SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषा 9.००.०० ॥१३४१॥ व्याख्या-अथवा, समाप्तमस्तुतसामायिकपतिपत्तिक्रियस्तन्मालिन्यविशुद्धिदेतोस्तस्य सामायिकस्य येऽतिचारा मालिन्यप्रकारास्तेषां यद् निवर्तनादिरूपं क्रियान्तरम्, आदिशब्दाद् निन्दागर्दाक्रियान्तरपरिग्रहः, तदभिमुखः पुनरपि भदन्तशब्दमुच्चारयति 'विनेयः' इति शेषः । यच्चे हैव पुरा पूर्व निर्दिष्टं यथा गुरुमापृच्छय सर्वाण्यावश्यकानि कुर्याद् विनेयः । तदनेन पुनरपि भद न्तशब्दोच्चारणेन समर्थितं भवति । पूर्व ह्यनेन भदन्तशब्दोच्चारणाद् गुरुमापृच्छय सामायिकावश्यक प्रतिपन्नम्, इदानीं तु तदती. चारप्रतिक्रमणावश्यकं पुनरपि तदुच्चारणात् तमापृच्छय कुर्वता यथोक्तार्थः समर्थितो भवतीति । अथवा, 'भवतः पृष्ट्वा यत् पूर्व कर्तु मारब्धं सामायिकं तदिदानी कृतं समर्थितं भदन्त ! मया, इत्येवं सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः । अनेन च गुरुमा पृच्छयारब्धानां सर्वासामपि क्रियाणामवसाने गुरोः प्रत्यर्पण निवेदनमवश्यं विधेयमित्येतद् भणितं भवति ॥३५६९।३५७०।३५७१।। अथ 'पडिक्कमामि' इत्यादिक्रियाव्याख्यानार्थमाह'नेयं पडिकमामि त्ति भूयसावजओ निवत्वामि । तत्तो य जा निवत्ती तदणुमईओ विरमणं जं॥३५७२॥ निंदामि त्ति दुगुंछे गरिहामि तदेव तो कओ भेओ ? । भण्णइ सामण्णत्थाभेए इ8ो विसेसत्थो ॥३५७३॥ जह गच्छइ त्ति गो सप्पइ त्ति सप्पो समे वि गच्छत्थे । गम्मइ विसेसगमणं तह निंदा-गरहणत्थाणं ॥३५७४॥ व्याख्या-'प्रतिक्रमामि' इत्यस्य व्याख्यानं ज्ञेयम् । किम् ? इत्याह-'भूतसावद्ययोगाद् निवर्तेऽहम्' इति । प्रेरकः पृच्छतिभूतसावद्ययोगस्यासेवितत्वात् का नामेदानी ततो निवृत्तिः ? इत्याह-यत् तदनुमतेविरमणम् , न पुनस्तत्करण-कारणाभ्याम्, तयोरासेवितत्वेन विरमणायोगादिति । 'निन्दामि' इति कोऽर्थः ? 'जुगुप्से' आत्मानमतीतसावद्ययोगकारिणम्' इति संवन्धं वक्ष्यति । 'गर. हामि' इत्यनेनाप्येतदेवोक्तं जुगुप्स इति । आह-ततस्तर्हि कुतो निन्दा-गईयोरर्थतो भेदः, द्वयोरपि जुगुप्सार्थत्वात् । । भण्यतेऽत्रोत्तरम् , सामान्यार्थाभेदेऽपि विशेषार्थों विशेषवदर्थाभिधायक इष्टो गर्दाशब्द इति । यथा गच्छतीति गौः, सर्पतीति सर्पः, इत्यनयोः समानेऽपि गत्यर्थे द्वयोरपि विशेषवदेवं गमनं गम्यते प्रतीयते तथा निन्दा-गर्थियोरपि विशेषरूपत्वं वक्ष्यतीति ॥३५७२॥३५७३॥३५७४॥ १ ज्ञेयं प्रतिक्रमामीति भूतसावद्यतो निवर्ते । ततश्च या निवृत्तिस्तदनुमतेविरमणं यत् ।। ३५७२ ।। निन्दामीति जुगुप्से गहामि तदेव ततः कुतो भेदः ? । भण्यते सामान्यार्थाभेदे इष्टो विशेषार्थः ॥ ३५७३ ।। यथा गच्छतीति गौः सर्पतीति सर्पः समेऽपि गत्यर्थे । गम्यते विशेषगमन तथा निन्दा-गर्थियोः ।। ३५७४ ।। ॥१३४॥ Jain Education.in For Personal and Price Use Only draww.jainmibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy