SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ EdA बृहदत्ति । दिहानयार्थविकल्पनया विशेषतः समायोज्यम् । कथम् ? इति चेत् । उच्यते -अतीते कृतस्य कारितस्यानुमतस्य च संबन्धिनी मनुविशेषा मतिरिदानी प्रत्याख्यायते, न तु करण-कारणे, तयोः कृतकारितत्वात् । इतरकालद्वये तु करण-कारणाऽनुमतयः प्रत्याख्येयत्वेन न . वार्यन्ते, अविरुद्धत्वात् । इत्यस्याप्यर्थस्य दर्शनार्थ 'त्रिविधं' इत्यादि कर्तव्यमिति ॥ ३५६६ ॥ ॥१३४०॥ 'भंते' इत्यतिदेशयन्नाहभंति त्ति पुव्वभणियं तेणं चिय भणइ किं पुणो भणियं । सव्वत्थ सोऽणुवत्तइ भणियं चादिप्पउत्तो त्ति ॥३५६७॥ अणुवत्तणत्थमेव य तग्गहणं नाणुवत्तणादेव | अणुवत्तंते विधओ जमिह कया किंतु जत्तेणं ॥ ३५६८ ॥ 'भंते' इति पदं पूर्वमेव मणितं व्याख्यातम्, इति नेह व्याख्यायते । तेनैव कारणेन तेनैव हेतुना तर्हि परो भणति-यदि पूर्व| मेवेदं भणितम्, तर्हि किं पुनरपीह भणितं मूत्रकृता ?-ननु सर्वत्र सूत्रान्तं यावदनुवर्तते एवासौ, भणितं चान्यत्र-'आदौ प्रयुक्तोऽर्थः सर्वत्रानुवर्तते' इति । गुरुलह-सत्यमेवैतत् . सूत्रान्तं यावदनुवर्तनार्थमेव तस्य भदन्तशब्दस्य ग्रहणं तद्ग्रहणमादौ कृतम्, केवलं नानु. वर्तनादेव नानुवर्तनमात्रादेव यस्मादधिकृता विधयोऽनुवर्तन्ते भवन्ति, किन्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषासु–'अनु. 18 वर्तन्ते च नामविधयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति । स चायं यत्रः, यत् तस्यानुस्मरणार्थ पुनरुच्चारणमिति॥ __ अथवा, पुनस्तगणने समाधानान्तरत्रयमाह -- अहवा समत्तसामाइयकिरिओ तब्बिसोहणत्थाए । तस्साईआरनिवत्तणाइकिरियतराभिमुहो ॥३५६९ ॥ जं च पुरा निद्दिढ गुरुं जहावासयाई सव्वाई। आपुच्छिउं करिज्जा तयणेण समस्थिय होइ ॥ ३५७० ॥ सामाइयपच्चप्पणवयणो वायं भदंतसहो त्ति । सव्वकिरियावसाणे भाणियं पञ्चप्पणमणेणं ॥ ३५७१ ॥ १ भदन्तेति पूर्वभाणितं तेनैव भणति किं पुनर्भणितम् । सर्वत्र सोऽनुवर्तते भणितं चादिप्रयुक्त इति ॥ ३५६७ ।। अनुवर्तनार्थमेव च तद्ग्रहणं नानुवर्तनादेव । अनुवर्तन्त विधयो यदिह कृताः किन्तु यत्नेन ।। ३५६८ ।। २ अथवा समाप्तसामायिकक्रियस्तद्विशोधनार्थम् । तस्यातिचारनिवर्तनादिक्रियान्तराभिमुखः ॥ ३५६९ ।। यञ्च पुरा निर्दिष्टं गुरुं यथावश्यकानि सर्वाणि । आपृच्छय कुर्यात् तदनेन समर्थितं भवति ॥ ३५७० ।। सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भाणितं प्रत्यर्पणमनेन ।। ३५७१ ।। 1928 For Personal and Private Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy