भावसाधुः सर्वनया यच भावमिच्छन्ति । ज्ञान-क्रियानयोभययुक्तश्च यतः सदा साधुः ।। ३६०१ ।।
॥१३५२॥
For Personal and Price Use Only
Page #155
--------------------------------------------------------------------------
________________
.....
विशेषा
पद्धत्ति
॥१३५३॥
भावसाधुरिह गृह्यते । सर्वनयाश्च यस्माद् भावसाधमिच्छन्ति, ज्ञान-क्रियानयोभययुक्तश्च यतः सर्वदैव.भावसाधुरुच्यते । तस्माज्ञानक्रियासुस्थितः साधुरित्ययं सम्यक्पक्ष इति ॥ ३५९८ ॥ ३५९९ ॥ ३६०० ॥ ३६०१ ॥ ___अथ प्रकृतोपसंहारार्थमात्मन औद्धत्यपरिहारार्थं च भीजिनभद्रगणिक्षमाश्रमणपूज्याः माहुःइय परिसमापियमियं सामाइयमत्थओ समासेण । वित्थरओ केवलिणो पुव्वविओ वा पहासंति ॥ ३६०२ ॥
इत्युक्तप्रकारेण सर्वेणापि भाष्येणावश्यकग्रन्थस्य प्रथममध्ययनं सामायिकं समासेन संक्षेपेणार्थतः परिसमापितं संक्षेपणास्यार्थः - कथितः, संक्षेपभणनमात्रशक्तिकत्वाद् मम । विस्तरतस्त्वशेषविस्तरेणातिगम्भीरार्थत्वादिदं केवलिन: पूर्वविदो वा प्रभाषन्त इति ॥३६०२।। 82
अथैतद् भाष्यं श्रुत्वा विनेयानां यदिहैव फलं भवति तदुपदर्शनार्थमाह - सेवाणुओगमूलं भासं सामाइअस्स सोऊण । होइ परिकम्मिअमई जोग्गो सेसाणुओगस्स ॥ ३६०३ ॥
इदं च सर्वानुयोगमूलं सर्वानुयोगकारणं सामायिकस्य भाष्यं विवरणं श्रुत्वा निशम्यैतत्परिकर्मितमतिः सन् विनेयः शेषशाखानुयोगस्य योग्यः कुशलः क्षमो भवति ॥ इति चत्वारिंशद्गाथार्थः ॥ ३६०३ ॥
पूर्व चाध्यवसानपर्यन्तव्याख्यातगाथानां ॥२८०३॥ उभयं व्याख्यातभाष्यगाथानां ॥३६०॥ शेषाणि तु चतुर्दशाधिकससशतान्यतिदेशेनैव गतानि, न तु व्याख्यातानि, इति नेह गणितानि ॥
AKESTRA STATE-STREESTER -RRESTEREORGESTRA-24. M ॥ इत्येषा शिष्यहिता नाम विशेषावश्यकत्तिः समाप्ता ॥
GENEFIGHENY " " " " *
१ इति परिसमाप्तमिदं सामायिकमर्थतः समासेन । विस्तरतः केवलिनः पूर्वविदो वा प्रभाषन्ते ॥ ३६०२ ।। २ सर्वानुयोगमूळं भाष्यं सामायिकस्य श्रुत्वा । भवति परिकमितमतियोग्यः शेषानुयोगस्य ।। ३६०३ ॥
॥१३५३॥
Personal and
Only
Page #156
--------------------------------------------------------------------------
________________
विशेषा.
