SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥१२२९॥ मर्यादयाऽभिगम्यन्ते यतो मुमुक्षुभिरिति यदुक्तम्- एतत् वात्पर्यमित्यर्थः, तेनाचार्याः ॥ इति गाथासप्तकार्थः ॥ ३१९३-९५॥ 'आयरिया' इत्यादिचतस्रो नियुक्तिगाथाः प्रागुक्तानुसारेण व्याख्येयाः॥ ॥ इत्याचार्यनमस्कारः समाप्तः ॥ अथोपाध्यायनमस्कारमभिधित्सुराहनाम ठवणा दविए भावे य चउबिहो उवज्झाओ । दवे लोइयसिप्पा धम्मे तह अन्नतित्थीया ॥३१९६॥ नाम-स्थापनोपाध्यायौ सुबोधौ । द्रव्योपाध्यायांस्तु ज्ञ-भव्यशरीरव्यतिरिक्तावाह- 'द्रव्य इत्यादि' द्रव्वे विचार्य तद्वयतिरिक्त उपाध्यायः शिल्पायुपदेष्टा तथा, 'धम्मे त्ति' निजनिजधर्मोपदेष्टारोऽन्यतीर्थिकाश्च संसारनिबन्धनत्वेनाप्रधानभूतत्वात् तद्वयतिरिक्तद्रव्योपाध्याया मन्तव्या इति ॥ ३१९६ ॥ भावोपाध्यायानाह-- बोरसंगो जिणक्खाओ सज्झाओ कहिओ बुहे । तं उवइसति जम्हा उवज्झाया तेण वुच्चंति ॥ ३१९७ ॥ यो द्वादशाङ्गः स्वाध्यायः प्रथमतो जिनराख्यातः, ततो 'बुहे त्ति' प्राकृतत्वाद् बुधैर्गणधरादिभिः कथितः पारम्पर्येणोपदिष्टः, तं स्वाध्यायं मूत्रतः शिष्याणामुपदिशन्ति यस्मात् , तेनोपाध्याया उच्यन्ते । अत एवं 'इङ् अध्ययने उपेत्य सूत्रमधीयते येभ्य: शिष्यैस्ते उपाध्याया भण्यन्त इति ।। ३१९७॥ सांपतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाहउत्ति उवओगकरणे झत्ति य ज्झाणस्स होई निदेसे । एएण होइ उज्झा एसो अण्णो वि पजाओ ॥३१९८॥ 'उ' इत्येतदक्षरमुपयोगकरणे वर्तते 'झा' इति चेदं ध्यानस्य निर्देशे । ततश्च प्राकृतशैल्यैतेन कारणेन भवन्ति 'उज्या' उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः । एषोऽनन्तरोक्तोपाध्यायशब्दापेक्षयाऽन्योऽपि पर्याय इति ॥ ३१९८ ॥ नाम स्थापना द्रव्ये भावे च चतुर्विध उपाध्यायः । द्रव्ये लौकिकशिल्पाद् धर्म तथाऽन्यतीर्थीयाः ॥ १९ ॥ २ द्वादशाको जिनात्यातः स्वाध्यायः कथितो बुधैः । तमुपदिशन्ति यस्मादुपाध्यायास्तनोच्यन्ते ॥ ३१९ ॥ । रित्युपयोगकरणे झेति च ध्यानस्य भवति निर्देशे । एतेन भवत्युज्झा एषोऽन्योऽपि पर्यायः ॥ ३१९८ ॥ ॥१२२९॥ HOLOG JainEducatiora internal For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy