________________
विशेषा० ॥१२३१ ॥
Jain Education Interna
नमस्कारः प्राप्नोतिः तथाहि - ऋषभा ऽजित संभवादिभ्यो नामग्राहं सर्वतीर्थकरेभ्यः, तथा सिद्धेभ्योऽप्येक-द्वि-त्रि- चतुष्पश्चादिसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा, तीर्थ-लिङ्ग-प्रत्येक बुद्धादिविशेषणविशिष्टेभ्य इत्यादिभिर्भेदैर्विस्तरतोऽनन्तभेदो नमस्कारः मानोति । यतश्चैवम् तस्मादमुं पक्षद्वयमप्यङ्गीकृत्य पश्चविधोऽयं नमस्कारो न युज्यते ।। ३२०१ ।।
॥ तदेवमुक्तमाक्षेपद्वारम् ॥
अथ प्रसिद्धिद्वारम् । तत्र प्रसिद्धिराक्षेपस्य प्रतिविधानमभिधीयते । इह चेदं प्रतिविधानम्- 'न संक्षेपो नापि विस्तरतः' इत्येतदसिद्धम्, संक्षेपत्वादस्य । अथ संक्षेपकारणवशात् कृतार्था ऽकृतार्थपरिग्रहेण सिद्ध-साधुमात्रक एवोक्त इति चेत् । तदयुक्तम्, कारणान्तरस्यापि सद्भावात् तथा चाह
अरिहंताई नियम साहू साहू उ तेसु भएयव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो ॥ ३२०२ ॥
इहाईदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् ; साधवस्तु तेष्वईदादिषु भक्तव्या विकल्पनीयाः, यतस्ते न सर्वेstoदादयः, किं तर्हि ?; केचिदर्हन्तः येषां तीर्थकर नामकर्मोदयोऽस्ति, केचित् तु सामान्यकेवलिनः अन्ये त्वाचार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतदविशिष्टाः सामान्यसाधव एव शिक्षकादयो न पुनरर्हदादयः । तदेवं साधूनामदादिषु व्यभिचारात् तनमस्करणेऽपि नार्हदादिनमस्कार साध्यस्य विशिष्टस्य फलसिद्धिः । ततश्च संक्षेपेण द्विविधनमस्करणमयुक्तमेव, अव्यापकत्वादितिः अत्र प्रयोगः -- साधुमात्रनमस्कारो विशिष्टोऽईदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारकृत्त्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद् वेति । तस्मात् संक्षेपतोऽपि पञ्चविध एव नमस्कारो न तु द्विविधः, अव्यापकत्वात् ; विस्तरस्तु नमस्कारो न विधीयते, अशक्यत्वात् । तथा, 'मग्गे अविष्वणासो' इत्यादिको यः पूर्व पञ्चविधो हेतुरुक्तस्तन्निमित्तमप्ययं पञ्चविधः सिद्धो भवति ।। इति नियुक्तिगाथाद्वयार्थः ॥ ३२०२ ॥
अथ भाष्यकार आक्षेपविवरणमाह-
निव्य-संसारिकया कयत्थलक्खणविहाणओ जुत्तो । संखेवनमुक्कारो दुविहोऽयं सिद्ध-साहूणं ॥ ३२०३ ॥
१ अहंदादयो नियमात् साधवः साधवस्तु तेषु भक्तव्याः । तस्मात् पञ्चविधः खलु हेतुनिमित्तं भवतु सिद्धः ॥ ३२०२ ॥ २ निर्वृत संसारिकृताकृतार्थ लक्षणविधानतो युक्तः । संक्षेपनमस्कारो द्विविधोऽयं सिद्ध-साधूनाम् ॥ ३२०३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥१२३१॥
www.jainelibrary.org