वृहसचिः ।
११३५४॥
| ॥१३५४४
Jan Education International
For Personal and Price Use Only
Page #157
--------------------------------------------------------------------------
________________
विशेषा
बृहद्वृत्तिः।
११३५५॥
नमः श्रीमदहद्भयः । इह गम्भीरापारजन्म-जरा-मरणसलिलसंचयसंपूर्णे, अनवरतभ्राम्यन्महामोहावर्तभीमे, विविधविस्रोतसिकावेलाव्यतिकरदुरतिक्रमे, निःसंख्यकुविकल्पकल्लोलमालाकुले, प्रसरदज्ञानमहामेघदुर्दिनान्धकारनिकुरम्बभीषणे, अनेकापद्वियुन्निपातसंपादितमहाभये, राग-द्वेषदुर्वातसंततिसंजनितहृदयो कम्पे, अविश्रान्तसंज्वलितक्रोधातिरौद्रवडवामुखे, अमानमानशैलस्खलनदुर्गीकृतगमागमव्यतिकरे, मायावल्लीवितानगुप्यत्सत्त्व संघाते, विभवसलिकातिदुष्पूरलोभमहोदरे, विविधव्याधिसंबन्धमत्स्य-कच्छ पपृष्ठपुच्छच्छटाटोपग्राह-नक्रादिप्रचुरजलचरसंचरणसंजनितविषमसंचारे शारीर-मानसानन्तदुःखप्रदापारसंसारवारांनिधौ मां निमग्नं विकलं निःशरणं दीनमवलोक्य कोऽपि करुणापरीतमानसः सद्गुणगुरुमहापुरुषः सम्यग्दर्शनातिदृढमहाप्रतिष्ठानमष्टादशशीलाङ्गसहस्रविचित्रफलकनिबिडघटनाविराजितं सम्यग्ज्ञाननिर्यामकान्वितम्, सुसाधुसंसर्गकार्थसूत्रनिविडबन्धनबद्धम् , संवरकीळाभग्ननिःशेषास्रवद्वारम्, मूत्रितसामायिक-च्छेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयम्, तदुपर्युपकल्पितसाधुसमाचारकरणरणमण्डपम्, समन्ततो गुप्तित्रयमस्खरागुप्तम्, असंख्यशुभाध्यवसायसंनद्धदुर्योधयोधसहस्रदुरवलोकम् , सर्वतो निवेशितसद्गुरूपदेशावल्लिकनिकुरम्बम्, मध्यव्यवस्थापितस्थिरतरातिसरलसद्बोधकूपस्तम्भम्, तद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटम्, तदनसमारूढमौढसदुपयोगपञ्जरदौवारिकम्, तदवबद्धाप्रमादनगरनिकरसमायुक्तमित्यादिसर्वाङ्गसंपूर्णतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास, भणितवांश्च-मो महाभाग ! समधिरोह त्वमस्मिन् यानपात्रे । समारूढश्चात्र मदीयशिक्षा कुर्वाणस्त्वमक्षेपेणैव दुस्तरमप्यमुं भवजलधिमुत्तीर्य प्राप्स्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरबद्वीपम् । ततश्च तद्वचनेनाश्वासितोऽहमारूढस्तत्र। समर्पितं च मम तेन महापुरुषेण सद्भावना. मञ्जूषायां प्रक्षिप्य शुभमनोनामकं महारत्नम् । अभिहितं च मां प्रति 'रक्षणीयमिदं प्रयत्नतो भद्र ! तिष्ठति ह्यस्मिन् महाप्रभावे शुभमनोरत्रे एतद् यानपात्रं, यथोक्तो निर्यामकः, कूपस्तम्भः, योधाः, पञ्जरदौवारिक सर्व क्रमेणावतिष्ठमानमभीष्टदेशं त्वां प्रापयति, एतद. भावे तु सर्वमेतत् प्रलयमुपयाति । अत एव तब पृष्ठतः सर्वादरेणैतदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्कराः। तेभ्यश्च त्वयेदमित्थं रक्षणीयम् । सद्भावनामञ्जूषाङ्गानां चाग्रतो नानाभङ्गसंभवेऽन्यान्यमनि च तदङ्गानि तस्यां निवेशनीयानि । इत्यादिशिक्षा प्रयच्छन् मयापि समं दूरदेशं गत्वा ततोऽन्तर्हितः संजातः । श्रुतश्चायं सर्वोऽपि व्यतिकरः प्रमादपरताभिधानां महापल्ली समाश्रितेन दुष्टतस्कराधिपतिना मोहराजेन । ततो रे रे तस्कराधमाः ! हता वयम्, यतः केनाप्यस्मवैरिणा निजयानपात्रमारोप्यास्मदाविषयभूतं शिवरत्नद्वीपं नेतुमारब्धः सोऽमुकसंसारिजीवः, स च न केवलं चलितः, किन्त्वन्यानपि यथादर्शमात्मना सहानेकान् नयन् तिष्ठति,
॥१५॥
Jan Edmont
For Personal and Price Use Only
Thalww.jainabrary.org
Page #158
--------------------------------------------------------------------------
________________
विशेषा
