________________
विशेषा ०
॥१२३०॥
Jain Education Internati
अथोपाध्यायशब्दार्थ भाष्यकारः प्राह
वगम्म जओऽहीयइ जं चोवगयमज्झयाविति । जं चोवायज्झाया हियस्स तो ते उवज्झाया ॥ ३१९९ ॥ उपगम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्त उपाध्यायाः, यच्च यस्मादुप समीपे गतं प्राप्तं शिष्यमध्यापयन्ति तत उपाध्यायाः, यस्माच्च स्वपरहितस्योपायध्यायका उपायचिन्तकास्ततस्त उपाध्याया इति ।। ३१९९ ॥
आचार्योपाध्याययोभाग्यकारो विशेषमाह
आयारदेसणाओ आयरिया विणयणादुवज्झाया । अत्थपदायगा वा गुरवो सुत्तस्सुवज्झाया ॥ ३२०० ॥
प्रकटार्थेव । इति गाथापञ्चकार्थः ।। ३२०० ॥ 'उवज्झाया' इत्यादिचतस्रो गाथाः पूर्ववत् ॥
॥ इत्युपाध्यायनमस्कारः समाप्तः ॥ साधुनमस्कारे दश निर्युक्तिगाथाः सुगमाः, गतार्थाश्चेति ॥ ॥ तदेवमवसितं वस्तुद्वारम् ॥
अथाक्षेपद्वारं वक्तव्यम्, तत्र परः प्राह-
विसंखेवो न वित्थारो संखेवो दुविहो सिद्ध-साहूणं । वित्थरओऽणेगविहो पंचविहो न जुज्जए तम्हा ॥ ३२०१ ॥
इह किल सूत्रं संक्षेप-विस्तरावतिक्रम्य न वर्तते । तत्र संक्षेपवद् यथा सामायिकसूत्रम्, विस्तरवद् यथा चतुर्दश पूर्वाणि । इदं पुनर्नमस्कारसूत्रमुभयातीतम्, यतोऽत्र न संक्षेपो नापि विस्तरः; तथा 'संखेवो दुविहो ति' यद्यय संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् सिद्ध-साधुभ्यामिति, परिनिर्वृताईदादीनां सिद्धशब्देन ग्रहणात्, संसारिणां तु साधुशब्देनेति । संसारिणो हाईदा -ऽऽचार्यादयो न साधुत्वमतिवर्तन्ते । अथाऽयं विस्तरतः, तदप्युक्तम्, यतो विस्तरतोऽनेकविध
१ उपगम्य यतोऽधीयते यच्चोपगतमध्यापयन्ति । यच्चोपायध्यायका हितस्य ततस्त उपाध्यायाः ॥ ३१९९ ॥
२ आचारदेशनादाचार्या विनयनादुपाध्यायाः । अर्थप्रदायका वा गुरवः सूत्रस्योपाध्यायाः ॥ ३२०० ॥
३. नापि संक्षेपो न विस्तरः संक्षेपो द्विविधः सिद्ध-साधुभ्याम् । विस्तरतोऽनेकविधः पञ्चविधो न युज्यते तस्मात् ॥ ३२०१ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
॥१२३०॥
www.jainelibrary.org