तद् यावदेतदस्मदीयसंसारनाटकं सर्वशून्यं न करोति तावद् धावत धावत' इति वाणः ससंभ्रममुत्थाय महादुष्टो दुर्बुद्धिनामिका महानावमारूढः । कुवासनाभिधाननौवन्दादिरूढाशेषतस्करनिकरसहित एवं प्रधावितः सत्वरम् । समागतश्च यानपात्रदेशम् । ततः पूत्कृतं पञ्जरदौवारिकेण-भो भोः । समायाता एतास्तास्तस्करचेटिकाः, प्रगुणीभवत यूयम् । तदेतत् श्रुत्वा निर्यामकोत्साहितास्तदुपदिष्टविधिनैव रणमण्डपमारूढाः सजीभूताश्चारित्रधर्मनृपतिसैन्येन सह पूर्वोक्तरूपा योधाः । गृहीतानि च सर्वैरपि पञ्जरदौवारिकादिभिर्यथोचितं जीवादितत्त्वचिन्तनादिरूपाणि नाराचनादिपहरणानि । मोहराजेनापि निरूपितो मिथ्यादर्शनमन्त्री, उत्साहिताः कषायचरटाः, तर्जितं हास्यादिषटलुण्टाकन्दम्, पुरस्कृतः पुरुषवेदादिपरिवृतकाममहातस्करः, व्यापारिता निद्रा-तन्द्रादयः, प्रेरिताश्चक्षुर्दर्शनावरणादयः, अग्रेसरीकृतं रोगाद्यसातवेदनीयसैन्यम्, प्रवर्तिताजराऽन्तरायादयः, स्वयमपि च निजतनयरागकेसरिद्वेषगजेन्द्रादितलवर्गान्वितेन मोहचरटाधिपेन वेष्टितं समन्ततोऽनन्तगुणपरिपाट्या यानपात्रम् । प्रहर्तुमारब्धं चाक्षेपेण सर्वैरपि समकालम् । ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्रिणा समाक्षिप्तो मिथ्यादर्शनमन्त्री, प्रशम-मार्दवा-ऽऽर्जवादिमहायोधैरपि लीलयैव निरुद्धाः क्रोधादिकषायचरटाः, वैराग्य ब्रह्मतादिमहासुभटैरपि दूरमुत्त्रासितो हास्यादिनिजतलवर्गानुगतः काममहालुण्टाकः, अप्रमादमहारथिनापि श्रुतोपयोगोद्यमादिनाराचैस्ताडिताः शिरसि निद्रा-तन्द्रादयः, तदावरणक्षयोपशमवीरेणाप्यधरीकृताश्चक्षुर्दर्शनावरणादयः, सद्धर्मानुष्ठानोदी पितसातोदयसैनिकेनापि विलक्षीकृतं रागाद्यसातवेदनीयसैन्यम्, पुण्योदयमहाबलराजपुत्रेणापि निष्पभावीकृता जरा-ऽन्तरायादयः । एवमन्येषामप्यनन्तानां चारित्रधर्मराजसैनिकानां निजनिजप्रतिपक्षेण सह महासमरसंमर्दे प्रवृत्ते निजसैन्यं किश्चिद् नश्यमानमवलोक्य 'रे रे तस्कराधमाः ! किमेतदारब्धम् , स्थिरीभूय कगत लगत सर्वात्मना' इति ब्रुवाणो मोहचरटचक्रवर्ती ससैन्य एवारब्धो युगपत् प्रहर्तुम् । केचित् त्वतीव च्छलघातिनो मोहसैनिकाः केनापि पक्षण समारोहन्ति तद् यानपात्रम्, विप्रतारयितुमुपक्रमन्ते माम्, प्रविशन्ति रणमण्डपस्यान्तः, प्रहरन्ति च्छन्नीभूताः, समाहत्य जर्जरयन्ति सद्भावनामञ्जूषाङ्गानि । ततो मया तस्य परमपुरुषस्योपदेशं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिकाभिधानं सद्भावनामञ्जूषायां नूतनफलकम्, ततोऽपरमपि शतकविवरणनामकम्, अन्यदप्यनुयोगद्वारवृत्तिसंज्ञितम्, ततोऽपरमप्युपदेशमालासूत्राभिधानम् , अपरं तु तवृत्तिनामकम्, अन्यच्च जीवसमासविवरणनामधेयम्, अन्यत्तु भवभावनासूत्रसंज्ञितम्, अपरं तु तद्विवरणनामकम्, अन्यच्च झटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं निवेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् । एतैश्च नूतनफलकैर्निवेशितैर्वज्रमयीव संजाताऽसौ मञ्जूषा तेषां पापानामगम्या । ततस्तैरती
Jain Educational
For Personal and Price Use Only
Page #159
--------------------------------------------------------------------------
________________
बृहद्वृत्तिः।
वच्छलघातितया संचूर्णयितुमारब्धं तद्वारकपाटसंपुटम् । ततो मया ससंभ्रमेण निपुणं तत्पतिविधानोपायं चिन्तयित्वा विरचयितुमारविशेषा०14 ब्धं तद्द्वारपिधान हेतोर्विशेषावश्यकविवरणाभिधानं वज्रमयमिव नूतनकपाटसंपुटम् । ततश्चाभयकुमारगणि धनदेवगणि जिनभद्रगणि
लक्ष्मणगणि-विबुधचन्द्रादिमुनिवृन्द-श्रीमहानन्द-श्रीमहत्तरावीरमतीगणिन्यादिसाहाय्याद् ‘रे रे निश्चितमिदानी हता वयम्, यद्येतद् ॥१३५७॥
निष्पद्यते, ततो धावत धावत, गृहीत गृहीत, लगत लगत' इत्यादि पृतकुर्वतां सर्वात्मशक्त्या युगपत् प्रहरतां हाहारचं कुर्वतां च मोहादिचरटानां चिरात् कथं कथमपि विरचय्य तद्वारे निवेशितमेतदिति । ततः शिरो हृदयं च हस्ताभ्यां कुट्टयन् विषण्णो मोहमहाचरटः, समस्तमपि विलक्षीभूतं तत्सैन्यम्, निलीनं च सनायकमेव । ततः कचित् क्षेमेण शिवरत्नहीपं प्रतिगन्तुं प्रवृत्तं तद् यानपात्रमिति ॥
क्व श्रीजिनभद्रगणेः पूज्यस्यैतानि भाष्यवचनानि । तर्कव्यतिकरदुर्गाण्यतिगम्भीराणि ललितानि ॥१॥ विवृतानि स्वयमेव हि कोट्याचार्यैश्च बुधजनप्रवरैः । संगच्छते क पुनरपि ममापि वृत्तेः प्रयासोऽत्र ॥२॥ ऋजुभणितिमिच्छतामिह तथापि मत्तोऽपि मन्दबुद्धीनाम् । उपकारः केषाश्चित् समीक्ष्यते शिष्टलोकानाम् ॥३॥ तेनात्म-परोपकृति संभाव्य मयापि भाष्यवृत्तिरियम् । विहिता श्रुतेऽतिभक्तिं शुभविनोदं च चिन्तयता ॥४॥ यच्चेह किमपि वितथं लिखितमनाभोगतः कुबोधाद् वा । तत् सर्व मध्यस्थैर्मय्यनुकम्पापरैः शोध्यम् ॥ ५॥ कृत्वा च विवरणमिदं यत् पुण्यमुपार्जितं मया किञ्चित् । तेना भवक्षयादस्तु जिनमते प्रीत्यविच्छेदः ॥ ६॥ ग्रन्थाग्रं प्रत्यक्षरं गणनया सहस्राणि । २८०००। श्रीमत्तपोगणगगनाङ्गणगगनमणिप्रभैः स्वपुण्यार्थम् । विजयानन्दमुनीन्द्रैश्वित्कोशेऽसौ प्रतिर्मुमुचे ॥१॥
॥१३५
१ क-ख-'विपन्नो'।
Jan Education
For Personal and Price Use Only
Page #160
--------------------------------------------------------------------------
________________ विशेषा वृहद्वतिः / // 1358 // प्रशस्तिः / श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः / विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः // 1 // ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्र फलवृन्दैः / कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति // 2 // एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधिस्तुत्वानुकृतक्षमाधरपतिः साम्यत्वतारापतिः / सम्यग्ज्ञानविशुद्धसंयमतपःखाचारचर्यानिधिः शान्तः श्रीजयसिंहमूरिरभवद् निःसङ्गचूडामणिः // 3 // रत्नाकरादिवतस्मात् शिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः // 4 // श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः / द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ? // 5 // तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्टापि मुदं ब्रजन्ति परमं प्रायोऽतिदुष्टा अपि / यहक्वाम्बुधिनियंदुज्ज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिन लेभे जनैः // 6 // कृत्वा येन तपः सुदुश्चरतरं विश्वं प्रबोध्य प्रभोस्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः / शुक्लीकुर्वदशेषविश्वकुहरं भव्यभिःस्पृहं यस्याशास्त्रनिवारितं विचरति श्वेतांशगौरं यशः // 7 // यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 8 // 10 // 35 // 8666 4881280 Jain Educational For Personal and Price Use Only
Page #161
--------------------------------------------------------------------------
________________ विस्फूर्जत्कलिकालदुस्तरतमःसंतानलुप्तस्थितिः सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् / सम्यग्ज्ञानकरैश्विरन्तनमुनिक्षुण्णः समुधोतितो मार्गः सोऽभयदेवसूरिरभवत् तेभ्यः प्रसिद्धो भुवि // 9 // तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै / श्रीहेमचन्द्रसूरिभिरियमनुरचिताप्रकृतवृत्तिः // 10 // शरदां च पञ्चसप्तत्यधिकैकादशशतेष्वतीतेषु / कार्तिकसितपञ्चम्यां श्रीमज्जयसिंहनृपराज्ये // 11 // समाप्तोऽयं ग्रन्थः / // 135
Page #162
--------------------------------------------------------------------------
________________ विशेषा वृहदतिः / // 1360 // S AAIDS // 136 // Jain Education Intermedia For Personal and Price Use Only